खण्डः ३ - अध्यायः ००५
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम॥
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥१॥
उत्सर्गेणापवादेन द्विविधं तत्प्रकीर्तितम्॥
सूत्रं व्युदासश्च तथा तथोदाहरणं नृप ॥२॥
प्रत्युदाहरणं चैव चतुरङ्गं प्रकीर्तितम्॥
वाक्यं चैवार्थवाक्यार्थं पदार्थः पदमेव च ॥३॥
चतुरङ्गमिदं चेति तथैवान्यत्प्रकीर्तितम॥
प्रतिज्ञा हेतुदृष्टान्तावुपसंहार एव च ॥४॥
तथा निगमनं चैव पञ्चावयवमिष्यते॥
आरम्भोऽथापि संबन्धः सूत्रार्थस्तद्विशेषणम् ॥५॥
चोदना परिहारश्च व्याख्या सूत्रस्य षड्विधा॥
सूत्रेष्वेव हि तत्सर्वं यद्धृतं समुदाहृतम् ॥६॥
विस्तरोक्तं मतिं हन्ति समासोक्तं न गृह्यते॥
समासविस्तरौ हित्वा वक्तव्यं यद्विवक्षितम् ॥७॥
अपार्थं व्याहतं चैव पुनरुक्तं तथैव च॥
तथा विभिन्न संस्थानं युक्तिहीनं विवर्जयेत् ॥८॥
क्रमभेदो विभक्तश्च गुरुसूत्रं तथैव च॥
अभिधानस्य चान्यत्वं नैतानि स्युरकारणात् ॥९॥
सर्वं कृत्वा पदच्छेदं समासं तदनन्तरम्॥
समासे तु कृते पश्चादर्थं ब्रूयाद्विचक्षणः ॥१०॥
सूत्रार्थश्च पदार्थश्च हेतुश्च क्रमशस्तथा॥
निरुक्तमथ विन्यासो व्याख्या योगस्य षड्विधा ॥११॥
प्रत्यक्षमनुमानं च तथाप्तवचनं भवेत्॥
त्रिभिः प्रमाणैः संयुक्तैस्तन्त्री प्रामाण्यमर्हति ॥१२॥
प्रत्यक्षाभासमप्युक्तं तथा वै मृगतृष्णिका॥
आभासमनुमानस्य वाष्परेणुचयौ यथा ॥१३॥
धूमशंकाञ्जनयतो न च वह्न्युपलब्धये॥
आप्तत्वं दर्शयित्वा तु यदनाप्तेन भाषितम् ॥१४॥
तदाप्तवचनाभासं वदन्ति नृपसत्तम॥
रागद्वेषविनिर्मुक्त आप्त इत्यभिधीयते ॥१५॥
नैरुक्तं द्विविधं विद्धि सिद्धमौत्पातिकं तथा॥
निर्वक्तव्यं तु तत्सिद्धमर्थसिद्धिस्तु सर्वदा ॥१६॥
तत्र त्वौत्पत्तिकं सर्वं गौरश्वः पुरुषो यथा॥
दशधा तु गणोद्गीतं तद्वक्ष्यामि यथागतम् ॥१७॥
गणो नैमित्तिकोभ्यक्तः संवादः कार्त्तिकस्तथा॥
उपचारश्च सम्बन्धः गौणिको यौगिकस्तथा ॥१८॥
गुणात्तु गौणं पश्यामो महदित्येव मादयः॥
निमित्ततस्तु नैमित्तं खण्डमुण्डादिकं यथा ॥१९॥
भक्त्या भक्तं नृसिंहास्यादमातरि च मातृवत्॥
समं वदन्ति यस्मिँश्च संवादश्चित्वरी यथा ॥२०॥
कार्तकः स्यात्तु कृतको देववत्तादिको यथा॥
उपचारस्तूपचारात्तैलपाशं तुला यथा ॥२१॥
संबन्धतस्तु साबन्धश्छत्री मीमांसको यथा॥
संयोगादपि संयोगः क्रियायाः क्रयिकः स्मृतः ॥२२॥
पटकृल्लगुडच्छेद्यो ज्ञेयः शाकटिकस्तथा॥
एवं परेषां च परं स्यान्नैगमनिचण्वकम् ॥२३॥
सुखार्थो न प्रसिद्धश्चेत्साधनानां विधिं शृणु॥
यद्विपन्नं तु दृश्येत तत्साध्यं साधनैरिमैः ॥२४॥
आत्मेन्द्रियमनोर्थानां संयोग उपदिश्यते॥
ज्ञानदेशादिसंविष्टं प्रत्यक्षमिति तद्भवेत् ॥२५॥
बुद्ध्या शरीरभूतात्मा यश्च युक्तोऽनुमीयते॥
सोग्निर्धूमाद्यथा विद्यादनुमानं तदिष्यते ॥२६॥
वेदविद्याविरुद्धं यत्सा स्मृतिः शिष्टसंमता॥
अप्रत्यक्षफलं विद्यात्साधनं शास्त्रसंज्ञितम् ॥२७॥
द्वयोः सदृशयोरेकं निर्दिष्टं साधयेत्परम्॥
गवयादिव गोः सिद्धिरुपमानं तदिष्यते ॥२८॥
साध्योर्थश्चेदतत्कार्यो वाक्ये यस्मिन्प्रकल्प्यते॥
सार्थापत्तिर्दिवा भुङ्क्ते देवरात इतीति यत् ॥२९॥
निपातनाद्योगविभागदर्शनाद्गुरूपदेशादनुवार्तिकादपि॥
स्वतन्त्रसिद्धेः परतन्त्रदर्शनात्प्रसाधयेल्लक्षणतश्च षड्विधम् ॥३०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तन्त्रगुणदोषवर्णनो नाम पञ्चमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : December 22, 2022
TOP