खण्डः ३ - अध्यायः ०२८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
अतः परं प्रवक्ष्यामि सामान्याभिनयं तव॥
तस्मिन्कार्यः प्रयत्नस्तु नाट्यान्तरप्रतिष्ठितम् ॥१॥
शब्दं स्पर्शश्च रूपं च रसो गन्धस्तथैव च॥
इन्द्रियाणींद्रियार्थास्तु भावेनाभिनयेद् बुधः ॥२॥
कृत्वा साचीकृतां दृष्टिं शिरः किंचिन्नतं भवेत्॥
तर्जनीकर्णदेशे तु शब्दन्त्वभिनयेद्बुधः ॥३॥
किञ्चिदाकुञ्चिते नेत्रे कृत्वोत्फुल्ला त्वनामिकाम्॥
एकश्वासो भवेच्चापि गन्धमेवं विनिर्दिशेत् ॥४॥
इन्द्रियार्थास्तु पञ्चैते त्रिविधाः परिकीर्त्तिताः॥
इष्टास्तथा ह्यनिष्टाश्च मध्यस्था नृपसत्तम ॥५॥
गात्रप्रह्लादनेनेह तथा पुलकितेन च॥
नितान्तास्रक्रियाभिश्च सर्वमिष्टं निरूपयेत् ॥६॥
परावृत्तेन शिरसा तथा चानेन चक्षुषा॥
नेत्रनासाञ्चितत्वेन ह्यनिष्टमिति निर्दिशेत् ॥७॥
मध्यस्थेनैव भावेन मध्यस्थकरणं भवेत्॥
आत्मानुभावी योऽर्थः स्यादात्मस्थ इति संज्ञितः ॥८॥
परार्थवर्णनं यच्च परस्थेति च कीर्तितम्॥
उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ ॥९॥
उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणम्॥
प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा ॥१०॥
ऋतून्घनान्धरां चैव विस्तीर्णाश्च जलाशयान्॥
दिशोग्रहान्सुनक्षत्राद्यच्चान्यत्स्वगतं नृप ॥११॥
तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः॥
एभिरेव करैर्भूयः स्तनैश्च शिरसा तथा ॥१२॥
अधोनिरीक्षितेनाथ भूमिष्ठान्सम्प्रयोजयेत्॥
चन्द्रं ज्योत्स्नां मुखं वायुं स्पर्शेनाभिनयेद्बुधः ॥१३॥
वस्त्रावगुण्ठनात्सूर्यं रजोधूमानलांस्तथा॥
भूमितापमथोष्णं च कुर्याच्छ्वासाभिलापतः ॥१४॥
ऊर्ध्वकेकरदृष्ट्या तु मध्या ह्वस्थं दिवाकरम्॥
उदयास्तगतं चैव विस्मयार्थे प्रदर्शयेत् ॥१५॥
चन्द्रं विस्मितया दृष्ट्या तथा ताराश्च दर्शयेत्॥
सुखस्पृश्यानि सर्वाणि रोमांचं न तु दर्शयेत् ॥१६॥
दुःखानि च तथोद्वेगं मुखस्य तु विकूणनैः॥
गम्भीरोदात्त संयुक्तानर्थान्सौष्ठवसंयुतान् ॥१७॥
यज्ञोपवीतदेशस्थमवालं हस्तमादिशेत्॥
हारावहारयागेषु स्रग्दामस्य च दर्शने ॥१८॥
भ्रमरेण प्रदेशिन्या दृष्टेः परिगमेन च॥
अलंपद्माकपीडायाः सर्वार्थग्रहणं भवेत् ॥१९॥
श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः॥
आत्मसंस्थं परस्थं वा मध्यस्थं वा विनिर्दिशेत् ॥२०॥
विद्युदुल्काघनरवो विस्फुलिङ्गविषस्तथा॥
प्रतोदोऽक्षिनिमेषश्च तेभिनेयाः प्रयोक्तृभिः ॥२१॥
मुखावगुण्ठनं कार्यं भ्रमरादिनिवारणे॥
कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ ॥२२॥
सिंहर्शवानरादीनां कर्तव्यं तु निरूपणम्॥
स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने ॥२३॥
खटकास्वस्तिकौ चापि प्रतोदग्रहणे भवेत्॥
एकाद्यानां दशान्तानां संख्या त्वंगुलिभिर्भवेत् ॥२४॥
दशाख्या च शताख्या च स्थानसंख्या ततः परम्॥
पताकाभ्यां तु हस्ताभ्यां वाचा चाभिनयो भवेत् ॥२५॥
छत्रध्वजपताकाश्च विज्ञेया दण्डधारणात्॥
नाना प्रहरणं चैव विज्ञेयमिह वारणैः ॥२६॥
एकचित्तो ह्यधोदृष्टिः शिरः किञ्चिन्नतं भवेत्॥
सव्यहस्तश्च संदंशस्मिते व्याने वितङ्किते ॥२७॥
उद्वाहितं शिरः कृत्वा हंसपक्षं प्रदक्षिणम्॥
अपत्यरूपणे कार्यमुश्वायं च प्रयोक्तृभिः ॥२८॥
अरालं च शिरः स्थाने समुद्वाह्या च वामतः॥
गते निवृत्ते ध्वस्ते च श्रान्तं वाक्यं नियोजयेत् ॥२९॥
जितेन्द्रियतया युक्तं प्रसन्नवदनं तथा॥
विचित्रकुसुमालोकां शरदं तु निरूपयेत् ॥३०॥
गात्रस्य कम्पनात्तज्ज्ञैस्तथा चान्याभिलाषितः॥
हेमन्तस्त्वभिधेयः स्यात्पुरुषैर्मध्यमाधमैः ॥३१॥
शिरोदन्तौष्ठकम्पेन गात्रसंकोचकेन ।च॥
कूजितैश्च ससीत्कारैः शीतस्याभिनयो भवेत् ॥३२॥
प्रसादजननारम्भैरुपभोगैः ससम्भ्रमैः॥
वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् ॥३३॥
स्वेदापमार्जनाच्चापि भूमिपातोपजीविनः॥
उष्णस्य वायोः स्पर्शश्च ग्रीष्मस्याभिनयो भवेत् ॥३४॥
गम्भीरनादश्रवणात्प्रावृष्यभि नयो भवेत॥
वचसाभिनयः कार्यो ऋतूनां सुखदुःखयोः ॥३५॥
स्वभावाभिनये स्थानं पुंभिः कार्यं तु वैष्णवम्॥
आयुतं चावहित्यं च स्त्रीभिः कार्यं स्वभावतः ॥३६॥
धैर्यशीलाङ्गसम्पन्नं पुरुषाणां विचेष्टितम्॥
मृतशीलाङ्गहारैस्तु स्त्रीणां कार्यं विचेष्टितम् ॥३७॥
आलिङ्गन तु कर्तव्यं स्मितरोमाञ्चसंयुतम्॥
रोमाञ्चेन तु हर्षः स्यात्क्रोधमुद्वृत्तचक्षुषा ॥३८॥
ईर्ष्या क्रोधस्तु कर्तव्यो माल्याभरणवर्जितम्॥
शिरसा कम्पनं चैव मर्मभंगैस्तथैव च ॥३९॥
अधोमुखः सनिःश्वासो दुःखं सन्दर्शयेन्नरः॥
भूमिहस्ताभिघातेन स्त्रीणां स्याद्रुदितेन तत् ॥४०॥
आनन्देतिसमुद्भूतं रुदितं द्विविधं स्मृतम्॥
हृष्टेन चाप्यहृष्टेन तं मुखेन निरूपयेत् ॥४१॥
सम्भ्रमावेगचेष्टाभिः पुरुषाणां भयं भवेत्॥
त्रातुरन्वेषणादेव उच्चैराक्रन्दितेन च ॥४२॥
नरालिङ्गनतश्चैवं भयं कार्यं भवेत्स्त्रियः॥
त्रिपताकांगुलीभ्यां तु चलिताभ्यां प्रयोजयेत् ॥४३॥
शुकश्च शारिका चैव सूक्ष्मा ये चैव पक्षिणः॥
शिखिसारसहंसाद्याः स्थला ये च स्वभावतः ॥४४॥
पक्षाङ्गहारैर्द्विविधैस्तैषामभिनयो भवेत्॥
भूताः पिशाचा यक्षाश्च दानवा राक्षसास्तथा ॥४५॥
अङ्गहारैर्विनिर्देश्याः प्रत्यक्षा न भवन्ति ये॥
प्रत्यक्षा अभिनेयाः स्युस्तथोद्वेगैः सविस्मयैः ॥४६॥
देवान्प्रणामकरणैः प्रत्यक्षे तु नराधिप॥
परोक्षे विविधैश्चिह्नैस्तथानुकरणैः शुभैः ॥४७॥
सव्योत्थितेन हस्तेन त्वरालेन शिरः स्पृशेत्॥
नरेभिवादनं ह्येतत्कपोलेन तथा स्त्रियाः ॥४८॥
महाजनं सखिवरं विटधूर्तजनं तथा॥
परिमण्डलसंज्ञेन हस्तेनाभिनयेद्बुधः ॥४९॥
प्रवृत्तान्प्रांशुयोगेन वृक्षांश्चैव समुत्थितान्॥
प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् ॥५०॥
( समूहं सुमहत्सेनां बहुविस्तीर्णमेव च॥
पताकाभ्यां तु हस्ताभ्यां चोत्क्षिप्ताभ्यां प्रदर्शयेत्॥)
शौर्यं च धैर्यदर्पं च गर्वमौदार्यमुच्छ्रयम्॥
ललाटस्थानसंस्थेन त्वरालेन प्रदर्शयेत् ॥५१॥
प्रज्ञो देहामदाविद्धौ करौ तु मृगशीर्षकौ॥
विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यत्स्यादुपावृतम् ॥५२॥
अधोमुखोत्तानतलं हस्तं किंचित्प्रसारितम्॥
कृत्वा चाभिनयो द्वे च बिलग्राहं गृहं गृहम् ॥५३॥
कामार्ताञ्ज्वरितांश्चैव शापोपहतचेतसः॥
तेषामभिनयः कार्य उच्छ्वासैः कम्पनैस्तथा ॥५४॥
प्रत्यक्षाभिनयः कार्यो दोलायाः परिदोलने॥
आकाशरचनानीह वक्ष्याम्यात्मगतानि च ॥५५॥
अपवारितकं चैव जनान्तिकमथापि च॥
परसम्भाषणं यत्स्यात्तदाकाशवचः स्मृतम् ॥५६॥
अन्यैरश्रवणीयं तु जनान्ति कमिहोच्यते॥
अपवारितकं कर्णे पुनरुक्तं प्रचक्षते ॥५७॥
हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः।
जनांतिकं प्रयोक्तव्यमपवारितकं तथा ॥५२॥
स्वप्नायते चाभिनये वाचा गद्गदया भवेत्॥
वृद्धानां योजयेत्षाठ्यं गद्गदस्खलिताक्षरम् ॥५९॥
असमाप्ताक्षरं चैव बालानां तु कलस्वनम्॥
दीर्घोच्छ्वासयुतं ग्लानं व्याधितानां तु योजयेत् ॥६०॥
उच्छ्वासेन तु दीर्घेण मृत्युकालं तु नाटयेत्॥
गात्रनिस्पंदभावेन मृतस्याभिनयो भवेत॥
सात्त्विकाभिनयं वक्ष्ये रसभावेषु पार्थिव ॥६१॥
एतावदेवाभिनये तु तुभ्यं शक्यं मया पार्थिवमुख्य वक्तुम्॥
नाट्यं हि विश्वस्य यतोऽनुकारं कृत्स्नं ततो वक्तुमशक्यमीश ॥६२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्याभिनयो नामाष्टाविंशतितमोऽध्यायः ॥२८॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP