खण्डः ३ - अध्यायः ०८९
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
वनप्रवेशं धर्मज्ञ निबोध गदतो मम॥
शुभे दिवसनक्षत्रे मुहूर्ते चाभिपूजिते ॥१॥
दैवज्ञं पुरतः कृत्वा स्थपतिः प्रविशेद्वनम्॥
ततस्तत्र परीक्षेत च्छिन्द्याद्भिन्याद्वनस्पतीन ॥२॥
सकोटरां लताबद्धां कृमिजग्धां विवर्जयेत्॥
वह्निना च तथा स्पृष्टां पातितां पवनेन च ॥३॥
कुञ्जरेण तथा भग्नां पक्षिणां निलयाश्च ये॥
तापसानां समीपे च सिक्ताश्च घटवारिणा ॥४॥
सत्त्वानामाश्रया ये च ये च कुब्जा नराधिप॥
सुषिरा ऊर्ध्वशुष्काश्च बालवृद्धास्तथैव च ॥५॥
श्मशानचैत्यवल्मीकदेवतायतनोद्भवाः॥
उद्यानजानेकवृक्षान्सीमावृक्षांस्तथैव च ॥६॥
मार्गवृक्षान्महाराज प्रयत्नेन विवर्जयेत्॥
पलाशं कोविदारं च शाल्मलिं पिप्पलं वटम् ॥७॥
आम्रं च पुष्पकं चैव कपित्थं च बिभीतकम्॥
वर्जयेद्वेतसं चैव ये चारामास्तथा द्रुमाः ॥८॥
नन्दनं स्यन्दनं सालं शिंशपं खदिरं धवम्॥
किंशुकं पद्मकं चैव हरिद्रं चीनकद्रुमम ॥९॥
अर्जुनं च कदम्बं च मधूकं चाञ्जनं तथा॥
देववृक्षाँश्च जात्याँश्च तथा वै रक्तचन्दनम् ॥१०॥
एतेऽ प्रशस्ता विज्ञेया ये च सारा महीरुहाः॥
शस्ताशस्ता न ये प्रोक्तास्ते तु मध्यफलाः स्मृताः ॥११॥
रक्तसारा नरेन्द्राणां शुक्लसारा द्विजन्मनाम्॥
पीतसारा विशां शस्ताः शूद्राणां कृष्णमध्यकाः ॥१२॥
छेत्तव्यं तु द्रुमं गत्वा सन्ध्याकाले तु पश्चिमे॥
द्रुमस्याग्रे बलिः कार्यो भूतानां तन्निवासिनाम् ॥१३॥
कुल्माषोल्लोपिकाभक्ष्यपुष्पधूपादिभिर्नृप॥
कृत्वा चास्ये ततो मन्त्रमिदं यदुकुलोद्वह ॥१४॥
वसन्ति यत्र भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः॥
उपहारं गृहीत्वेमं क्रियतां वासपर्ययः ॥१५॥
भवद्भिश्चाभ्यनुज्ञातः पूजितैः प्रमथेश्वराः॥
देवागारे नियोक्ष्यामि द्रुममेतमसंशयम् ॥१६॥
न चेद्भवन्तस्त्यक्ष्यन्ति द्रुममेतं ततो मम॥
स्वप्ने भवद्भिर्वक्तव्यं यथातथ्यमनुग्रहात् ॥१७॥
एवमुक्त्वा तथा तत्र प्रस्वपेत्स्थपतिर्नृप॥
दैवज्ञश्च महाभाग रक्षितो शस्त्रपाणिभिः ॥१८॥
ततः स्वप्नं शुभं रात्रौ तयोरेकोऽपि चेद्यदि॥
पश्येद्राजन्न वा पश्येच्छिन्द्याद् वृक्षमसंशयम् ॥१९॥
स्वप्नं वाप्यशुभं पश्येन्न तं भिन्द्यात्कथञ्चन॥
छेत्तव्यं छेदयेद् वृक्षं कल्यमुत्थाय बुद्धिमान् ॥२०॥
मध्वाज्याक्तेन राजेन्द्र ततः परशुना शुचिः॥
रेखां प्रदक्षिणं कृत्वा पातयेत्प्रयतस्ततः ॥२१॥
पूर्वाग्रमुत्तराग्रं वा पतनं तस्य शस्यते॥
ऐशान्यां च महाराज दिक्षु शेषासु गर्हितम् ॥२०॥
वामे प्रभग्ने न ग्राह्यं प्राणिहिंसाकरं तथा॥
प्रशस्तं पतितं वृक्षं ग्राह्यं भवति यत्नतः ॥२३॥
अग्रं मूलं प्रयत्नेन कर्तव्यं तस्य चिह्नितम्॥
अग्रं देवस्य मूर्धानं पादं मूलं तु कारयेत् ॥२४॥
अर्चाकृता विपर्यस्ता तिर्यग्वा मरणावहा॥
अग्रमूलविपर्यासं स्तम्भानां च विवर्जयेत् ॥२५॥
अग्रमूलविपर्यासे कृते वेश्म क्षयं व्रजेत्॥
पूर्वाग्रा चोत्तराग्रा वा द्रुमा योज्या गृहेषु च ॥२६॥
महावंशेषु वंशेषु विपर्यस्ता विगर्हिताः॥
दक्षिणाग्राः पराग्रा वा गृहस्वामिविपत्तिदाः ॥२७॥
तस्मात्सर्वप्रयत्नेन चिह्नैस्तं कारयेद्द्रुमम्॥
अग्रे मूले च धर्मज्ञ ततः सम्यक्प्रवेशयेत् ॥२८॥
शकटेन महाराज नरैर्वाप्यथ गोवृषैः॥
आप्ते दिवसनक्षत्रे मुहूर्ते चाभिपूजिते ॥२९॥
प्रविश्य सम्यक्तं विद्वान्यथायोगं नियोजयेत्॥
यथोद्देशं महाराज स्थपतिर्लक्षणान्वितम् ॥३०॥
एवं हि कृत्वा वनसम्प्रवेशं यः काष्ठमानीय गृहाणि कुर्यात्॥
वृद्धिर्भवेत्तस्य सदैव राजन्धनेन धान्येन सुतैश्च मुख्या ॥३१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दारुपरीक्षा नामैकोननवतितमोऽध्यायः ॥८९॥
N/A
References : N/A
Last Updated : December 27, 2022
TOP