खण्डः ३ - अध्यायः ३५१
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
स ददर्श तदा विष्णुं विश्वरूपधरं हरिम्॥
युक्तं वर्णैः शुकप्रख्यैः पीतरक्तसितासितैः ॥१॥
क्वचिन्मेचकसंयुक्तैः क्वचिन्मेचकरञ्जितैः॥
चिच्छशांकसंकाशं क्वचिद्धिङ्गुलसन्निभम् ॥२॥
क्वचिन्मरकतप्रख्यं पद्मरागनिभं क्वचित्॥
क्वचित्कनकसंकाशं क्वचिन्नीलोत्पलप्रभम् ॥३॥
क्वचित्पाटलपुष्पाभं क्वचिद्गगनसन्निभम्॥
कुंकुमक्षोदसंकाशं हरिद्रक्षोदसन्निभम् ॥४॥
क्वचिद्रजोपलप्रख्यमिन्द्रनीलनिभं क्वचित्॥
अनिर्देश्यानि वर्णानि तथा बिभ्रत्क्वचित्क्वचित् ॥५॥
नानाविधानां सत्त्वानां वदनानि बहूनि च॥
ब्रह्मशंकरशक्राणां यमस्य वरुणस्य च ॥६॥
धनदस्य हुताशस्य वायोर्निर्ऋतिनस्तथा॥
ग्रहाणामथ ऋक्षाणां रुद्राणां वसुभिः सह ॥७॥
आदित्यानां समरुतां भृगूणां च तथा द्विज॥
तथैवाङ्गिरसो राजन्साध्यानामश्विभिः सह ॥८॥
दैत्यानामथ नानानां गन्धर्वोरगरक्षसाम्॥
पितृपन्नगयक्षाणां तथा च पिशिताशिनाम् ॥९॥
मनुष्य हयनागानां गजाश्वमृगपक्षिणाम्॥
द्वीपिशार्दूलसिंहानां सर्वेषां प्राणिनामथ ॥१०॥
कानिचित्तस्य सौम्यानि कानिचिद्भीषणानि च॥
ददर्श तस्य वक्त्राणि शतशोऽथ सहस्रशः ॥११॥
वक्त्रेषु तस्य रौद्रस्य प्राणिसंघान्यनेकशः॥
ददर्श सर्वतश्चाग्नीन्ग्रस्यमानाँश्च विष्णुना ॥१२॥
सौम्येभ्यस्तस्य वक्त्रेभ्यो निर्गच्छंत्यस्तथा प्रजाः॥
वाहांश्च विविधाँस्तस्य स ददर्शाथ नारदः ॥१३॥
हस्ताँश्च विविधाकारान्नानामुद्रासमन्वितान्॥
युक्तान्नानाविधैर्भाण्डैरायुधैश्च सहस्रशः ॥१४॥
स्रुक्स्रुवावेदिचमसकुशकृष्णाजिनाग्निभिः॥
केचिच्च कलशं घण्टां शङ्खपद्मोत्पलादिभिः ॥१५॥
केचित्खड्गगदाचक्रचर्मशूलपरश्वधैः॥
केचित्पाशमहादण्डकृपाणशरकार्मुकैः ॥१६॥
केचिद्भुशुण्डीलगुडशक्तिवज्राश्मपट्टिशैः॥
बीजपूर्णाक्षमालाश्च पूर्णपात्रैस्तथा परैः ॥१७॥
एवं नानाविधैर्भाण्डैः करांस्तस्य समन्वितान्॥
असंख्येयान्महातेजा ददर्श मुनिसत्तमः ॥१८॥
नृत्तशास्त्रविनिर्दिष्टो नृत्तकर्मणि चाप्यथ॥
शिरांसि दृष्टयो हस्तांस्तस्य देवस्य दृष्टवान् ॥१९॥
त्रैलोक्यं च तथा काये सकलं मुनिसत्तमः॥
देवदानवगन्धर्वसयक्षोरगरक्षसाम् ॥२०॥
द्वीपाम्भोनिधिलोकैश्च पातालैश्चैव संयुतम्॥
जगत्समग्रं देवस्य देहस्थं दृष्टवान्मुनिः ॥२१॥
स दृष्ट्वा परमं रूपं भीतो हृष्टश्च विस्मितः॥
पपात पादयोस्तस्य शिरसा साश्रुलोचनः ॥२२॥
स्तोत्रेण चैव तुष्टाव पूर्वोक्तेन जनार्दनम्॥
तमुवाच ततो देवः प्रहसन्नृषिसत्तमम् ॥२३॥
॥श्रीभगवानुवाच ॥
उत्तिष्ठ माभैर्धर्मज्ञ वरं वृणु यथेप्सितम्॥
॥श्रीनारद उवाच ॥
नित्यमेकान्तिके देव भक्तिर्भवतु सा त्वयि॥
नान्यं वरं कामयामि नराणामिदमुत्तमम् ॥२४॥
॥मार्कण्डेय उवाच ॥
तमुवाच ततो देवः प्रणतार्तिहरो हरिः॥
एतन्निसर्गसिद्धं ते येन त्वं दृष्टवान्मम ॥२५॥
विश्वरूपमिदं ब्रह्मन्नवज्ञेयं तथा त्वया॥
तपस्तप्तं यतो विप्र ममापि च ततस्तव ॥२६॥
रूपमेतत्समास्थाय रूपं स्वं द्विज दर्शितम्॥
इच्छारूपाण्यहं कुर्यां शतशोऽथ सहस्रशः ॥२७॥
त्रैलोक्ये यानि रूपाणि देवादीनां द्विजोत्तम॥
ममैव तानि जानीहि मत्तोऽन्यन्नास्ति किञ्चन ॥२८॥
अहं भूतं च भव्यं च वर्तमानमहं तथा॥
स्थावरं जङ्गमं चैव सर्वमेवास्मि नारद ॥२९॥
सच्चाऽसच्चाहमेवात्र तत्त्वमेतद्ब्रवीमि ते॥
अशब्दमरसं स्पर्शगन्धरूपविवर्जितम् ॥३०॥
सर्वगं मां विजानीहि परमार्थेन नारद॥
यः करिष्यति मे स्तोत्रं स्तोत्रेण त्वत्कृतेन तु ॥३३॥
तस्य कामान्विधास्यामि ये दिव्या ये च मानुषाः॥
श्वेतद्वीपे गतिस्तस्य मृतस्य च भविष्यति ॥३२॥
श्वेतद्वीपमवाप्यापि नरः स्वस्थो भविष्यसि॥
वराहस्यास्य कल्पस्य यावत्कालोऽवशिष्यते ॥३३
वाराहे तु गते कल्पे ततो मात्स्यो भविष्यति॥
देवकार्याणि कार्याणि सुबहूनि यतस्त्वया ॥३४॥
प्रादुर्भावगतश्चाहमनुशास्यस्तथा त्वया॥
प्रादुर्भावाणि मे ब्रह्मन्व्यतीतानि सहस्रशः ॥३५॥
भविष्यन्ति तथान्यानि तत्र मे शृणु कानिचित्॥
अहमेकार्णवे लोके शेषपर्यंकशायिकः ॥३६॥
लक्ष्मीसहायस्तिष्ठामि यदा सुप्तः पितामहः॥
अहं मत्स्यस्तथा कूर्मो हंसोह्मपि नारद ॥३७॥
स्त्रीरूपेण मया विप्र वञ्चिता दैत्यदानवाः॥
मयाश्वशिरसा वेदा दानवेभ्यस्तथा हृताः ॥३८॥
वाराहेण मया भूत्वा वसुधेयं समुद्धृता॥
वाराहेण मया दैत्याः पातालतलगा हताः ॥३९॥
नृवराहेण निहतो हिरण्याक्षो बलोत्कटः॥
दानवाश्च हता युद्धे नरनारायणात्मना ॥४०॥
लोकोत्तरे तथा मार्गे हरिः कृष्णस्तथाप्यहम्॥
नारसिंहेन रूपेण हिरण्यकशिपुर्हतः ॥४१॥
वामनेन मया भूत्वा बलेस्त्रिभुवनं हृतम्॥
त्रिभिः क्रमैः पुरा ब्रह्मन्देवानां हितकाम्यया ॥४२॥
वाडवोऽहं समुद्रस्थः पिबामि सलिलं सदा॥
पृथ्वी वसुमती ब्रह्मन्पृथुना च मया कृता ॥४३॥
कापिलेन मया दुष्टा दग्धव्याः सगरात्मजाः॥
दत्तात्रेयेण वसुधा देवा द्विजगणाः पुनः ॥४४॥
जामदग्न्येन रामेण लघ्वी वसुमती कृता॥
त्रिसप्त कृत्वः कर्तव्या क्षत्रभारप्रपीडिता ॥४५॥
दत्त्वा चतुर्धा पुत्राँश्च मया दशरथस्य च॥
रामेण रावणवधः कर्तव्यो जनतासुखम् ॥४६॥
कार्यं गन्धर्वनिधनं तथैव भरतात्मना॥
मेघनादवधः कार्यो लक्ष्मणेन तथा मया ॥४७॥
शत्रुघ्नेन च कर्त्तव्यो लवणस्य वधस्तथा॥
मया वाल्मीकिना कार्यं काव्यं रामायणं तथा ॥४८॥
व्यासेन् वेदा वक्तव्या आख्यानं भारतं महत्॥
मया ब्राह्मणशार्दूल तथा द्वैपायनात्मना ॥४९॥
पाण्डोः पुत्रत्वमासाद्य पञ्चधा च तथा मया॥
द्विधा च वसुदेवस्य लघ्वी कार्या वसुन्धरा ॥५०॥
नरलोके निहन्तव्या दैत्या मानुषरूपिणः॥
बलभद्रेण च मया हन्तव्या मौष्टिकादयः ॥५१॥
मया कृष्णेन हन्तव्याः कंसपूर्वा महाबलाः॥
प्रद्युम्नेन निहन्तव्यः शम्बरश्च महाबलः ॥५२॥
हन्तव्याश्चानिरुद्धेन दैत्याः शतसहस्रशः॥
सांबेन युयुधानेन मया भूत्वा तथैव च ॥५३॥
मया बुद्धेन वक्तव्या धर्माः कलियुगे पुनः॥
हन्तव्या म्लेच्छराजानस्तथा विष्णुवशात्मना ॥५४॥
ममांशेन विजानीहि पृथिव्यां चक्रवर्तिनः॥
ऋषयश्च तथा ज्ञेया ममैवांशसमुद्भवाः ॥५५॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव च॥
तत्तदेवावगच्छेस्त्वं मम तेजोंशसम्भवम् ॥५६॥
अथ वा बहुनैतेन किं ज्ञानेन तवानघ॥
विष्टभ्याहमिदं कृत्स्नमेकांशेनास्थितो जगत् ॥५७॥
तद्गच्छ मानसी सिद्धिः सदा तेऽस्तु द्विजोत्तम॥
कल्पावसानमासाद्य मच्छरीरं प्रवेक्ष्यसि ॥५८॥
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत॥
भगवान्नारदश्चक्रे पूजां तद्देशवासिनाम् ॥५९॥
तैश्च संपूजितो विप्रस्तान्प्रणम्य यतव्रतः॥
आजगाम ततः शीघ्रं नरनारायणाश्रमम् ॥६०॥
पादयोर्न्यपतत्तत्र स तयोर्मुनिपूज्ययोः॥
ताभ्यां संपूजितो विप्रस्तत्रोवास तदाश्रमे ॥६१॥
ततः कदाचित्तं विप्रमूचतुस्तौ तपोधनौ॥
आवाभ्यां त्वं तथा दृष्टः श्वेतद्वीपगतेऽच्युतः ॥६२॥
समीपं देवदेवस्य तद्देहस्थैर्यथासुखम्॥
लोकेऽस्मिन्मुनिशार्दूल नास्ति धन्यतरस्त्वया ॥६३॥
दृष्टवानसि यद्ब्रह्मन्विश्वरूपधरं हरिम्॥
त्रैलोक्यसारं विश्वेशं प्रणतार्तिविनाशनम् ॥६४॥
यतस्तेऽनुग्रहस्तेन कृतो देवेन विष्णुना॥
ततो गुह्यं निबोधेमं तत्पूजाविधिमुत्तमम् ॥६५॥
सर्वकर्मकरं दिव्यं सकलार्थप्रदं शिवम्॥
नाभक्ताय च तद्देयं त्वया ब्राह्मणसत्तम ॥६६॥
एकान्तभावोपगतं जनार्दनं नरस्तु सम्पूज्य तथा विधानतः॥
प्रयाति तद्द्वीपमनुत्तमं शिवं न यत्र गत्वा विनिवर्तते पुनः ॥६७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे विश्वरूपाख्यानं नामैकपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५१॥
N/A
References : N/A
Last Updated : January 29, 2023
TOP