खण्डः ३ - अध्यायः ०४८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥मार्कण्डेय उवाच॥
सद्योजातं वामदेवमघोरं च महाभुज॥
तथा तं पुरुषं ज्ञेयमीशानं पञ्चमं मुखम् ॥१॥
सद्योजातं मही प्रोक्ता वामदेवं तथा जलम्॥
तेजस्त्वघोरं विद्यात्तं वायुस्तत्पुरुषं मतम् ॥२॥
ईशानं च तथाकाशमूर्द्ध्वस्थं पञ्चमं मुखम्॥
विभागेनाथ वक्ष्यामि शम्भोर्वदनपञ्चकम् ॥३॥
महादेवमुखं जेयं पूर्वं शम्भोर्महात्मनः॥
नेत्राणि त्रीणि तस्याङ्ग सोमसूर्यहुताशनाः ॥४॥
दक्षिणं तु मुखं रौद्रं भैरवं तत्प्रकीर्तितम॥
पश्चिमं यन्मुखं तस्य नन्दिवक्त्रं तदुच्यते ॥५॥
उमा वक्त्रं च विज्ञेयं तस्य देवस्य चोत्तरम्॥
सदाशिवाख्यं विज्ञेयं पावनं तस्य पञ्चमम् ॥६॥
त्रिलोचनानि सर्वाणि वामदेवं द्विलोचनम्॥
महादेवमुखं भूमिस्ततः स्याद्भैरवं मुखम् ॥७॥
नन्दिवक्त्रं तथा वायु रौद्रेयं चाप उच्यते॥
सदाशिवमुखं ज्ञेयमाकाशं यदुनन्दन ॥८॥
दिशो दश भुजास्तस्य विज्ञेयं वदनं प्रति॥
महादेवकरे ज्ञेया त्वक्षमालाकमण्डलू ॥९॥
सदाशिवमुखे ज्ञेयौ चापबाणौ महाभुज॥
माहेश्वरं ततश्चापं पिनाकमिति शब्दितम् ॥१०॥
तेषां तु पूर्वमेवोक्तं व्याख्यानं रिपुसूदन॥
दण्डश्च मातुलुङ्गश्च करयोर्भैरवस्य तु ॥११॥
मृत्यु दण्डौ विनिर्दिष्टौ मातुलुङ्गस्तथा करे॥
जगद्बीजस्य सर्वस्य ये राजन्परमाणवः ॥१२॥
तैः पूर्णं बीजरत्नं तु भैरवस्य करे स्मृतम्॥
चर्मशूले करे ज्ञेये नन्दिनो यदुनन्दन ॥१३॥
पूर्वमेव च ते प्रोक्तं धर्मव्याकरणं मया॥
त्रिशलूदण्डमव्यक्तं शूलेषु व्यक्ततां गतम् ॥१४॥
सत्त्वं रजस्तमश्चैव विज्ञातव्यं नृपोत्तम॥
दर्पणेन्दीवरे ज्ञेये तथा देव्याः करद्वये ॥१५॥
आदर्शं निर्मलं ज्ञानं वैराग्यं च तथोत्पलम्॥
महादेवस्य देवस्य व्याख्याता ब्राह्मणा जटाः ॥१६॥
ऐश्वर्यं तु कला चान्द्री मूर्ध्नि शम्भोः प्रकीर्तिता॥
त्रैलोक्यशमनः क्रोधो वासुकिर्नामतः स्मृतः ॥१७॥
तृष्णा विशाला चित्रा च व्याघ्रचर्म प्रकीर्तितम्॥
वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ॥१८॥
जगदुत्पादकं वस्तु प्रकृतिः सा प्रकीर्तिता॥
शुक्ला च प्रकृतिः सर्वा तेन शुक्लो महेश्वरः ॥१९॥
एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य॥
एवं शरीरेण जगत्समग्रं स धारयत्येव जगत्प्रधानः ॥२०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महादेवरूपनिर्माणो नामाष्टाचत्वारिंशत्तमोऽध्यायः ॥४८॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP