खण्डः ३ - अध्यायः ३०१
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
ऋषय ऊचुः॥
सर्वधर्मभृतां श्रेष्ठ विधिं धर्म्यं प्रतिग्रहे॥
ब्राह्मणानां समाचक्ष्व त्वं हि वेदमयो निधिः ॥१॥
॥हंस उवाच ॥
मृतके सूतके विप्रा न तु देयः प्रतिग्रहः॥
तत्रापि च तथा देया या स्यादभयदक्षिणा ॥२॥
रात्रौ दानं न शंसन्ति विना त्वभयदक्षिणाम्॥
विद्यां कान्यां द्विजश्रेष्ठा दीपमन्नं प्रतिश्रयम् ॥३॥
रात्रावपि हितं देयं यच्चान्यत्कथितं पुरा॥
पूजने त्वतिथीनां च पान्थानामपि पूजने ॥४॥
तच्च रात्रौ तथा ज्ञेयं गवामुक्तं च पूजने॥
कालः सर्वो विनिर्दिष्टः पात्रः सर्वश्च मानदाः ॥५॥
अभयस्य प्रदाने तु नात्र कार्या विचारणा॥
शुचिर्वाप्यशुचिर्वापि दद्यादभयदक्षिणाम् ॥६॥
शुचिनाऽशुचिना वापि ग्राह्या त्वभयदक्षिणा॥
कालः स एव ग्रहणे यदा भयमुपस्थितम् ॥७॥
प्रतिग्रहाण्यथान्यानि ग्राह्याणि शुचिना सदा॥
मृतके सूतके चैव न ग्राह्याणि द्विजोत्तमाः ॥८॥
अभ्यक्तेन च धर्मज्ञास्तथा मुक्तशिखेन च॥
स्नातः सम्यगुपस्पृश्य गृह्णीयात्प्रयतः शुचिः ॥९॥
तोयं दद्यात्तथा दाता दाने विधिरयं स्मृतः॥
प्रतिग्रहीता सावित्रं सर्वत्रैव तु कीर्तयेत् ॥१०॥
ततस्तु कीर्तयेत्सार्धं द्रव्येण द्रव्यदेवताम्॥
समापयेत्ततः पश्चात्कार्मस्तुत्या प्रतिग्रहम् ॥११॥
प्रतिग्रहं पठेदुच्चैः प्रतिगृह्य द्विजोत्तमः॥
मन्दं पठेत्तु राजन्यादुपांशु च तथा विशः ॥१२॥
मनसा तु तथा शूद्रात्स्वस्तिवाचनिकं तथा॥
सोंकारं ब्राह्मणे कुर्यान्निरोंकारं महीपतौ ॥१३॥
उपांशु च तथा वैश्ये स्वस्ति शूद्रे प्रकीर्तितम्॥
अभयं सर्वदैवत्यं भूमिर्वै विष्णुदेवता ॥१४॥
कन्यादानं तथा दासी प्राजापत्याः प्रकीर्तिताः॥
तथा चैकशफं सर्वं कथितं यमदैवतम् ॥१५॥
माहिषं च तथा साम्यं चोष्ट्रं वै नैर्ऋतं भवेत्॥
रौद्री धेनुर्विनिर्दिष्टा च्छागमाग्नेयमुच्यते ॥१६॥
मेषं तु वारुणं विद्याद्वराहो वैष्णवः स्मृतः॥
आरण्याः पशवः सर्वे कथिता वायुदैवताः ॥१७॥
जलाशयानि सर्वाणि वारिधानी कमण्डलुः॥
कुम्भं च करकं चैव वारुणानि द्विजोत्तमाः ॥१८॥
समुद्रजानि रत्नानि वारुणानि द्विजोत्तमाः॥
आग्नेयं कनकं प्रोक्तं सर्वलोहानि चाप्यथ ॥१९॥
प्राजापत्यानि सस्यानि पक्वान्नमपि च द्विजाः॥
ज्ञेयानि सर्वगन्धानि गान्धर्वाणि विचक्षणैः ॥२०॥
बार्हस्पत्यं स्मृतं वासः सौम्यान्यथ रसानि च॥
पक्षिणश्च तथा सर्वे वायव्या परिकीर्तिताः ॥२१॥
विद्या ब्राह्मी विनिर्दिष्टा विद्योपकरणानि च॥
सारस्वतानि ज्ञेयानि पुस्तकाद्यानि पंडितैः ॥२२॥
सर्वेषां शिल्पभाण्डानां विश्वकर्मा तु देवता॥
द्रुमाणामथ पुष्पाणां शाकहारितकैः सह ॥२३॥
फलानामपि सर्वेषां तथा ज्ञेयो वनस्पतिः॥
मत्स्यमांसं विनिर्दिष्टं प्राजापत्यं तथैव च ॥२४॥
छत्रं कृष्णाजिनं शय्या रथमासनमेव च॥
उपानहौ तथा यानं यच्चान्यत्प्राणिवर्जितम् ॥२५॥
उत्तानाङ्गिरसे त्वेतत्प्रतिगृह्णीत मानवः॥
पर्जन्याय तथा सीरं शस्त्रवर्मध्वजादिकम् ॥२६॥
रणोपकरणं सर्वं कथितं चक्रदैवतम्॥
ग्रहन्तु सर्वदैवत्यं यद्यदुक्तं द्विजोत्तमाः ॥२७॥
तज्ज्ञेयं विष्णुदैवत्यं सर्वं वा द्विजसत्तमाः॥
भूमेः प्रतिग्रहं कुर्याद्भूमिं कृत्वा प्रदक्षिणम् ॥२८॥
करे गृह्य तथा कन्यां दासीदासौ द्विजोत्तमाः॥
करन्तु हृदि विन्यस्य धर्म्यो ज्ञेयः प्रतिग्रहः ॥२९॥
आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्तितः॥
तथा चैकशफानां च सर्वेषामविशेषतः ॥३०॥
प्रतिगृह्णीत गां पुच्छे ह्यन्ते कृष्णाजिनं तथा॥
कर्णेऽजाः पशवश्चान्ये ग्राह्याः पुच्छे विचक्षणैः ॥३१॥
प्रतिग्रहस्त्वथोष्ट्रस्य आरुह्यैव तथा भवेत्॥
बीजानां मुष्टिमादाय रत्नान्यादाय सर्वतः ॥३२॥
वसुं दशान्तादादद्यात्परिधायाथ वा पुनः॥
आरुह्योपानहौ मन्त्रमारुह्यैव च पादुके ॥३३॥
ईषाधस्तु रथं ग्राह्यं छत्रं दंडे तु वाचयेत्॥
द्रुमाणामथ सर्वेषां मूले न्यस्तकरो द्विजाः ॥३४॥
आयुधानि समादाय तथोन्मुच्य विभूषणम्॥
वर्मध्वजौ तथा स्पृष्ट्वा प्रविश्य च तथा गृहम् ॥३५॥
अवतीर्य तु सर्वाणि जलस्थानानि वै द्विजाः॥
द्रव्याण्यन्यान्यथादाय स्पृष्ट्वा तु ब्राह्मणः पठेत ॥३६॥
कन्यादाने तु च पठेद्द्रव्याणान्तु पृथक्पृथक्॥
प्रतिग्रहे द्विजश्रेष्ठास्तत्रैवान्तर्भवन्ति ते ॥३७॥
द्रव्याणामथ सर्वेषां द्रव्यसंश्रवणान्नराः॥
वाचयेज्जलमादाय करेणाथ प्रतिग्रहम् ॥३८॥
प्रतिग्रहस्य यो धर्मं न जानाति द्विजो विधिम्॥
द्रव्यस्तैन्यसमायुक्तो नरकं प्रतिपद्यते ॥३९॥
निष्क्रीणाति तु तद्द्रव्यं ब्राह्मणस्तु प्रतिग्रहात्॥
विधिं तु धर्म्यं विज्ञाय ब्राह्मणस्तु प्रतिग्रहे ॥४०॥
आत्मनः श्रेयसा योगं कुर्याद्दाता तथैव च॥
भुवं धेनुमथाश्वं च रत्नानि कनकं तथा ॥४१॥
तिलानि कुञ्जरं दद्यान्नाविज्ञाय गुणागुणान्॥
आनृशंस्येन सर्वस्य दद्यादन्नं विचक्षणः ॥४२॥
वासश्च दद्यात्सर्वस्य सर्वसाधारणे हिते॥
विधिं धर्म्यमविज्ञाय यस्तु कुर्यात्प्रतिग्रहम् ॥४३॥
दात्रा सह तरत्येव नैव दुर्गाण्यसौ द्विजाः॥
तस्मात्सर्वप्रयत्नेन विधिर्ज्ञेयः प्रतिग्रहे ॥४४॥
प्रतिग्रहो यो विधिना गृहीतो द्वयोस्तु योगं परमेण कुर्यात्॥
परत्र संभृत्य तथेह लोके स श्रेयसे नात्र विचारमस्ति ॥४५॥
इति श्रीविष्णुधर्मोत्तरे तृ० खं० मा० सं० मुनीन्प्रति हंसगीतासु प्रतिग्रहविधिवर्णनो नामैकोत्तरत्रिशततमोऽध्यायः ॥३०१॥
N/A
References : N/A
Last Updated : January 29, 2023
TOP