खण्डः ३ - अध्यायः ००२
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥वज्र उवाच॥
देवतारूपनिर्माणं कथयस्व ममानघ॥
यस्मात्सन्निहिता नित्यं शास्त्रवत्साकृतिर्भवेत् ॥१॥
मार्कण्डेय उवाच॥
चित्रसूत्रं न जानाति यस्तु सम्यङ् नराधिप॥
प्रतिमालक्षणं वेत्तुं न शक्यन्तेन कर्हिचित् ॥२॥
वज्र उवाच॥
चित्रसूत्रं समाचक्ष्व भृगुवंश विवर्धन॥
चित्रसूत्रविदेवाथ वेत्ति वाग्लक्षणं यतः॥
मार्कण्डेय उवाच॥
विना तु नृत्यशास्त्रेण चित्रसूत्रं सुदुर्विदम् ॥३॥
जगतो न क्रिया कार्या द्वयोरपि यतो नृप॥
वज्र उवाच॥
नृत्यशास्त्रं समाचक्ष्व चित्रसूत्रं वदिष्यसि॥
नृत्यशास्त्रविधानं च चित्रं वेत्ति यतो द्विज ॥४॥
मार्कण्डेय उवाच॥
आतोद्यं यो न जानाति तस्य वृत्तं हि दुर्विदम्॥
आतोद्येन विना नृत्तं विद्यते न कथंचन ॥५॥
वज्र उवाच॥
आतोद्यं त्वं हि धर्मज्ञ नृत्यशास्त्रं वदिष्यसि॥
तस्मिन्सुविदिते वेत्ति नृत्यं भार्गवसत्तम ॥६॥
मार्कण्डेय उवाच॥
न गीतेन विना शक्यं ज्ञातुमातोद्यमप्युत॥
गीतशास्त्रविधानज्ञः सर्वं वेत्ति यथाविधि ॥७॥
वज्र उवाच॥
गीतशास्त्रं समाचक्ष्व सर्वधर्मभृतां वर॥
गीतशास्त्रविदेवाथ सर्वज्ञः पुरुषोत्तमः ॥८॥
मार्कण्डेय उवाच॥
संस्कृतं प्राकृतं चैव गीतं द्विविधमुच्यते॥
अपभ्रष्टं तृतीयं च तदनन्तं नराधिप ॥९॥
देशभाषाविशेषेण तस्यान्तो नेह विद्यते॥
गीतं पाठवशाज्ज्ञेयं स च पाठो द्विधा मतः ॥१०॥
गद्यं पद्यं च धर्मज्ञ गद्यं सकथया स्मृतम्॥
पद्यं छन्दोविशेषेण च्छन्दश्च बहुधा भवेत् ॥११॥
गद्यपद्यानुभावेन ज्ञेयौ लक्षणसंयुतौ॥
पद्यं च द्विविधं तत्र सुवृत्रमतिमुक्तकम् ॥१२॥
एकविंशतिसंख्याः स्युः सुपः सुप्तिङ्परं स्मृतम्॥
प्रथमः पुरुषस्त्वेको द्वितीयो मध्यमो मतः ॥१३॥
उत्तमाख्यस्तृतीयस्तु तत्क्रियावचनं त्रिकम्॥
तिङश्च नवकं तत्र परस्मैपदसंज्ञकम् ॥१४॥
आत्मनेपदसंज्ञं च नवकं परिकीर्तितम्॥
युष्मद्युपपदे तत्र मध्यमः पुरुषो भवेत् ॥१५॥
अस्मद्युपपदे चैव स्यात्तथोत्तमसंजकः॥
शेषे प्रथममिच्छन्ति पुरुषं यदुसत्तम ॥१६॥
अर्थे प्रातिपदिकस्य स्वादौ वचनमन्त्रणे॥
परिमाणे च कथिता विभक्तिः प्रथमा बुधैः ॥१७॥
द्वितीया कर्मणि मता तृतीया करणे स्मृता॥
कारके कमर्णि तथा सैव चान्यैः प्रकीर्तिता ॥१८॥
चतुर्थी संप्रदाने स्यादपादाने च पञ्चमी॥
संबन्धे च तथा षष्ठी सप्तम्याधारभावयोः ॥१९॥
तेषां तु पूर्वमेवोक्तं व्याख्यानं रिपुसूदन॥
द्वितीयं तव धर्मज्ञ मया तत्परिकीर्तितम् ॥२०॥
प्रातिपदिकमिह स्वं प्रकृतिः स्यात्तत्प्रकृतिमपि धातुमिच्छन्ति॥
वाङ्मयमखिलमनेन निबद्धं गद्यमपि यदथ पद्यसमेतम् ॥२१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शब्दाध्यायो नाम द्वितीयोऽध्यायः ॥२॥
N/A
References : N/A
Last Updated : December 21, 2022
TOP