संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०४०

खण्डः ३ - अध्यायः ०४०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
त्रिप्रकारेष्टिकाचूर्णं त्र्यंशं क्षिप्त्वा मृदस्ततः॥
गुग्गुलं समधूच्छिष्टं मधुकं मुरुकं गुडम् ॥१॥
कुसुम्भं तैलसंयुक्तं कृत्वा दध्यात्समांशकम्॥
त्रिभागमग्निदग्धाया सुधायास्तत्र चूर्णयेत्।२॥
बिल्वजं द्व्यंशमिश्रं तत्प्रक्षिप्य मषकं कषम्॥
वालुकांशं ततो दद्यात्स्वानुरूपेण बुद्धिमान् ॥३॥
ततः शकलतोयेन प्लावयेत्पिच्छिलेन तम्॥
परिक्लिन्नं समग्रं तन्मासमात्रं निधापयेत् ॥४॥
मार्दवं मासमात्रेण गतमुद्धृत्य यत्नतः॥
दद्यात्प्रलेपं निपुणः शुष्कं कुड्ये विमृश्य तु ॥५॥
श्लक्ष्णं समं स्ववष्टब्धं निम्नोन्नतविनाकृतम्॥
न चातिवनतां यातं न चातितनुताङ्गतम् ॥६॥
यदा शुष्कं भवेत्कुड्यं तत्प्रलिप्तमसत्कृतम्॥
तया मृदा सर्जरसा तैलभागावियुक्तया ॥७॥
श्लक्ष्णीकुर्यात्प्रयत्नेन लेपनैः श्लक्ष्णमञ्जनैः॥
मुहुर्मुहुश्च क्षीरेण सिक्ता मार्जनयत्नतः ॥८॥
सद्यः शोषमुपायातं कुड्यं तन्मनुजेश्वर॥
अपि वर्षशतस्यान्ते न प्रणश्येत्तु कर्हिचित् ॥९॥
अनेनैव प्रकारेण द्विविधैर्वर्णकैर्युताः॥
कर्तव्याश्चित्रवपुषा विविधा मणिभूमयः ॥१०॥
कुड्ये शुष्के तिथौ शस्ते रूक्षे च गुणसंयुते॥
चित्रायोगे विशेषेण श्वेतवासा यतात्मवान् ॥११॥
ब्राह्मणान्पूजयित्वा तु स्वस्ति वाच्य प्रणम्य च॥
तद्विदश्च यथान्यायं गुरूँश्च गुरुवत्सलः ॥१२॥
प्राङ्मुखो देवताध्यायी चित्रकर्म समाचरेत्॥
श्वेतकाद्रवकृष्णाभिर्वर्तिकाभिर्यथाक्रमम् ॥१३॥
आलिख्य स्थापयेद्विद्वान्प्रमाणे स्थानके तथा॥
ततस्तु रञ्जयेद्रङ्गैर्यथास्थानानुरूपतः ॥१४॥
श्यामा गौरी तथा तस्य च्छविः स्यात्तां प्रदर्शयेत्॥
तस्याश्च लक्षणं प्रोक्तं प्राप्ताया नृप विस्तरे ॥१५॥
मूलरङ्गाः स्मृताः पञ्च श्वेतः पीतो विलोमतः॥
कृष्णो नीलश्च राजेन्द्र शतशोन्तरतः स्मृताः ॥१६॥
पूर्णरङ्गविभागेन भावकल्पनया तथा॥
स्वबुद्ध्या कारयेद्रङ्गाञ्शतशोऽथ सहस्रशः ॥१७॥
नीलेष्वतिव्यतिकृतिः पालाश इति शस्यते॥
स शुद्धः श्वेतमिश्रश्च नीलाभ्यधिक एव च ॥१८॥
एकाधिकं च भवति च्छवीनामनुरूपतः॥
श्वेताधिको वा न्यूनो वा समांशश्चेति स त्रिधा ॥१९॥
स एकस्तम्भनायुक्तो बहुधैवं विकल्पते॥
तेन दूर्वांकुरा पीतः कपित्थहरितः शुभाः ॥२०॥
मुद्गश्यामप्रकृतयः कर्तव्याश्छवयो नृप!॥
नीलः पाण्डुरसम्पृक्तो विरङ्गः सोऽप्यनेकधा ॥२१॥
अन्योन्याभ्यधिकं न्यूनं समांशवशकल्पना॥
तेन नीलोत्पलनिभा माषसच्छायसुप्रभा ॥२२॥
क्रियते च्छवयो रम्या यथायोगविनिश्चयात्॥
लाक्षया श्वेतया युक्ता लाक्षारोधपिनद्धया।
रक्ता रक्तोत्पलश्यामा च्छविर्भवति शोभना॥
सापि नानाविधानन्यान्वर्णान्विकुरुते बहून् ॥२४॥
रङ्गद्रव्याणि कनकं रजतं ताम्रमेव च॥
अभ्रकं गजवन्तं च सिन्दूरं त्रपुरेव च ॥२५॥
हरितालं सुधा लाक्षा तथा हिङ्गुलकं नृप॥
नीलं च मनुजश्रेष्ठ तथान्ये सन्त्यनेकशः ॥२६॥
देशेदेशे महाराज कार्यास्ते स्तम्भनायुताः॥
लोहानां पत्रविन्यासं भवेद्वापि रसक्रिया ॥२७॥
संकटं लोहविन्यस्तमभ्रकं द्रावणं भवेत॥
एवं भवति लोहानां लेखने कर्मयोग्यता ॥२८॥
अभ्रकद्रावणं प्रोक्तं सुरसेन्द्रजभूमिजे॥
चम्भांकुथोऽथ बकुला निर्यासस्तम्भनाद्भवेत॥
सर्वेषामेव रङ्गाणां सिन्दूरक्षीर इष्यते ॥२९॥
मातङ्गदूर्वारसपट्टबद्धैः संस्तम्भितं चित्रमुदारपुच्छैः॥
धौतं जलेनापि न नाशयेत तिष्ठत्यनेकान्यपि वत्सराणि ॥३०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे रङ्गव्यतिकरो नाम चत्वारिंशत्तमोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP