संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३३०

खण्डः ३ - अध्यायः ३३०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
औरसः पुत्रिकापुत्रः क्षेत्रजश्च तथा परः॥
पौनर्भवश्च कानीनः सहोढश्च तथा सुतः ॥१॥
गूढोत्पन्नो दत्तकश्च क्रीतश्चैव तथा परः॥
अपविद्धस्तूपगतः शूद्रापुत्रस्तथैव च ॥२॥
एते द्वादश वै पुत्रास्तेषां वक्ष्यामि लक्षणम्॥
संस्कृतायां स्वयं जातः पुत्र औरस उच्यते ॥३॥
अस्यामुत्पद्यते पुत्रो यः स मे भविता सुतः॥
एषा दत्तापि या पित्रा पुत्रिका सा निगद्यते ॥४॥
विना वचनदत्तापि भ्रातृहीना तु पुत्रिका॥
तत्पुत्रः पुत्रिकापुत्रो द्वितीयः परिकीर्तितः ॥५॥
देवराद्वा सगोत्राद्वा ब्राह्मणाद्वा विचक्षणात्॥
नियोगोत्पादितः पुत्रः क्षेत्रजः परिकीर्तितः ॥६॥
स्वैरिणी या पतिं हित्वा कामतोन्यं समाश्रयेत्॥
पौनर्भवस्तु तत्पुत्रः चतुर्थः परिकीर्तितः ॥७॥
असंस्कृतायामुत्पन्नः कानीनो भर्तुरेव सः॥
गर्भिणी या संस्क्रियते सहोढस्तत्सुतो मतः ॥८॥
गृहे च गूढमुत्पन्नो गृहोत्पन्नः प्रकीर्तितः॥
तस्यां सकाशात्क्रीतश्च क्रीतपुत्रो निगद्यते॥
ताभ्यां चैवापविद्धस्तु त्वपविद्धस्तु स स्मृतः ॥९॥
विधृतो येन यस्यासौ पुत्रत्वेन निगद्यते॥
स्वयं यश्चाभ्युपगतः पुत्रत्वे द्विजसत्तमाः ॥१०॥
आदौ तु पुत्रिकापुत्रः पश्चाज्जातस्त्वथौरसः॥
औरसेन समांशस्तु तत्र स्यात्पुत्रिकासुतः ॥११॥
जाते तु पुत्रिकापुत्रे क्षेत्रजोत्पादनं वृथा॥
समाः समांशिनो ज्ञेया यादृशास्तादृशाः सुताः ॥१२॥
प्रतिलोमभवाः पुत्रा न तु रिक्थस्य भागिनः॥
धनभाग्भरणं तेषां कर्मणा कर्तुमर्हति ॥१३॥
तदपत्याः पितृवधे भागिनः परिकीर्तिताः॥
पैतामहेन ते वित्ते स्वाम्यमर्हति केनचित् ॥१४॥
जडान्धबधिरोन्मत्ता भर्तव्यास्तु निरंशकाः॥
तेषाम्रिमृक्थहराः पुत्रा धने पैतामहे सुताः ॥१५॥
पतितानां न भागोस्ति तत्सुतानां च धर्मतः॥
कर्मणः प्राक्समुत्पन्नाः पतनीयस्य ये सुताः ॥१६॥
तेषाम्रिक्थं प्रदातव्यं न तु ते पतिताः स्मृताः॥
प्रायश्चित्ते तथा चीर्णे पतितो भागमर्हति ॥१७॥
तत्पुत्रोऽपि तथा विप्रा नात्र कार्या विचारणा॥
पिता चेद्विभजेत्पुत्रान्स्वेच्छा तस्य स्वके धने ॥१८॥
पैतामहे त्वस्वतन्त्रः पिता भवति धर्मतः॥
पितामहार्जिते वित्ते पितुः पुत्रस्य चोभयोः ॥१९॥
स्वाम्यन्तु सदृशं ज्ञेयं पुत्रश्चेद्गुणवान्भवेत्॥
पितुरूर्ध्वं विभजतां माताप्यंशं सुसंहरेत् ॥२०॥
सवर्णास्तु सुताः सर्वे तथा ज्ञेयाः समांशिनः॥
ज्येष्ठस्य किञ्चिदधिकं दातव्यं नात्र संशयः ॥२१॥
ब्रह्मदेवासुतस्यापि तौ हि मान्यतमौ समौ॥
पैशाचाऽसुरयोर्जातौ यथा पौनर्भवस्तथा ॥२२॥
चतस्रस्तु यदा भार्या भवन्ति ब्राह्मणस्य तु॥
तासां पुत्रेषु दायं यत्तद्वित्तं विभजेन्नृपः ॥२३॥
चतुरोंशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः॥
वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ॥२४॥
ब्राह्मणौ यदि पुत्रौ द्वौ चैकः शूद्रासुतो भवेत्॥
नवधा ब्राह्मणधनं विभज्यमिति निश्चयः ॥२५॥
अष्टौ ब्राह्मणयोर्भागाः शूद्रस्य नवमो भवेत्॥
द्वौ विज्ञेयौ सुतौ स्यातामेकश्च ब्राह्मणीसुतः ॥२६॥
ब्राह्मणस्वं तथा षोढा विभज्यमिति निश्चयः॥
द्वावंशौ शूद्रयोर्देयौ चतुरोंशा हि वै द्विजाः ॥२७॥
अनेनैवानुसारेण सर्वत्रैवांशकल्पना॥
असवर्णासु जातानां कर्तव्या पृथिवीक्षिता ॥२८॥
षोढा तत्क्षत्त्रियधनं कर्तव्यमिति निश्चयः॥
क्षत्त्रियायां ततः पुत्रा वित्ततोंशत्रयं हरेत् ॥२९॥
वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत्॥
वैश्यास्वं तु त्रिधा कार्यं शृणु तत्रापि कल्पना ॥३०॥
वैश्यापुत्रो हरेद्व्यंशमंशं शूद्रासुतो हरेत्॥
अपुत्रस्य तु दौहित्रो रिक्थमर्हति धर्मतः ॥३१॥
दौहित्रस्याप्यभावे तु दुहितापि धनं हरेत्॥
तदभावे तदा भार्या तदभावे सहोदरः॥
तस्याप्यभावे जननी तदभावे पिता हरेत्॥
भ्रातरस्तदभावे तु भ्रातृपुत्रस्ततो हरेत् ॥३२॥
सहोदरभ्रातृसुतो विद्यमाने कथंचन॥
नान्यभ्रातृभवो भ्राता प्राप्नुयादिति निश्चयः ॥३३॥
अन्यभ्रातृभवभ्रातुः पुत्रो यत्र व्यवस्थितः॥
पितृव्यभ्रातृपुत्रस्तु नैव तत्र धनं हरेत् ॥३४॥
अनन्तरं सपिण्डाद्यस्तस्यतस्य धनं हरेत्॥
तदभावे सकुल्यस्य तदभावे गुरोर्भवेत् ॥३५॥
शिष्यस्य तदभावे तु द्विजानां तदभावतः॥
त्रैविद्याः समया दान्तास्तस्य वित्तस्य भागिनः ॥३६॥
ब्राह्मणस्वमनाहार्यं पार्थिवानां सदा भवेत्॥
इतरेषान्तु वर्णानां सर्वाभावे हरेन्नृपः ॥३७॥
पुत्रौ तु विवदेयातां द्वाभ्यां जातौ स्त्रिया धने॥
तयोर्यद्यस्य पित्र्यं स्यात्तत्संगृह्णीत नेतरः ॥३८॥
मातृकं यद्भवेद्वित्तं कुमारीणां तु तद्भवेत्॥
तदभावे तु सोढानां सुतानां तदभावतः ॥३९॥
अध्यग्न्यध्यावनिकं दत्तं च प्रीतिकर्मणा॥
भ्रातृमातृपितृप्राप्ते षड्विधं स्त्रीधनं स्मृतम् ॥४०॥
ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्द्वयम्॥
अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥४१॥
यथान्येषु पितृगामि    धनानि    भवेत्॥
पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् ॥४२॥
न तं भजेरन्दायादा भजमानाः पतन्ति ते॥
भ्रातृणामेकजातानां यद्येकः पुत्रवान्भवेत् ॥४३॥
सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः॥
सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् ॥४४॥
पुत्रवत्यस्तु तास्सर्वास्तेन पुत्रेण कीर्तिताः॥
अनुपघ्नं पितृद्रव्यं श्रमेण यदुपार्जितम् ॥४५॥
स्वयमीहितलब्धं तं नाकामो दातुमर्हति॥
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ॥४६॥
म्रियेतान्यतरो वाऽपि तस्य भागो न नुलुप्यते॥
सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ॥४७॥
भ्रातरो ये च संसृष्टा भगिन्यश्च सजातयः॥
विभक्ते तु धने जाताः पित्र्यमेव धनं हरेत् ॥४८॥
विभक्तैर्वास्य दातव्यमंशमंशानुरूपतः॥
स्वभागस्यानुसारेण दत्त्वा भागं यथाक्रमम् ॥४९॥
असंस्कृतास्तु संस्कार्या विभक्तैः कन्यकास्तथा॥
प्रविभागे कृते यत्र पश्चाछिष्येत वै धनम् ॥५०॥
पूर्वोक्तेनानुसारेण विभागं तत्र कारयेत्॥
वस्त्रं पत्रमलङ्कारं कृतान्नमुदवकं स्त्रियः ॥५१॥
योगक्षेमप्रचारे च न विभज्यं च पुस्तकम्॥
रिक्थग्राही ऋणं दद्यात्पिण्डं दद्यात्स एव तु ॥५२॥
भर्तव्यान्बिभृयात्तस्य सर्वानिति मतिर्मम॥
रिक्थग्राही न यः कुर्यात्प्रेतकर्म यथाविधि ॥५३॥
तस्करं तं स्वकाद्राष्ट्रात्क्षिप्रं राजा विवासयेत्॥
राजगामी भवेद्विप्रा यस्य वित्तं तु कर्हिचित् ॥५४॥
राजापि दापयेत्पिण्डं तस्य भृत्यैर्यथाविधि॥
यस्यां नराणामिह वित्तभागी ऋणस्य भागी स तथा निरुक्तः॥
ऋणावशिष्टं पुरुषस्तु नित्यं भुक्त्वा द्विजेन्द्राः सुकृती सदा स्यात् ॥५५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दायविभागवर्णनो नाम त्रिंशदुत्तरत्रिशततमोऽध्यायः ॥३३०॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP