संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०८१

खण्डः ३ - अध्यायः ०८१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
पद्मनाभस्य मे रूपं प्रब्रूहि जगताम्पतेः॥
यत्रास्य पद्मसम्भूतो देवदेवः पितामहः ॥१॥
मार्कंडेय उवाच॥
जलमध्यगतः कार्यः शेषः पन्नगदर्शनः।
फणपुञ्जमहारत्नदुर्निरीक्ष्यशिरोधरः ॥२॥
देवदेवस्तु कर्तव्यस्तत्र सुप्तश्चतुर्भुजः ।९
एकः पादोऽस्य कर्तव्यो लक्ष्म्युत्सङ्गगतः प्रभो ॥३॥
तथापरश्च कर्तव्यः शेषभोगाङ्कसंस्थितः॥
एको भुजोऽस्य कर्तव्यस्तत्र जानौ प्रसारितः ॥४॥
कर्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः॥
तथा चान्यः करः कार्यो देवस्य तु शिरोधरे ॥५॥
सन्तानमञ्जरीधारी तथैवास्यापरो भवेत्॥
नाभीसरसि सम्भूते कमले तस्य यादव ॥६॥
सर्वपृथ्वीमये देव्याः प्राग्वत्कार्यः पितामहः॥
नाललग्नौ च कर्तव्यौ पद्मस्य मधुकैटभौ ॥७॥
नृरूपधारीणि भुजङ्गमस्य कार्याण्यथास्त्राणि तथा समीपे॥
एतत्तवोक्तं यदुपुङ्गवाग्र्य देवस्य रूपं परमस्य तस्य ॥८॥
इति श्रीविष्णुध० तृ० ख० मा० व० सं पद्मनाभरूपनिर्माणो नामैकाशीतितमोऽध्यायः ॥८१॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP