संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२५

खण्डः ३ - अध्यायः ३२५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित्॥
आगमः कारणं तत्र न भोगस्तत्र कारणम् ॥१॥
आगमेन विशुद्धेन भोगो याति प्रमाणताम्॥
अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥२॥
आहंतैवाभियुक्तः सन्नर्थानामुद्धरेत्पदम्॥
भुक्तिरेव विशुद्धा स्यात्प्राप्तानां पितृतः क्रमात् ॥३॥
अन्वाहितः  हेले विस्पष्टयाचितम्॥
अप्रत्यक्षं च यद्भुक्तं न चेद्भोगेन जीर्यते ॥४॥
पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी॥
परेण भुज्यमानाया धनस्य दशवार्षकी ॥५॥
त्रिभिरेव तु यद्भुक्तं पुरुषैस्तु यथाविधि॥
लेख्याभावेपि तं तत्र चतुर्थः समवाप्नुयात् ॥६॥
आगमोप्यधिको भुक्तेर्विनापूर्वक्रमागतात्॥
आगमोपि बली नैव भुक्तिस्तत्रापि यत्र न ॥७॥
आध्याभिहस्ता स भृशं विनेया दण्डेन विप्रा द्विगुणेन राज्ञा॥
लोके न दुष्टः स तु कंटकः स्यात्पापात्मनां मूर्धनि तिष्ठतीति
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु भोगलक्षणवर्णनो नाम पञ्चविंशत्युत्तरत्रिशततमोऽध्यायः ॥३२५॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP