संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३८

खण्डः ३ - अध्यायः १३८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
शक्रकीनाशवरुणधनाध्यक्षान्यदूत्तम ॥१॥
चतुरात्मा विनिर्दिष्टो वासुदेवो जगत्पतिः॥
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः ॥२॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
आद्येह्नि चैत्रशुक्लस्य यजेत त्रिदशेश्वरम् ॥३॥
द्वितीयेह्नि यमं देवं तृतीये सलिलाधिपम्॥
चतुर्थेह्नि धनाध्यक्षं प्रत्यहं स्नानमाचरेत् ॥४॥
नदीप्रदेशमासाद्य देवदृक् प्रत्यहं क्रमात्॥
यवैस्तिलैस्तथाज्येन होमः स्यात्तिलतण्डुलैः ॥५॥
रक्तं पीतं तथा कृष्णं श्वेतं वस्त्रं दिनक्रमात्॥
शुभमेतद्व्रतं कृत्वा पूर्णं संवत्सरं नरः॥
नाकलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ॥६॥
मानुष्यमासाद्य भवत्यरोगो वसुन्धरेशो विजितारिपक्षः॥
जनाभिरामः सुभगः प्रकृत्या ततोपि विप्रत्वमुपैति भूयः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेवज्रसंवादे चतुर्मूर्तिव्रतवर्णनो नामा ष्टात्रिंशदुत्तरशततमोऽध्यायः ॥१३८॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP