संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०३९

खण्डः ३ - अध्यायः ०३९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
शुभाकारविहाराणि नानावर्णधराणि च॥
नव स्थानानि रूपाणां शृणु तान्यनुपूर्वशः ॥१॥
ऋज्वागतं भवेत्पूर्वमनृजु तदनन्तरम्॥
साचीकृतशरीरं च भवत्यर्धविलोचनम् ॥२॥
ततः पार्श्वागतं नाम पुरावृत्तमनन्तरम्॥
पृष्ठागतमधः कार्यं पुरावृत्तं समानतम् ॥३॥
एतान्यनेकभेदानि नव स्थानानि भूषिते॥
एकैकस्येह भवतः शृणु मे नृप लक्षणम् ॥४॥
तत्राभिमुखमेवादौ स्पष्टमानगुणान्वितम्॥
सुसम्पूर्णं सुचार्वङ्गं सुश्लक्ष्णमलवर्तकम् ॥५॥
सुशुद्धं मधुरं स्पष्टरेखासंस्कारभूषितम्॥
यद्भवेत्स्थानमक्षीणगात्रं पृष्ठगतं तु तत् ॥६॥
मुखस्यादावतोऽक्षीणं वक्षस उदरं तथा॥
कट्या च स्कन्ध देशाच्च ऊरुतश्च क्षयं गता ॥७॥
नासापुटाधरोष्ठानां चतुर्थांशं च बुद्धिमत्॥
क्षयं नीतं त्रिभागं च यस्य गात्रेभ्य एव च ॥८॥
कान्तारूपं परं स्थानं स्थानलम्भोपपादितम्॥
एतदेवर्जुनामोक्तमनेककरणान्वितम् ॥९॥
यत्तिर्यग्भूमिलम्भेन नेत्रहारि सुवर्तनम्॥
सुकुमारं चतुर्भागं क्षीणं सर्वांगशोभनम् ॥१०॥
अध्यर्धभ्रूललाटे चाप्यध्यर्धघ्राणमुत्कटम्॥
भागक्षयावशेषार्धं कलापक्षीणलोचनम् ॥११॥
कलावलुप्तभ्रूलेखं लिखितं स्निग्धलेखया॥
न च च्छायागतं कालं न चावऋजुकोपनम् ॥१२॥
खेकारिकत्वाच्च नृप साचीकृतमिहोच्यते॥
अर्धं नेत्रं मुखे यस्य लुप्तमवभ्रुवे तथा ॥१३॥
भङ्गो ललाटमात्रश्च दृश्यानां सारमेव तु॥
मात्रार्धां चैकतो गण्डं दृश्यमर्धकृतक्षयम् ॥१४॥
मात्रार्धं कण्डरेखाया यवमाविष्कृतं हनोः॥
उरसोऽर्धं मुखं लिप्तं नाभ्यास्याच्छिष्टमंगुलम् ॥१५॥
अध्यर्धशेषा च कटी अन्यच्च दर्शनीकृतम्॥
अध्यर्धाक्षं परिज्ञेयमाकारेणैवमादिना ॥१६॥
च्छायागतमिति प्रोक्तं पर्यायेणैतदेव तु॥
यस्यावलोक्यते पार्श्वं दक्षिणं सव्यमेव वा ॥१७॥
कृत्स्नमन्यर्क्षयातं तदङ्गमङ्गगतिस्तथा॥
एकाक्षमेकभ्रूलेखमरनामा ललाटवत् ॥१८॥
एकं श्रोत्रं यदर्धं स्याच्चिबुकार्धं शिरोरुहम्॥
गृहीतमानलावण्यमाधुर्यादिगुणान्वितम् ॥१९॥
पार्श्वागतमिति प्रोक्तं तत्स्याद्भित्तिकसंज्ञितम्॥
अपाक्रुद्धे कलक्षीणे कण्ठदेशे तथैव च ॥२०॥
बाहुगण्डललाटेषु कालाख्यं क्षयमागतम्॥
बाहुवक्षःकटितटस्थितिगु ॥२१॥
द्विकलं द्विकलं ज्ञात्वा यथाभागं कृषीकृतम्॥
अनुरूपप्रमाणेन नातितीक्ष्णाङ्गमेव च ॥२२॥
एतद्गण्डपरावृत्तं स्थानं च परिकीर्तितम्॥
पृष्ठतो यदपि व्यक्तं देहबन्धं मनोहरम् ॥२३॥
वक्रभ्रुकुटिसर्वज्ञसन्धिबन्धनमेव च॥
ईषच्च दर्शितापाङ्गकपोलजठरे पुनः ॥२४॥
प्रकाशितैकपार्श्वेन सुस्थिरं दृष्टिहारि च॥
स्वहीनमानलावण्यमाधुर्यादिगुणान्वितम् ॥२५॥
लेखेषु पुस्तदेशेषु पृष्ठागतमिति स्मृतम्॥
यस्योर्धमङ्गपत्येन भागेन समवस्थितम् ॥२६॥
स्थितेर्ष्याभमुखेर्धाङ्गे परिवृत्तिवशाद्भवेत्॥
किञ्चिच्छायागतौ कार्यावुपरिष्टादधः पुरः ॥२७॥
अर्धार्धगतसारूप्यं चिरसग्राम्यसंस्थितम्॥
मध्येन नेत्ररम्येन यथायोगविलोपिना ॥२८॥
विज्ञेयं दधतः कार्यं परिवृत्तं नरेश्वर॥
समग्रदृष्टिस्फिग्देशं दष्टपादतलं तु यत् ॥२९॥
अर्वतः क्षीणदृष्टार्धं दृश्या शेषं कटिस्थलम्॥
लुप्तपादाङ्गुलितलं दृश्याशेषतलद्वयम् ॥३०॥
चतुरस्रं सुसम्पूर्णमभयानकदर्शनम्॥
प्रकाशीकृतबाहुञ्च सुदष्टमुखकन्धरम् ॥३१॥
लुप्तं जङ्घैकतो ज्ञेयं नाम्ना स्थानं समानतः॥
नीचान्येतानि सर्वाणि तथोक्तैरभिराजितम् ॥३२॥
लक्षितैर्लक्षितव्यानि त्वयानुक्रमशो नव॥
एषां प्रज्ञावशेषेण विकाराणि बहून्यपि ॥३३॥
एकैकशश्च भूभागैः कर्तव्यानि यथावधि॥
त्वया सन्तः समासाद्य सम्यङ् मानं तु भूतले ॥३४ ।
स्थानानीमानि मानाद्यैर्गुणैर्लेख्यानि यत्नतः॥
नवैवैतानि दृष्टानि सर्वभावेष्वनिन्दित ॥३५॥
स्थानानि नाधिकमतः परमस्ति हि किंचन॥
जीवलोकं परिक्रम्य सततं स्थाणुजङ्गमम् ॥३६॥
उत्तमाधममध्येषु प्रमाणगुणतः सदा॥
चित्रं विचित्रं त्रिविधं प्रमाणं त्रयमेव च ॥३७॥
क्षयवृद्धी च कार्त्स्येन मया तेऽभिहितेऽनघ॥
अतः परं प्रवक्ष्यामि क्षयवृद्धिविधिं क्रमात ॥३८॥
चित्रविद्भिरसंज्ञेयं समासेनेतरेण च॥
त्रयोदशविधैवात्र क्षयवृद्धिरुदाहृता ॥३९॥
स्थानानां बहुसंस्थत्वादङ्गावयवसम्भवा॥
स्थानं पृष्ठ गतं पूर्वमवर्जुगतमेव च ॥४०॥
मध्यार्धार्धं तथार्धार्धं साचीकृतमुखं तथा॥
नतं गण्डपरावृत्तं पृष्ठागतमथापि च ॥४१॥
पार्श्वागतं च विज्ञेयमुल्लेपं चलितं तथा॥
उत्तानं वलितं चेति स्थानानि तु त्रयोदश ॥४२॥
कार्याण्येतानि सर्वाणि नामसंस्थानतो नृप॥
मण्डलानीह वैशाखप्रत्यालीढक्रियाक्रमैः ॥४३॥
समाश्चार्द्धसमाः पादाः सुस्थितानि चलानि च॥
समासमपदस्थं च द्विविधं स्थानकं भवेत ॥४४॥
तद्गत्वा पदभूयिष्ठं स्थानं समपदं स्मृतम्॥
मण्डलञ्च द्वितीयं स्यात्स्थानान्यन्यानि यानि च ॥४५॥
तान्येकसमपादानि विचित्राणि चलानि च॥
तत्र वैशाखमालीढं प्रत्यालीढं च धन्विनाम् ॥४६॥
चित्रगोमूत्रकगतं विषमं खड्गचर्मिणाम्॥
चलितं खलितायस्तमालीढैकपद क्रमम् ॥४७॥
शक्तितोमरपाषाणभिन्दिपालादिधारिणाम्॥
सुवल्गितं चक्रशूलगदाकुणपधारिणाम् ॥४८॥
एकपादसमस्थानं द्वितीयेन तु विद्गलम्॥
शरीरं च सलीलं स्यात्सावष्टंभैः क्वचिद्द्रुतम् ॥४९॥
लीलाविलासविभ्रान्तं विशाल जघनस्थलम्॥
स्थिरैकपादविन्यासं स्त्रीरूपं विलिखेद्बुधः ॥५०॥
प्रमाणहीनस्तु जनोऽनुभूयात्कालस्य भावस्य बलात्पृथिव्याम्॥
इति प्रचिन्त्यात्मधिया बुधेन कार्यं प्रमाणं क्षयवृद्धियोगे ॥५१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवत्रसंवादे चित्रसूत्रे क्षयवृद्धिर्नामैकोनचत्वारिंशत्तमोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP