खण्डः ३ - अध्यायः १४१
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
विद्याकामेन कर्तव्यं नरेण सुविपश्चिता ॥१॥
बहिः स्नानं नरः कृत्वा कृतऋग्वेदपूजनः॥
ऋग्वेदं शृणुयान्नित्यं मासमात्रमतन्द्रितः ॥२॥
चैत्रादारभ्य धर्मज्ञः नित्यं नक्ताशनो द्विजः॥
यस्माच्छ्रुतं द्विजात्तस्य ज्येष्ठस्य चरमेहनि ॥३॥
वासोयुगं हिरण्यं च तथा धेनुं पयस्विनीम॥
घृतपूर्णं कांस्यपात्रं सहिरण्यं च दक्षिणा ॥४॥
आषाढादिषु मासेषु यजुर्वेदव्रतं भवेत॥
आश्विनादिषु मासेषु सामवेदव्रतं भवेत् ॥५॥
तथा सर्वव्रतं नाम पौषादिषु विधीयते॥
सर्वेषु सर्वं कर्तव्यमृग्वेदव्रतकीर्तितम् ॥६॥
वेदात्मनो वासुदेवस्य पूजां कृत्वा नरो द्रादशवत्सराणि॥
विष्णोलोकं याति लोके विशिष्टं यस्तं प्राप्तः सर्वदुःखं जहाति ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे पञ्चमचतुर्मूर्तिकल्पे वेदव्रतो नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४१॥
N/A
References : N/A
Last Updated : January 24, 2023
![Top](/portal/service/themes/silver/images/up.gif)
TOP