संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २९७

खण्डः ३ - अध्यायः २९७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
वृक्षसंरोपणान्मर्त्यो महत्फलमुपाश्नुते॥
गुल्मवल्लीलतानां च रोपणात्पुरुषो द्विजाः ॥१॥
प्रत्येकं फलमाप्नोति गोदाने यत्प्रकीर्तितम्॥
अग्निष्टोममवाप्नोति पुष्पवृक्षस्य रोपणात् ॥२॥
पौण्डरीकमवाप्नोति फलवृक्षस्य रोपणात्॥
आराममपि यः कुर्यात्परेषां नामकारणात् ॥३॥
तथा हरितकार्थं च सोऽग्निष्टोमफलं लभेत्॥
पुष्पारामं नरः कृत्वा देवतार्थं मनोहरम् ॥४॥
देवोद्यानेषु सर्वेषु नन्दनादिषु मोदते॥
यथाकामं विहारी स्यान्नात्र कार्या विचारणा ॥५॥
फलारामं ततः कृत्वा विन्दत्यभ्यधिकं फलम्॥
कृत्वा द्रुमशतारामं सोश्वमेधफलं लभेत् ॥६॥
फलं दशशतारामे लक्षारामे च कल्पयेत्॥
चम्पकं मल्लिकां जातीं श्रेष्ठाः पुष्पाकरा मताः ॥७॥
अन्योऽधिकमवाप्नोति दत्त्वैतान्नात्र संक्षयः॥
गुल्मेषु कथितौ श्रेष्ठौ तथोभौ भव्यदाडिमौ ॥८॥
पथि श्रेष्ठतमौ विप्रा वटाश्वत्थौ प्रकीर्तितौ॥
नारङ्गदानाद्भवति नरो रूपसमन्वितः ॥९॥
बीजपूरकदानेन सौभाग्यं महदाप्नुयात्॥
दत्त्वा पालेवताम्रौ तु तृप्तिमाप्नोत्यनुत्तमाम् ॥१०॥
आम्राक्षोटप्रदानेन सर्वकामानवाप्नुयात्॥
लक्षारामं तु यः कुर्यादाम्राणामिह मानवः ॥११॥
देवोद्यानेषु रम्येषु क्रीडत्यमरसन्निभः॥
अप्सरोभिः परिवृतो न च तस्मान्निवर्तते ॥१२॥
एकोऽपि रोपितो वृक्षः पुत्रकार्यकरो भवेत्॥
देवान्प्रसूनैः प्रीणाति छायया चातिथींस्तथा ॥१३॥
फलैर्मनुष्यान्प्रीणाति नारक्यं नास्ति पादपे॥
अपि पुष्पफलैर्हीने द्रुमे पान्थस्य विश्रमः ॥१४॥
छायायां स्तोककालेन बहुपुण्यं प्रयच्छति॥
देवे वर्षति यद्वृक्षात्पत्रेभ्यः स्रवते जलम् ॥१५॥
तेन तृप्तिमवाप्नोति परलोकगतो ध्रुवम्॥
तेन नाकमवाप्नोति वृक्षरोपयिता नरः ॥१६॥
सेचनादपि वृक्षस्य रोपितस्य परेण तु॥
महत्फलमवाप्नोति नात्र कार्या विचारणा ॥१७॥
वृक्षायुर्वेदविधिना व्याधितन्तु यथाक्रमम्॥
नीरुजं मानवः कृत्वा स्वर्गलोकमवाप्नुयात् ॥१८॥
शीतवातातपक्लेशं तथा च्छेदनभेदने॥
सहन्ते परमं वृक्षास्तद्धि तेषां महत्तपः ॥१९॥
पत्रपुष्पफलैर्नित्यं छायया चैव शाखिनः॥
परेषामुपयुज्यन्ते तद्धि तेषां महत्तपः ॥२०॥
तेषां सदा दया कार्या भक्तिः कार्या तथैव च॥
यस्तेषां भक्तिमान्नित्यं तस्य सा वनदेवता ॥२१॥
तोषमायाति परमं तथा कामान्प्रयच्छति॥
वानस्पत्यं तथा लोकं देहभेदे समश्नुते ॥२५२॥
वानस्पत्ये शुभे लोके सर्वेषामेव शाखिनाम्॥
शरीरवत्प्रतिष्ठन्ति देवता नात्र संशयः ॥२३॥
याः प्रोक्तास्त्वभिमानिन्यः परां शोभामथास्थिताः॥
याम्यलोके तथा लोकं वानस्पत्यं प्रकीर्तितम् ॥२४॥
यमलोकमुपासन्ते सर्वास्ता द्रुमदेवताः॥
द्रुमरोपयितारं च परलोकमुपागतम् ॥२५॥
दिव्येन गीतनृत्येन रमयन्त उपासते॥
रोपितस्य द्रुमस्येह यथा भवति देवता ॥२६॥
याम्ये तु फलदा लोके तथा लोके तु वारुणे॥
देवता स्यान्महाभागाः कृते पुण्ये जलाशये ॥२७॥
कृते शास्त्रे तथा सम्यग्ब्रह्मलोके तथा द्विजाः॥
क्षिप्रमेव महाभागा जायन्ते शास्त्रदेवताः ॥२८॥
शास्त्रं जलाशयं वृक्षं सुरवेश्म तथैव च॥
मृतस्यापि मनुष्यस्य शरीरमिह कीर्तितम् ॥२९॥
कीर्त्यते येन चान्येन मानवः स्वर्गमाप्नुयात्॥
तत्तत्कार्यं मनुष्येण स्वर्गमक्षय्यमिच्छता ॥३०॥
पुत्राः प्रदिष्टाः पुरुषस्य वृक्षाः स्वयंकृतास्तेषु नरेण भाव्यम्॥
स्नेहेन नित्यं पुरुषं मृतन्ते कामैस्तु दिव्यैः परितर्पयन्ति ॥३१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा०सं० मुनीन्प्रति हंसगीतासु वृक्षारोपणफलनिरूपणो नाम सप्तनवत्यधिकद्विशततमोऽध्यायः ॥२९७॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP