खण्डः ३ - अध्यायः ००६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
अथ तन्त्रयुक्तयो भवन्ति अधिकरणं योगः पदार्थः हेत्वर्थ उद्देशो निदेशः प्रदेशोतिदेशः अपवर्गो वाक्यविशेषोर्थापत्तिः प्रसंग एकान्तो नैकान्तः पूर्वपक्षो निर्णयो विधानपर्यायोतिक्रान्तावेक्षणं संशयो व्याख्यानमनुमतिस्वसंज्ञानिर्वचनं दृष्टान्तो वियोगो विकल्पः समुच्चयोर्थ इति ।
तदधिकरणं येन वाक्यार्थो युज्यते संयोगो योर्थो विकृतसूत्रपदं स पदार्थो यदन्यत युक्तिमदर्थस्य साधनं स हेत्वर्थः ।
समासवचनमुद्देशो विस्तरवचनं निर्देश एवमेवेत्युपदेशोनेन कारणेनेत्यपदेशः ॥प्रकृतस्यानागतेन साधनं प्रदेशोतिक्रामणेन सति देशोभिप्रायानुकर्षणमपवर्गो येनार्थः परिसमाप्यते ।
पदेनाहार्येण स वाक्यशेषो यदकीर्तितमर्यादामापद्यते सार्थापत्तिः । प्रकरणाभिहितोक्तः केनचिदुपोद्धातेन पुनरुद्दिश्यमानः प्रसंगः सर्वत्र यत्तथा स एकान्तः क्वचित्तथा क्वचिदन्यथासावनेकान्तः प्रतिषेधवचनं निर्णयः प्रकरणानुपूर्वं विधानं तस्य प्रातिलोम्यं विपर्यय इत्युक्तम्॥
अतिक्रान्ताय क्षणं परत्र वक्ष्यामि इत्यनागतावेक्षणमुभयतो हेतुदर्शनं संशयः तत्रातिशयवर्णनातिव्याख्यानं परमतमप्रतिषिद्धमनुमतं परैरसंमतः शब्दः स्वसंज्ञा लोके प्रती तमुदाहरणं निर्वचनं तद्युक्तिनिदर्शनं दृष्टान्त एवेति नियोग इदं वेदं वेति विकल्प इदं चेदं चेति समुश्चयोत्र यदनिर्दिष्टं युक्तिगम्यं तदू ह्यमिति॥
प्रयोजनं संशयनिर्णयौ च व्याख्याविशेषो गुणलाघवश्च॥
कृतव्युदासो कृतशासनं च सांवर्तिको धर्मगुणोष्टकश्च॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तन्त्रशुद्धिर्नाम षष्ठोऽध्यायः ॥६॥
N/A
References : N/A
Last Updated : December 22, 2022
TOP