संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः| अध्यायः २३४ तृतीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्याय १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६७ अध्यायः १६८ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ खण्डः ३ - अध्यायः २३४ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः २३४ Translation - भाषांतर हंस उवाच॥प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा॥न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते नरः ॥१॥ब्रह्महत्या सुरापानं स्तेयं गुर्वाङ्गनागमः॥महान्ति पातकान्याहुः संयोगमपि तैः सह ॥२॥अनृतं च समुत्कर्षे राजगामि च पैशुनम्॥गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥३॥ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः॥गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट् ॥४॥निक्षेपस्यापहरणं नराश्वरजतस्य च॥भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥५॥रेतसेकः सयोनीषु कुमारीष्वन्त्यजासु च॥सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥६॥गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः॥गुरुमातृपरित्यागः स्वाध्यायाग्न्योः सुतस्य च ॥७॥परिवित्तितानुजेनूढे परवेदनमेव च॥तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥८॥कन्यायादूषणं चैव वार्धुष्यं व्रतलोपनम्॥तडागागमदाराणामपत्यस्य च विक्रयः ॥९॥व्रात्यता बान्धवत्यागो भृताध्यापनमेव च॥भृताच्चाध्ययनादानमपण्यानां च विक्रयः ॥१०॥सर्वकार्येष्वधीकारो महायन्त्रप्रवर्तनम्॥हिंस्रोषधिस्त्रियाजीवोऽभिचारो मूलकर्म च ॥११॥इन्धनार्थमशुष्काणां द्रुमाणामवपातनम्॥आत्मार्थं च क्रियारम्भो निन्दिनान्नादनं तथा ॥१२॥अनाहिताग्निता स्तेयमृणानां चानपाक्रिया॥असच्छास्त्राभिगमनं कौशीलव्यस्य च क्रिया ॥१३॥धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम्॥स्त्रीशूद्रविट्क्षत्त्रवधो नास्तिक्यं चोपपातकम् ॥१४॥ब्राह्मणस्य रुजःकृत्यं घ्रातिरघ्रेयमद्ययोः॥जैह्म्यं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥१५॥खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा॥संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥१६॥निन्दितेभ्यो धनादानं वाणिज्यं शूद्र सेवनम्॥अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥१७॥कृमिकीटवयोहत्या मद्यानुगतभोजनम्॥फलैधःकुसुमस्तेयमधैर्यं च मलापहम् ॥१८॥एतान्यन्यानि सर्वाणि यथोक्तानि पृथक्पृथक्॥धैर्यव्रतैरपोह्यन्ते तानि मे सन्निबोधत ॥१९॥ब्रह्महा द्वादशसमाः कुटिं कृत्वा वने वसेत्॥भैक्ष्याश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥२०॥लक्षं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः॥प्राश्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥२१॥यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा॥अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥२२॥जपन्वान्यतमं वेदं योजनानां शतं व्रजेत्॥ब्रह्महत्यापनोदाय मितभुङ नियतेन्द्रियः ॥२३॥सर्वस्वं वा वेदविदे ब्राह्मणाश्चोपपादयेत्॥धनं हि जीवनायालं गृहं वा सपरिच्छदम् ॥२४॥हविष्यभुग्वानुसरेत्प्रतिस्रोतः सरस्वतीम्॥जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम् ॥२५॥कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा॥आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥२६॥ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान्परित्यजेत्॥मुच्यते ब्रह्महत्याया गोब्राह्मणहिते रतः ॥२७॥त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा॥विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ॥२८॥एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः॥समाप्ते द्वादशे वर्षे ब्रह्महत्यां विमुञ्चति ॥२९॥शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे॥स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते ॥३०॥धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते॥तस्मात्समागमे तेषामेनो विख्याप्य शुध्यति ॥३१॥ब्राह्मणः सम्भवेनैव देवानामपि दैवतम्॥प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥३२॥तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनःसु निष्कृतिम्॥स तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक् ॥३३॥अतोऽन्यतममास्थाय विधिं विप्रः समाहितः॥ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥३४॥हत्वा गर्भमविज्ञातं चैतदेवव्रतं चरेत्॥राजन्यवैश्यौ चेज्ज्ञानावात्रेयीमेव च स्त्रियम् ॥३५॥उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरूंस्तथा॥अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥३६॥इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम्॥कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥३७॥सुरां पीत्वा द्विजो मोहादग्निवर्णा सुरां पिबेत्॥तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः ॥३८॥गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा॥पयो घृतं वा मरणाद्गोशकृद्रसमेव वा ॥३९॥कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि॥सुरापानोपनोदार्थं वालवासा जटी ध्वजी ॥४०॥सुरा वै मलमन्नानां पाप्मा च मलमुच्यते॥तस्माद्ब्राह्मणराजन्यौ वैश्यस्तु न सुरां पिबेत् ॥४१॥गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा॥यथैवैका तथैवान्या न पातव्या द्विजातिभिः ॥४२॥यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम्॥तद्ब्राह्मणेन नाक्तव्यं देवानामश्नता हविः ॥४३॥अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत्॥अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः ॥४४॥यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत्॥तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥४५॥एषा विचित्राभिहिता सुरापानस्य निष्कृतिः॥अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥४६॥सुवर्णस्तेयवान्विप्रो राजानमभिगम्य तु॥स्वकर्म ख्यापयन्ब्रूयाद्भवान्मामनुशास्त्विति ॥४७॥गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम्॥वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव वा ॥४८ ॥तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम्॥चीरवासा द्विजोरण्ये चरेद्ब्रह्महणो व्रतम् ॥४९॥एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः॥गुरुस्त्रीगमनीयं तु व्रतैरेतैरपानुदेत् ॥५०॥गुरुतल्प्यभिभाष्यैनः कुंभे स्वप्यादयोमये॥सूर्मीं ज्वलन्तीं वाश्लिष्य मृत्युना स विशुध्यति ॥२३॥स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ॥नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः ॥५२॥खट्वांगी चीरवासा वा श्मश्रुलो विजने वने॥प्राजापत्यं चरेत्कृच्छ्रं त्वब्दमेकं समाहितः ॥५३॥चान्द्रायणं वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः॥हविष्येण यवाग्वाहवा गुरुतल्पापनुत्तये ॥५४॥एभिर्व्रतैरपोहेयुर्महापातकिनो मलान्॥उपपातकिनस्त्वेवं विविधैर्नियमैरपि ॥५५॥उपपातकसंयुक्तो गोघ्नो मासं यवान्पिबेत्॥कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥५६॥चतुर्थकालमश्नीयादक्षारलवणं मितम्॥गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥५७॥दिवानुगच्छेत्ता गास्तु तिष्ठन्नूर्ध्वं रजः पिबेत्॥शुभ्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥५८॥तिष्ठन्तीष्वेव तिष्ठेत चरन्तीष्वप्यनुव्रजेत्॥आसीनासु तथासीत नियतो वीतमत्सरः ॥५९॥आतुरामभिशस्तां वा सिंहव्याघ्रादिभिर्भयैः॥पतितां पंकमग्नां च सर्वप्राणैर्विमोचयेत् ॥६०॥उष्णे वर्षति शीते वा मारुते वाति वा भृशम्॥न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥६१॥आत्मनो यदि वान्येषां गेहे क्षेत्रेऽथ वा खले॥भक्षयन्तीं न कथयेत्पिबन्तीं चैव वत्सकम् ॥६२॥अनेन विधिना यस्तु गोघ्नो गा अनुगच्छति॥स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥६३॥वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः॥अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥६४॥एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः॥अवकीर्णिविशुद्ध्यर्थं चान्द्रायणमथापि वा ॥६५॥अवकीर्णी तु काणेन गर्दभेन चतुष्पथे॥पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥६६॥हुत्वाग्नौ विधिवद्धोमानन्ततश्च समित्यृचा॥वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः ॥६७॥कामतो रेतसस्सेकं व्रतस्थस्य द्विजन्मनः॥अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥६८॥मरुतः पुरुहूतं च गुरुं पावकमेव च॥चतुरो व्रतिऽनोभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥६९॥एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम्॥सप्तागारांश्चरेद्भैक्ष्यं स्वकर्म परिकीर्तयेत् ॥७०॥तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेककालिकम्॥उपस्पृशंस्त्रिषवणं चाब्देन स विशुद्ध्यति ॥७१॥जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया॥चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छ्रया ॥७२॥सङ्करापात्रक्रृत्यासु मासं गोधनमैन्दवम्॥मलिनीकरणीयेषु तप्तः स्याद्यावकस्त्र्यहम् ॥७३॥तुरीयं ब्रह्महत्यायाः क्षत्त्रियस्य वधे स्मृतम्॥वैश्येऽष्टमांशं वृत्तस्थे शूद्रे ज्ञेयं तु षोडशम् ॥७४॥अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः॥वृषभैकं सहस्रं गा दद्याच्छुद्ध्यर्थमात्मनः ॥७५॥त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम्॥वसन्दूरतरे ग्रामे वृक्षमूलनिकेतनः ॥७६॥एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः॥प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वै शतकं गवाम् ॥७७॥एतदेव व्रतं कृत्स्नं षण्मासाञ्छूद्रहा चरेत्॥वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ॥७८॥मार्जारनकुलं हत्वा चाषं मण्डूकमेव च॥श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥७९॥पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत्॥उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत्॥८०॥अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः॥पलालभारकं शण्ढे सैसकं चैकमाषकम् ॥८१॥घृतकुम्भं वराहे तु तिलद्रोणन्तु तित्तिरौ॥शुके द्विहायनं वत्सं कौञ्चं हत्वा त्रिहायणम्॥८२॥हत्वा हंसं बलाकां च बकं बर्हिणमेव च॥वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम्॥८३॥वासो दद्याद्धयं हत्वा पञ्च नीलान्वृषाँश्च वा॥अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥८४॥क्रव्यादं तु मृगं हत्वा धेनुं दद्यात्पयस्विनीम्॥अक्रव्यादं वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम्॥८५॥जीनाकार्मुकवस्तावीन्पृथग्दयाद्विशुद्धये॥चतुर्णामपि वर्णानां नारीं हत्वा वनस्थिताम्॥८६॥दानेन वधनिर्णेकः सर्पादीनामशक्नुवन्॥एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये॥८७॥अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे॥पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत॥८८॥किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे॥अनस्थ्नां चैव सत्त्वानां प्राणायामो विशोधनम्॥८९॥फलदानां तु वृक्षाणां च्छेदने जप्यमृक्च्छतम्॥गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम्॥९०॥अन्नाद्यजातसत्त्वानां रसजानां च सर्वशः॥फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥९१॥कृष्टजानामौषधानां जातानाञ्च स्वयं वने॥वृथालम्भेनुगच्छेद्वा दिनमेकं पयोव्रतम्॥९२॥एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम्॥ज्ञानाज्ञानकृतं कृत्स्नं शृणुतान्नाद्यभक्षणे॥९३॥अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुद्ध्यति॥मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः॥९४॥अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा॥पञ्चरात्रं वसेत्पीत्वा शङ्खपुष्पीशृतं पयः॥९५॥स्पृष्ट्वा दत्त्वा च मदिरां विधिवन्प्रतिगृह्य च॥शूद्रोच्छिष्टाश्च पीत्वापः कुशवारि पिबेत्त्र्यहम्॥९६॥ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः॥प्राणानप्सु त्रिराचम्य घृतं प्राश्य विशुद्ध्यति॥९७॥अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च॥पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः॥९८॥वसनं मेखला दण्डं भैक्ष्यचर्या व्रतानि च॥निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि॥९९॥अभोज्यानान्तु भुक्तान्नं स्त्रीशूद्रोच्छिष्टमेव च॥जग्ध्वा मांसमभोज्यं च सप्तरात्रं पयः पिबेत् ॥१००॥शुक्तानि च कषायाँश्च पीत्वामेध्यानपि द्विजः॥तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥१०१॥विड्वराह खरोष्ट्राणां गोमायोः कापकाकयोः॥प्राश्य मूत्रपुरीषाणि द्वित्रिश्चान्द्रायणं चरेत् ॥१०२॥शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि वा॥अज्ञातं चैव सूपस्थं चैतदेव व्रतं चरेत् ॥१०३॥क्रव्यादसूकराणां च कुक्कुटानां च भक्षणे॥नरकाकखराणाञ्च तप्तकृच्छ्रं विशोधनम् ॥१०४॥मासिकान्नञ्च योऽश्नीयादवृत्त्या कर्षितो द्विजः॥स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥१०५॥व्रतचारी तु योऽश्नीयान्मधुमासे कथञ्चन॥स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥१०६॥बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च॥केशकीटावपन्नञ्च पिबेद्ब्राह्मसुवर्चलम् ॥१०७॥अभोज्यमन्नं नात्तव्यं चात्मनः शुद्धिमिच्छता॥अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्याशु शोधनैः ॥१०८॥एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः॥स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥१०९॥धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः॥स्वजातीयगृहादेव कृच्छ्राब्देन विशुद्धति ॥११०॥मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च॥कूपवापीजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥१११॥द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः॥चरेत्सान्तपनं कृच्छ्रन्तन्निर्यात्यात्मशुद्धये ॥११२॥भक्ष्यभोज्यापहरणे यानशय्यासनस्य च॥पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥११३॥तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च॥चैलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनम् ॥११४॥मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च॥अयःकांस्योपलानाञ्च द्वादशाहं कणान्नतः ॥११५॥कार्पासकीटजीर्णानां द्विशफैकशफस्य च॥पक्षिगन्धौषधीनाञ्च रज्ज्वाश्चैव त्र्यहं पयः ॥११६॥एभिर्व्रतैरपोह्येत पापं स्तेयकृतं द्विजः॥अगम्यगमनीयन्तु व्रतैरेभिरपानुदेत् ॥११७॥गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु॥सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥११८॥पैतृष्वस्रेयां भगिनीं स्वस्रीयां मातुरेव च॥मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत् ॥११९॥एताः स्त्रियस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान्॥ज्ञातित्वेनानुपेयास्ताः पतन्ति ह्युपयन्नधः ॥१२०॥अमानुषीषु पुरुष उदक्यायामयोनिषु॥रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥१२१॥मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः॥गोयानेप्सु दिवा चैव सवासा स्नानमाचरेत् ॥१२२॥चाण्डालान्त्य स्त्रियं गत्वा भुक्त्वा च प्रतिगृह्य च॥पतत्यज्ञानतो विप्रो ज्ञानात्साम्यन्तु गच्छति ॥१२३॥विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि॥यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् ॥१२४॥सा चेत्पुनः प्रदुष्येत सदृशेनोपयन्त्रिता॥कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥१२५॥यत्करोत्यैकरात्रेण वृषलीसेवनं द्विजः॥तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वषैर्व्यपोहति ॥१२६॥एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः॥पतितैः संप्रयुक्तानां चेमाः शृणुत निष्कृतीः ॥१२७॥संवत्सरेण पतति पतितेन सहाचरन्॥याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥१२८॥यो येन पतितेनैवं संसर्गं याति मानवः॥स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ॥१२९॥पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः॥निन्दिते ऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ ॥१३०॥दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा॥अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥१३१॥निवर्तयेरंस्तस्मात्तु सम्भाषणसहाशने॥दायादस्य प्रदानश्च यात्रामेव च लौकिके ॥१३२॥ज्येष्ठता च निवर्त्तेत ज्येष्ठं वापि च यद्वसु॥ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः ॥१३३॥प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम्॥तेनैव सार्धं प्राश्येयुः स्नात्वा पुण्यजलाशय ॥१३४॥स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम्॥सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥१३५॥एतमेव विधिं कुयार्द्योषित्सु पतितास्वपि॥वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥१३६॥एनस्विभिरनिर्णिक्तैर्नार्थं कञ्चित्समाचरेत्॥कृतनिर्णेजनाश्चैनान्न जुगुप्सेत कर्हिचित् ॥१३७॥बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः॥शरणागतहन्तॄँश्च स्त्रीहन्तॄँश्च न संवसेत् ॥१३८॥येषां द्विजानां सावित्री नानूच्येत यथाविधि॥ताँश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥१३९॥प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः॥ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥१४०॥यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्॥तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥१४१॥जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः॥मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥१४२॥उपवासकृशन्तं तु गोव्रजात्पुनरागतम्॥प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥१४३॥सत्यमुक्त्वा तु विप्रेभ्यो विकिरेद्यवसङ्गवाम्॥गोभिः प्रवर्तिते तीर्थे कुर्युस्तेऽस्य परिग्रहम् ॥१४४॥व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म व॥अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥१४५॥शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः॥संवत्सरं यवाहारस्तत्पापमपसेधति ॥१४६॥श्वसृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च॥खराश्वोष्ट्रैर्वराहैश्च प्राणायामेन शुद्ध्यति ॥१४७॥षष्ठान्नकालता मासं संहिताजप एव वा॥होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ॥१४८॥उष्ट्रयानं समारुह्य खरयानञ्च कामतः॥स्नात्वा च विप्रो दिग्वासाः प्राणायामेन शुद्ध्यति ॥१४९॥विनाद्भिरप्सु वाप्यन्तः शरीरे संनिवेश्य तु॥सचैलो बहिराप्लुत्य गामालभ्य विशुद्ध्यति ॥१५०॥वेदोदितानां नित्यानां कर्मणां समतिक्रमे॥स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥१५१ ॥ हुङ्कारं ब्राह्मणस्योक्ता त्वङ्कारं तु गरीयसः॥स्नात्वानश्नन्नहःशेषं चाभिवाद्य प्रसादयेत् ॥१५२॥ताडयित्वा तृणेनापि कण्ठे बद्ध्वा च वाससा॥विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥१५३॥अवगूर्य त्वब्दशतं सहस्रमभिहन्य तु॥जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥१५४॥शोणितं यावतः पांसून्संगृह्णाति द्विजन्मनः॥तावन्त्यब्दसहस्राणि तत्कर्त्ता नरकं वसेत् ॥१५५॥अवगूर्याचरेत्कृच्छ्रमतिकृच्छ्रं निपातने॥कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥१५६॥वेदाभ्यासोन्वहं शक्त्या महायज्ञक्रिया क्षमा॥नाशयन्त्याशु पापानि महापातकजान्यपि ॥१५७॥यथैव तेजसा वह्निः प्राप्तान्निर्दहति क्षणात्॥तथा ज्ञानाग्निना पापं कृत्स्नं दहति वेदवित् ॥१५८॥पापानुबन्धं पुरुषस्य शक्तिं देशं च कालं च तथा विदित्वा॥अनुक्तशुद्धिः प्रविचार्य देया उक्ते तथैतच्च निरूपणीयम् ॥१५९॥इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतासु प्रायश्चित्तवर्णनो नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३४॥ N/A References : N/A Last Updated : January 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP