संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०९०

खण्डः ३ - अध्यायः ०९०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
पूर्वोक्तविधिना गत्वा शिलां वाथ परीक्षयेत॥
शैलं गत्वा महाराज दैवज्ञः स्थपतिस्तथा ॥१॥
शुक्ला शस्ता द्विजातीनां क्षत्त्रियाणां च लोहिता॥
विशां पीता हिता कृष्णा शूद्राणां च हितप्रदा ॥२॥
एकवर्णां समां स्निग्धां निमग्नां च तथा क्षितौ॥
घातातिमात्र स्फुटनां दृढां मृद्वीं मनोरमाम् ॥३॥
कोमलां सिकताहीनां प्रियां दृङ्गमनसोरपि॥
सरित्सलिलनिर्धूतां पवित्रां तु जलोषिताम ॥४॥
द्रुमच्छायोपगूढां च तीर्थाश्रयसमन्विताम॥
आयामपरिणाहाढ्यां ग्राह्यां प्राहुर्मनीषिणः ॥५॥
अग्राह्यां ज्वलनालीढां तप्तां भास्कररश्मिभिः॥
अन्यकर्मोपयुक्तां च तथा क्षाराम्बुसंयुताम् ॥६॥
अत्यन्तोपहतां रूक्षामपुण्यजनसेविताम॥
तिलैः सम्भूषिता या तु विचित्रबिन्दुभिश्चिता ॥७॥
रेखामण्डलसङ्कीर्णां विद्धां विमलसंयुताम॥
विमलं त्रिविधं ज्ञेयं लोहं कांस्यं च हेमजम् ॥८॥
या लोहविमलैर्जु्ष्टा सा जनक्षयकारिणी॥
कांस्याभविमलोपेता जनमानविनाशिनी ॥९॥
हैमेन युक्ता दुर्भिक्षं तथा कुर्यादवग्रहम्॥
धर्षणे च्छेदने चैव मण्डलं यत्प्रदृश्यते ॥१०॥
सगर्भां तां विजानीयाद् यत्नेन च विवर्जयेत॥
मांजिष्ठवर्णसंकाशे गर्भे भवति दर्दुरः ॥११॥
पीतके मण्डले गोधा कृष्णे विद्याद्भुजङ्गमम्॥
कपिले मूषकं विद्यात्कृकलासं तथारुणे ॥१२॥
गुडवर्णे तु पाषाणं कापोते गृहगोधिका॥
आपो निस्त्रिंशवर्णाभे भस्मवर्णे तु वालुका ॥१३॥
अतस्त्वेकतमेनापि युक्ता कर्तुर्विपर्यये॥
एवं गर्भास्तु विज्ञेया बाह्यलक्षणलक्षिताः ॥१४॥
बाह्यतो लक्षणं नास्ति तेषां लेपानि दापयेत॥
ब्राह्मीं माहेश्वरीं शाक्रीं वैष्णवीं तक्षणोचिताम् ॥१५॥
अजास्तन्येन संयोज्य शिलालेपं तु दापयेत्॥
अहोरात्रे गते यत्र शिलालेपो न जायते ॥१६॥
सगर्भां तां विजानीयात्प्रयत्नेन विवर्जयेत॥
कासीसं पीतकासीसं गव्यक्षीरेण पेषयेत् ॥१७॥
पाषाणं लेपितं तेन बहुवर्णं यदा भवेत॥
सा शिला न प्रशस्ता स्यात्प्राणिगर्भा तु सा स्मृता ॥१८॥
मुस्तकं करवीरं च कुष्ठं तालीशपत्रकम॥
स्त्रीस्तन्यपिष्टैरेतैस्तु पाषाणं लेपयेद्बुधः ॥१९॥
एभिर्लेपितमश्मानं यदा सिमिसिमायते॥
कालकूटं विषं तत्र न तं हस्तेन संस्पृशेत् ॥२०॥
श्वेतश्च पद्मवर्णश्च कुसुमोषणसन्निभः॥
पाण्डुरो मुद्गवर्णश्च कापोतो भृङ्गसन्निभः ॥२१॥
ज्ञेयाः प्रशस्ताः पाषाणाः अष्टावेते न संशयः॥
कृष्णवर्णा शिला या तु शुक्ला हीरकसंयुता ॥२२॥
सा शिला श्रीकरी ज्ञेया पुत्रपौत्रविवर्धिनी॥
सितवर्णा तु या कृष्णैर्हीरकैः सबलीकृता ॥२३॥
बहुदोषकरी सा तु कृष्णा वा रक्तहीरकैः॥
सर्ववर्णेषु शुक्लेषु प्रशस्तं हीरकं विदुः ॥२४॥
सर्वेषामेव वर्णानामन्यवर्णं विगर्हितम्॥
ब्राह्मीं शिलां दिने गत्वा शोभने धूपयेद्बुधः ॥२५॥
क्षीरेण नृप गव्येन सकषायैस्तथा जलैः॥
आच्छाद्य कुसुमैर्दर्भैः प्राग्वत्कुर्यात्तथा बलिम् ॥२६॥
स्वप्नार्थं च स्वपेत्तत्र दैवज्ञः स्थपतिस्तथा॥
प्राग्वद्दृष्टे शुभे स्वप्ने शिला नेया तु सा भवेत् ॥२७॥
अदृष्टे तु तथा स्वप्ने न दुष्टे शोभनं भवेत्॥
पूजनं तु द्वितीयेऽह्नि कृत्वा भाण्डगणस्य तु ॥२८॥
च्छेदकस्य ततः कृत्वा संवाह्यं तं प्रवेशयेत्॥
प्राग्वदेव महीपाल यथा वृक्षेषु कीर्तितम् ॥२९॥
शिलानां गर्भविज्ञानं यदुक्तं नृपसत्तम॥
तदेव सर्वं जानीहि द्रुमाणामपि यत्नतः ॥३०॥
अनेन सम्यग्विधिना गृहीता शिला भवेत्सर्वसुखावहा सा॥
तस्मात्प्रयत्नेन यथोक्तमेतद्वनप्रवेशं सकलं हि कुर्यात् ॥३१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शिलापरीक्षा नाम नवतितमोऽध्यायः॥९०॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP