खण्डः ३ - अध्यायः २५१
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
हंस उवाच॥
अनृतं वर्जयेन्नित्यमनृतं पातकं परम्॥
अनृताद्धि परं नास्ति द्वारं नाशनमात्मनः ॥१॥
सर्वे निबद्धा वाच्यार्था वाङ्मूला वाग्विनिस्सृताः॥
तस्मान्न स्तेनयेद्वाचं य इच्छेद्धितमात्मनः ॥२॥
अनृतं न क्वचिद्वाच्यं तथा साक्ष्ये विशेषतः॥
अनृतं हि वदन्साक्ष्ये पितृभिः सह मज्जति ॥३॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते॥
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥४॥
हन्ति जातानजाताँश्च हिरण्यार्थेऽनृतं वदन्॥
सर्वं भूम्यनृतं हन्ति मास्म भूम्यनृतं वदेत् ॥५॥
अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने॥
अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥६॥
एतान्दोषानवेक्ष्यैव सर्वाननृतभाषणे॥
यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वदेत् ॥७॥
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः॥
अन्धः शत्रुगृहं गच्छेन्न साक्ष्यमनृतं वदेत् ॥८॥
साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम्॥
निविशन्ते तमाजातीस्तस्मात्साक्ष्ये वदेदृतम् ॥९॥
यन्मया गदितं पापं द्विजेन कूटसाक्षिणः॥
ततोऽधिकमवाप्नोनि सद्यो मिथ्याऽभिशंसने ॥१०॥
यथा क्रोधाद्भयाल्लोभादज्ञानाद्वा द्विजोत्तमाः॥
योऽनृतं भाषते सद्भ्यः स याति नरकं ध्रुवम् ॥११॥
अवाक्छिरास्तमस्यन्धे किल्बिषी नरके पतेत्॥
यः प्रश्नं वितथं ब्रूयात्पृष्टः सद्धर्मनिश्चये ॥१२॥
अन्धो मत्स्यानिवाश्नाति निरपेक्षं सकण्टकान्॥
यो भाषतेऽर्थ वैकल्यमप्रत्यक्षं सभाङ्गतः ॥१३॥
कूटकर्मतुलामाने रसानां भेदने तथा॥
विश्वासन्यासहरणे रहस्यसमभेदने ॥१४॥
मृतिं कल्पयते यश्च मधु मांसेन पातकम्॥
द्विजस्य सुरया वापि लोभेन च विशेषतः ॥१५॥
गोब्राह्मणवधे वापि गुरुपितृवधे तथा॥
वयस्यदारगमने गुरुदारप्रदर्शने ॥१६॥
व्युत्पादने च शस्त्राणां शस्त्रोत्सादे तथैव च॥
भर्तृपिण्डापहरणे संग्रामाच्च पलायने ॥१७॥
शरणागतसंत्यागे गच्छतश्च दिवा स्त्रियम्॥
प्रेष्यां च गच्छतः पापं राजद्रोहे तथैव च ॥१८॥
पङ्क्त्यां विषमदातुश्च श्राद्धं मित्रस्य यत्तथा॥
शुल्केन ददतः कन्यां केशविक्रयिकस्य च ॥१९॥
विप्रस्य पातकं यच्च प्राणिनां विक्रये भवेत्॥
आमश्राद्धभुजः पापमयाज्यस्य च याजने ॥२०॥
मिथ्या राज्यस्य करणे परद्रव्यापहारिणः॥
सर्वाण्येतानि पापानि द्विजः सभ्यः समाप्नुयात् ॥२१॥
यद्यन्यथा वदेत्तस्माद्धर्म्यं सभ्यः सदा वदेत्॥
एतदेव तथा पापं विज्ञेयं कूटसाक्षिणाम् ॥२२॥
कूटकर्मा तु नरकं पितृभिः सह मज्जति॥
दशवर्षसहस्राणि दशवर्षशतानि च ॥२३॥
ततो दशगुणं कालं सभ्यो मिथ्याभिभाषिता॥
रागद्वेषप्रवृत्तस्तु व्यवहारेऽपि पार्थिवः ॥२४॥
ततो दशगुणं कालं नरके वसति ध्रुवम्॥
उक्ते वचसि धर्म्ये तु सद्यः पापात्प्रमुच्यते ॥२५॥
राजा नरकमाप्नोति सत्यवाक्यं विलंघयन॥
शूद्रविट्क्षत्रविप्राणां यत्रोक्ते प्राप्नुयाद्वधः ॥२६॥
तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते॥
वाग्दैवतैश्च चरुभिर्यजनैश्च सरस्वतीम् ॥२७॥
कूष्माण्डैर्वापि जुहुयाद्घृतमग्नौ यथाविधि॥
उदुत्यृचे वा वारुण्ये ऋचा वाग्दैवतेन वा ॥२८॥
अनृतस्य वशस्तस्य कुर्वाणो निष्कृतिं पराम्॥
बहवः सुखमेधन्ते यस्मिन्विप्रा निपातिते॥
वाच्यं तस्य वधे प्राप्ते यथाभूतमिति श्रुतिः ॥२९॥
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु विप्रा न विवाहकाले॥
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥३०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वनृतदोषवर्णनो नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५१॥
N/A
References : N/A
Last Updated : January 28, 2023
TOP