खण्डः ३ - अध्यायः ०१७
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥वज्र उवाच ॥
मन्त्राः सब्राह्मणाः प्रोक्तास्तदर्थं ब्राह्मणं स्मृतम्॥
कल्पना च तथा कल्पः कल्पश्च ब्राह्मणस्तथा ॥१॥
कथितानि तथार्थानि पुराणं च तथा द्विज॥
प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः ॥२॥
उपोद्घातानुषङ्गौ च तथा संहार एव च॥
चतुष्पादं हि कथितं पुराणं भृगुनन्दन ॥३॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च॥
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥४॥
तत्र वा विदितं सर्वं तत्रोक्तं गीतलक्षणम्॥
वृत्तस्य लक्षणं चैव नाटकाख्यानलक्षणम् ॥५॥
तस्मादहं त्वां पृच्छामि द्विज नाट्यस्य लक्षणम्॥
सभेदं तन्ममाचक्ष्व सर्वज्ञोऽसि यतः प्रभो ॥६॥
मार्कण्डेय उवाच॥
इतिहासानुसारेण पुराणानां समीक्षितम्॥
चरितं त्रिदशानां वा नाटकं तत्र कीर्तितम् ॥७॥
एकनायकसंयुक्तं नायकप्रतिनायकैः।
संयुक्तमथवा कार्यः काव्ये वै तत्र नायकः ॥८॥
सर्वास्तु वृत्तयस्तत्र तत्र सर्वे तथा रसाः॥
कालप्रयोगं च तथा युक्त्या संदर्शयेन्नृप ॥९॥
पञ्चावराङ्कं तत्प्रोक्तं तथादशपरं शुभम्॥
एकदैवतिकं वृत्तमङ्के राजन्प्रदर्शयेत ॥१०॥
तदन्ते सर्वपात्राणां निष्क्रमश्च विधीयते॥
युक्त्युपन्याससंयुक्तं तथा निष्कमणं मतम् ॥११॥
मरणं राज्यविभ्रंशो नगरस्योपरोधनम्॥
एतानि दर्शयेन्नांके तथा युद्धं च पार्थिव ॥१२॥
प्रवेशकेन कर्तव्यं तेषामाख्यानकं बुधैः॥
पात्रद्वयेन कर्तव्यं तथा नित्यं प्रवेशकम् ॥१३॥
पात्रे परिजने तत्र कर्तव्यं नायकेन तु॥
भिन्नं पात्रद्वयं यत्र तत्र विष्कम्भकं स्मृतम् ॥१४॥
तयोरन्ते तु कर्तव्या तथा रङ्गस्य शून्यता॥
अङ्गान्ते च तथा कार्या न कार्या सान्यथा भवेत् ॥१५॥
बहुदैवतिकं वृत्तं कर्तव्यं तु प्रवेशकम्॥
संक्षपोक्तिश्च कर्तव्या कर्तव्यो नहि विस्तरः ॥१६॥
प्रख्यातनायकवधं न च तत्र प्रवेशयेत्॥
तस्य प्रकाशनं कार्यमङ्केप्येव नराधिप ॥१७॥
नायकाभ्युदयः कार्यो नाटकान्ते तथैव च॥
बह्व्योऽपि नायिका यत्र तासामपि तथा भवेत् ॥१८॥
एवंविधा सशृङ्गारा चतुरङ्काः तु नाटिका॥
कृतं प्रकरणं तद्वत्स्वयमुत्पाद्य वस्तुना ॥१९॥
ब्राह्मणो नायकस्तत्र वणिक्च नृपसत्तम॥
एवं प्रकरणी कार्या चतुरङ्कापि सा भवेत् ॥२०॥
इतिहासानुबन्धो वा स्वयमुत्पाद्य वा कृतः॥
भारतीकरुणप्रायो निवृत्तं समनन्तरम् ॥२१॥
चतुष्टयाङ्कः कर्तव्यो दिव्यनायकवर्तितः॥
इतिहासानुसारेण प्राणश्चैकाहिकः स्मृतः ॥२२॥
एकांको युद्धबहुलस्वात्मशंसापरस्तथा॥
आकाशकथनैर्युक्तस्त्वेकपात्रकृतक्रियः ॥२३॥
प्रोक्तः समवताराख्यस्त्रिदशासुरनायकः॥
त्रिशृङ्गारस्त्रिकपटस्तथा द्वादशनायकः ॥२४॥
ईहामृगोऽथ बह्वङ्कस्तथा गन्धर्वनायकः॥
शृङ्गारबहुलः कार्योऽतृप्त योनिरसाश्रयः ॥२५॥
ऐकाहिको दृप्तरसो व्यायोगश्चैकनायकः॥
वीथी त्रयोदशाङ्का स्यात्तथा नायकवर्जिता ॥२६॥
डिमाख्यश्च तथा प्रोक्तो रसस्तु सुरनायकः॥
तथा रौद्ररसप्रायः प्रख्यस्तविषयान्वितः ॥२७॥
एकाङ्को हास्यबहुलस्तथैवोदात्तनायकः॥
कार्यः प्रहसनाख्यस्तु वेश्याविटसमन्वितः ॥२८॥
सूत्रधारस्य वाक्येन काव्यवस्तुनिबन्धनम्॥
सर्वं प्रकाशयेदादौ सर्वेष्वेतेषु वस्तु यत् ॥२९॥
संस्कतं नायकवचो लिङ्गिश्रोत्रियभूभुजाम्॥
द्विजन्मनां सुराणां च दैत्यगन्धर्वभोगिनाम् ॥३०॥
नायिकादेवरामाणां व्याजलिङ्गवतां तथा॥
विदूषकाणां च भवेत्प्राकृतं वचनं नृप ॥३१॥
बालस्त्रीनीचषण्डानां ये चान्ये नानुकीर्तिताः॥
तेषां वाक्यमपभ्रष्टं तच्च ज्ञात्वा प्रयोजयेत् ॥३२॥
स्वयमुत्पादितानां मे नानात्वं शृणु लक्षणम्॥
शर्म वर्मधनान्यन्ते वर्णानां दासवत्तथा ॥३३॥
राज्ञां विक्रमसंयुक्तममात्यानां तथा भवेत्॥
स्त्रीणां सुखोद्यमक्रूरं नायिकानां मनोहरम् ॥३४॥
राज्ञीपरिजनस्त्रीणां कलाकौशलसंयुतम्॥
राज्ञः परिजनस्त्रीणां विजयोत्तरमिष्यते ॥३५॥
सांवत्सराणां माङ्गल्यं शान्तिप्रायं पुरोधसाम्॥
शूरप्रायममात्यानामायुप्यं भिषजामपि ॥३६॥
विटानां भूषणप्रायं दासीनां कुसुमादिकम्॥
ऋषिगोत्रधरौ कार्यौ कञ्चुकीयविदूषकौ ॥३७॥
दत्ता मित्रा तथा सेना वैश्या नाम ततो भवेत्॥
अधिकारानुरूपाणि तथा चैवाधिकारिणाम् ॥३८॥
अतः परं प्रवक्ष्यामि येन वाच्यस्तु यो यथा॥
देवेति राजा वक्तव्यो भृत्यैः प्रकृतिभिस्तथा ॥३९॥
राजेति विप्रैर्वक्तव्यो ऋषिभिर्नामगोत्रतः॥
अपत्यप्रत्ययाद्देवैर्वयस्येति समो जनः ॥४०॥
विदूषकोऽपि वक्तव्यो वयस्य इति नायकैः॥
आयुष्मानिति सूतेन रथी वाच्यस्तथा भवेत् ॥४१॥
भगवन्निति वक्तव्या ऋषयो गुरवः सुराः॥
पुत्र वत्सेति शिष्यस्य तथा वा नामगोत्रतः ॥४२॥
आर्यपुत्रेति वक्तव्यः स्त्रिया भर्ता नराधिप॥
नाम्ना भार्या तु वक्तव्या राज्ञी देवीति नायिका ॥४३॥
पिता तातस्तथा वाच्यो मातुश्चैवार्यकः पिता॥
युवराजः कुमारः स्यान्मान्यो भावः समीरितः ॥४४॥
मान्यमानस्तथा भामो भर्तृदारः कुमारकः॥
हलेति तु समाना स्त्री वक्तव्या समया तथा ॥४५॥
हञ्जेत्यामन्त्रयेन्नारी हण्डे परिजने स्वके॥
स्वसेति भगिनी वाच्या लिङ्गस्था व्रतिनी तथा ॥४६॥
आर्येति ब्राह्मणी वाच्या शेषा लिङ्गार्थतस्तथा॥
अन्तःपुरचरो यस्तु स्त्रीभोगपरिवर्जितः ॥४७॥
स तु वर्षधरो ज्ञेयस्तदध्यक्षस्तु कञ्चुकिः॥
ब्राह्मणः स भवेद् वृद्धो मान्यश्च वसुधाधिपैः ॥४८॥
विदूषको ब्राह्मणः स्यान्नायकस्य रहस्यवित्॥
नटः प्रधानः स भवेत्सूत्रधारो नराधिप ॥४९॥
ज्ञेया बीजसमुत्पत्तिर्मुखं नाना रसोद्भवः॥
मुखोत्थबीजोद्घटनं तथा प्रतिमुखं स्मृतम् ॥५०॥
प्राप्याप्रातियुतो गर्भस्तस्यैवोद्भेदसंज्ञितः॥
तदेवोद्भिन्नबीजार्थो विसर्गो व्यसनान्वितः ॥५१॥
मुखादीनां निर्वहणं तथा निर्वहतं भवेत्॥
नाटके सप्रकरणे कर्तव्याः पात्रसन्धयः ॥५२॥
डिमे समवकारे च विसर्गं नैव कारयेत्॥
व्यायोगेहामृगौ कार्यो तथा गर्भविवर्जितौ ॥५३॥
उत्सृष्टाङ्क प्रहसनं वीथी भाणकमेव च॥
एतेषां नावकर्तव्यं तथा प्रतिमुखं नृप ॥५४॥
औदार्यसत्पथं शौर्यं नायकस्तु न संत्यजेत्॥
नायिकापि तथा राजन्यजेद्वा प्रतिनायकः ॥५५॥
अतः परं प्रवक्ष्यामि नायिकाष्टकलक्षणम्॥
निजापराधात्स्वगृहे वाससज्जा तु नायिका ॥५६॥
विरहोत्कण्ठिता सैव या त्वनागतनायिका॥
स्वाधीन भर्तृका प्रोक्ता या स्यात्स्वाधीनभर्तृका ॥५७॥
कलहान्तरिता प्रोक्ता कलहाहतनायका॥
खण्डिता या च नखरैर्युतमेति प्रगोपतिम् ॥५८॥
विप्रलब्धा तु सा ज्ञेया संकेते कान्तवर्जिता॥
प्रवासगतकान्ता तु तथा प्रोषितभर्तृका ॥५९॥
एतासामुचिताकारलीलाभिर्बन्धनं घनम्॥
नाटकादिषु रूपेषु कर्तव्यं द्वादशस्वपि ॥६०॥
शृङ्गारहास्यकरुणवीररौद्रभयानकाः॥
बीभत्साद्भुतशान्ताख्या नव नाट्यरसाः स्मृताः ॥६१॥
बन्धो रसानुगः कार्यः सर्वेष्वेतेषु यत्नतः॥
रसप्रधानमेवैतत्सर्वनाट्यं नराधिपः ॥६२॥
एते कलाकौशलशीलयुक्ताः कार्यास्तथा लोक विधानयुक्ताः॥
धर्मार्वकामाद्युपदेशगाश्च हिताय लोकस्य नरेन्द्रचन्द्र ॥६३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे द्वादशरूपकवर्णनो नाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP