संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३०७

खण्डः ३ - अध्यायः ३०७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
घृतधेनुप्रदानञ्च निबोधत द्विजोत्तमाः॥
गव्यस्य सर्पिषः कुम्भं पूर्णन्तु परिकल्पयेत् ॥१॥
कलशञ्च तथा पूर्णन्तस्या वत्सं प्रकल्पयेत्॥
कांस्यापिधानसच्छन्नसितवस्त्रयुतन्तथा ॥२॥
हिरण्यगर्भौ कर्तव्यावनुलिप्तौ च बाह्यतः॥
इक्षुयष्टिमयान्पादान्खुरान्रूप्यमयाँस्तथा ॥३॥
सौवर्णे चाक्षिणी कार्ये शृङ्गे चागुरुकाष्ठजे॥
सप्तधान्यश्च कर्तव्ये तस्य पार्श्वे पृथक्कृते ॥४॥
तस्य पट्टं च कर्तव्यं कम्बलं च द्विजोत्तमाः॥
कुर्यात्तुरुष्करं दूरे प्राणे हेममयांस्तनान् ॥५॥
तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम्॥
क्षौमसूत्रेण लांगूलं रोमाणि सितसर्षपैः ॥६॥
ताम्रपत्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः॥
एतद्विरचनं कृत्वा घृतक्षीराभिषेचनैः ॥७॥
हरिर्घृतार्चिषेत्येवं नाम्ना सम्पूजयेद्विभुम्॥
ततस्तु गन्धपुष्पान्नधूपवस्त्रादिभिर्नरः ॥८॥
घृतेन दीपं दद्याच्च तथैव च घृतं दिशः॥
होमं विप्रा यदा धेनुं दद्याद्विप्राय शक्तितः ॥९॥
घृताची प्रीयते विप्रं कल्पयित्वा घृतार्चिषम्॥
एकरात्रञ्च तां दत्त्वा घृताहारी भवेन्नरः ॥१०॥
विमुक्तः सर्वपापेभ्यो लोकमाप्नोति शाश्वतम्॥
अनेन विधिना स्नात्वा सोपवासो नरः शुचिः ॥११॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
विमानेनार्कवर्णेन गवां लोके महीयते ॥१२॥
घृतक्षीरवहा सद्यो यत्र पायसकर्दमाः॥
यत्र कामफला वृक्षा यत्र सिद्धिस्तु मानसी ॥१३॥
गन्धर्वाप्सरसां यत्र सततं गीतनर्तनम्॥
तत्रास्ते सुचिरं लोके यावदिन्द्राश्चतुर्दश ॥१४॥
मानुष्यमासाद्य भवत्यरोगः शीलेन रूपेण धनेन युक्तः॥
मनोभिरामः प्रमदाप्रियश्च धनान्वितः सर्वसुखोपपन्नः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतासु घृतधेनुकल्पवर्णनो नाम सप्ताधिकत्रिशततमोऽध्यायः ॥३०७॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP