संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२८

खण्डः ३ - अध्यायः ३२८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
पौरुषो निर्णयः प्रोक्तो दिव्यं वक्ष्याम्यतः परम्॥
असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः ॥१॥
राजद्रोहाभिशापेषु साहसेषु तथैव च॥
विवादे तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥२॥
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः॥
वसिष्ठोऽदत्त शपथं समये जवने नृपे ॥३॥
न मृषा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः॥
वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति ॥४॥
स्थावरेषु तु दिव्यानि वर्जनीयानि पार्थिवैः॥
लिखितेन तथा भुक्त्या तेषां भवति साधनम् ॥५॥
कोशं धटं विषं चाग्निमुदकं तप्तमाषकम्॥
फालं च तण्डुलं चैव दिव्यान्यष्टौ विदुर्बुधाः ॥६॥
कोशवर्जन्तु दिव्यानि सशिरस्कानि दापयेत्॥
अशिरस्कः स्मृतः कोशः कालान्तरविभावनात ॥७॥
अशिरस्कानि दिव्यानि राज्ञा कण्टकशोधनैः॥
राज्ञा सर्वाणि देयानि स्वयं च परिमार्गिणा ॥८॥
लोभान्मोहाद्भयाद्वापि भिद्यन्ते साक्षिणः परैः॥
अज्ञानाद्बालभावाच्च भेदे धर्मो व्यवस्थितः ॥९॥
सर्वद्रव्येषु कनकं मूल्यं तु परिकल्पयेत्॥
माषकेण सुवर्णस्य काल्यमसुखे द्विजम् ॥१०॥
सत्यं वदामीति शपेन्नान्यत्किञ्चन पार्थिव॥
शस्त्रमादाय वक्तव्यं क्षत्त्रियेण तथैव च ॥११॥
धेनुं संस्पृशता सत्यं वाच्यं वैश्येन वै द्विजाः॥
शूद्रः कुर्वीत शपथं तथा सर्वैस्तु पातकैः ॥१२॥
कृष्णलेन सुवर्णस्य तिलवृद्ध्या तु शापयेत्॥
शूद्रान्न शापयेद्राजा कदाचिदपि वै द्विजाः ॥१३॥
विप्रवर्जं तथा कोशं वर्णिनां दापयेन्नृपः॥
सुवर्णमाषकादूर्ध्वमर्वागष्टभ्य एव च ॥१४॥
विप्रवर्जं तु विप्रोऽपि वर्णिनां पूरसंयुतम्॥
कोशस्थाने तु शपथं कारयेदविधारयन् ॥१५॥
अतः परं तु दिव्यानां कुर्यादन्यतमं नरः॥
यथा तथा महीपालः शृणुध्वं गदतो मम ॥१६॥
न शीते तु धटं देयमुष्णकाले हुताशनम्॥
वर्णिनां न तथा फालं तण्डुलं मुखरोगिणाम् ॥१७॥
श्वासकासार्दितानां च ब्राह्मणानां च नो विषम्॥
तप्तमाषकमर्हन्ति सर्वे वर्णा निरत्ययम् ॥१८॥
न व्याधिमरकाक्रान्ते देशे कोशं तु पातयेत्॥
मन्त्रैरस्वरदिव्यानि सञ्चयन्तीह मानवाः ॥१९॥
प्रतिमन्त्रविदः स्तम्भनानां विनाशने॥
नियुञ्जीत नरेन्द्रोपि निभृतां धनवत्सलाम् ॥२०॥
दिव्यानां स्तम्भकं ज्ञात्वा पापान्नित्यं महीपतिः॥
विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कण्टकाः ॥२१॥
तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत्॥
ते हि पापसमाचारास्तस्करेभ्योपि तस्कराः ॥२२॥
दृग्दृष्टिदोषात्स्वल्पेपि दिव्येषु विनियोजयेत्॥
महत्स्वपि न चार्थेषु धर्मज्ञान्धर्मवत्सलान् ॥२३॥
ज्ञात्वा धर्मिष्ठतां राजा पुरुषस्स विचक्षणः॥
स्वल्पे वाप्यथ वास्वल्पे शपथे तान्नियोजयेत् ॥२४॥
न मिथ्यावचनं येषां जन्मप्रभृति विद्यते॥
श्रद्दध्यात्पार्थिवस्तेषां वचने धर्मदर्शिनाम् ॥२५॥
अत्यन्तोपहताः पापा नास्तिका भिन्नसेतवः॥
दिव्यान्यर्हंति सर्वाणि स्वल्पदोषा अपि द्विजाः ॥२६॥
आदौ भूमिं परीक्षेत धटस्यार्थे विचक्षणः॥
इन्द्रस्थाने सभायां वा दिग्भागे पूर्वदक्षिणे ॥२७॥
धटं निवेशयेत्तत्र सुसमायां तथा भुवि॥
यज्ञियस्य तु वृक्षस्य कर्तव्यं मण्डपद्वयम् ॥२८॥
मण्डपस्य प्रमाणं तु सप्तहस्तं प्रकीर्तितम्॥
द्वौ हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपञ्चकम् ॥२९॥
अन्तरञ्च तयोः कार्यं तथा हस्तचतुष्टयम्॥
मण्डपोपरि काष्ठं च दृढं कुर्याद्विचक्षणः ॥३०॥
चतुर्हस्तं तुलाकाष्ठं त्वव्रणं कारयेत्स्थिरम्॥
खदिरार्जुनवृक्षाणां शिंशिपासालजं तथा ॥३१॥
तुलाकाष्ठं तु कर्तव्यं तथा वै शिक्यकद्वयम्॥
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा ॥३२॥
वणिक्सुवर्णकारौ च कुलालः कांस्यकारकः॥
तुलाधरे धटः कार्यो रिपौ मित्रे तथा समः ॥३३॥
श्रावयेत्प्राड्विवाकोपि तुलाधारं विचक्षणः॥
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनाम् ॥३४॥
तुलाधरस्य ते लोकास्तुलां धारयतो मृषा॥
एकस्मिँस्तोलयेच्छिक्ये स्नातं सूपोषितं नरम् ॥३५॥
द्वितीये मृत्तिकां शुभ्रां गौरीं तु तुलयेद्बुधः॥
इष्टकाभस्मपाषाणकपालास्थीनि वर्जयेत् ॥३६॥
तुलयित्वा ततः पूर्वं तस्मात्तमवतारयेत्॥
मूर्ध्नि पत्रं ततस्तस्य न्यस्तपत्रं निवेशयेत् ॥३७॥
मन्त्रश्चायं पुरा प्रोक्तः स्वयमेव स्वयम्भुवा॥
ब्रह्मणस्त्वं सुता देवि तुलानाम्नीति कथ्यसे ॥३८॥
तुकारो गौरवो नित्यं लकारो लघुनि स्मृतः॥
गुरुलाघवसंयोगात्तुला तेन निगद्यसे ॥३९॥
संशयान्मोचय स्वैनं चाभिशस्तं नरं शुभे॥
भूय आरोपयेत्तं तु नरं तस्यां सपत्रकम् ॥४०॥
तुलितो यदि वर्धेत शुभो भवति धर्मतः॥
हीयमाने न शुद्धः स्यादिति धर्मविदो विदुः ॥४१॥
शिक्यच्छेदे तुलाभङ्गे पुनरारोपयेन्नरम्॥
तथा निःसंशयं ज्ञानं भवतीति विनिश्चयः ॥४२॥
अग्नेर्विधिं प्रवक्ष्यामि शृणुध्वं गदतो मम॥
सप्तमण्डलकान्कुर्याद्देवब्राह्मणसन्निधौ ॥४३॥
प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा॥
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥४४॥
पश्चिमे मण्डले तिष्ठेत्प्राङ्मुखः प्राञ्जलिः शुचिः॥
चरतुरस्रे यथा अस्मिन्कृत्वा चैव समौ करौ ॥४५॥
लक्षयेयुः क्षतादीनि हस्तयोस्तस्य कारिणः॥
सप्ताश्वत्थस्य पत्राणि बध्नीयुः करयोस्ततः ॥४६॥
नवेन सितसूत्रेण कार्पासेन द्विजोत्तमाः॥
ततस्तु सुसमं कृत्वा अङ्गुलं त्वेकमायसम् ॥४७॥
पिण्डं हुताशसन्तप्तं पञ्चाशत्पलिकं दृढम्॥
आदौ पूजां हुताशस्य कारयेद्वसुधाधिपः ॥४८॥
रक्तचन्दनधूमाभ्यां रक्तपुष्पैस्तथैव च॥
अभिशस्तस्य मन्त्रं च बध्नीयात्तस्य मूर्धनि ॥४९॥
मन्त्रेणानेन संयुक्तं ब्राह्मणाभिहितेन तु॥
त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे ॥५०॥
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्॥
जठरस्थोपि भूतानां त्वं च वेत्सि शुभाशुभम्॥
पापेषु दर्शयात्मानमर्चिष्मान्भव पावक ॥५१॥
अथ वा शुद्धभावेषु शीतो भव महाबल॥
ततोभिशस्तः शनकैर्मण्डलानि परिक्रमेत् ॥५२॥
परिक्रम्य शनैर्जह्याल्लोहपिण्डं तथा क्षितौ॥
विमुक्तहस्तं तं पश्चात्कारयेद्व्रीहिमर्द्दनम् ॥५३॥
निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः॥
भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते ॥५४॥
पुनस्तु चाहरेल्लोहं विधिरेष प्रकीर्तितः॥
तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ॥५५॥
शैवालनक्रमत्स्याद्यैर्वर्जिते स्थावरे जले॥
धर्मस्थूणा तत्र कार्या पुरुषं धर्मवत्सलम् ॥५६॥
नाभिदघ्नोदकस्थस्य गृहीत्वोत्तं समाविशेत्॥
मध्यमेनाथ धनुषा मध्यस्थः पुरुषोऽपरः ॥५७॥
इषुमोक्षं तदा कुर्याद्देशे तृणविवर्जिते॥
शरमोक्षे समे काले निमज्जेत्पुरुषोप्यसौ ॥५८॥
मूर्ध्नि विन्यस्तपत्रस्तु पेत्रै चैतान्निवेशयेत्॥
आदिदेवोऽसि देवानां शौचस्याप्यायनं परम् ॥५९॥
पञ्चानां लोकपालानां त्वं वरिष्ठं जगत्पते॥
त्रायस्वैनं नरं पापात्पश्यसि त्वं शुभाशुभम ॥६०॥
अन्तश्चरसि भूतानां सर्वेषां मोक्षवत्स्थितः॥
इषुप्रक्षेपणस्थानाद्युवा च बलवान्नरः ॥६१॥
धावन्स परया शक्त्या शरं तत्समुपातयेत्॥
आगते तु शरग्राहे तोयस्थश्चेन्न दृश्यते ॥६२॥
शुद्धो भवति धर्मेण यश्चाप्यङ्गं न दर्शयेत्॥
विषस्यातः प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ॥६३॥
शृङ्गिणो वत्सनाभस्य हिमशैलोद्भवस्य च॥
यवास्सप्त प्रदातव्या अथ वा यद्घृताप्लुताः ॥६४॥
मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैतन्निवेशयेत्॥
त्वं विष ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः । ६५॥
त्रायस्वैनं नरं पापात्सत्येनास्य भवामृतम्॥
येन वेगैर्विना जीर्णं छर्दिमूर्च्छाविवर्जितम् ॥६६॥
तं तु शुद्धं विजानीयादिति धर्मविदो विदुः॥
तण्डुलानां प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ॥६७॥
चौर्ये तु तण्डुला देया न चान्यत्र कथंचन॥
तण्डुलानुदके सिक्त्वा रात्रौ तत्रैव स्थापयेत ॥६८॥
तण्डुलान्कारयेच्छुद्धाञ्शालीनां पृथिवीपतिः॥
मृन्मयं भाजनं कृत्वा सवितुः पुरतः स्थितः ॥६९॥
तण्डुलान्मंत्रयेच्शुद्धान्मंत्रेणानेन धर्मतः॥
दीयते सत्त्वधर्मज्ञैर्मानुषाणां विशोधनम् ॥७०॥
ततस्तण्डुल सत्येन धर्मतस्त्रातुमर्हसि॥
प्रभाते कारयेदेव भक्षणाय न संशयः ॥७१॥
त्रिविधः प्राङ्मुखस्येह पत्रे निष्ठीवयेत्ततः॥
पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन ॥७२॥
शोणितं दृश्यते यस्य तमशुद्धं विनिर्दिशेत्॥
अथातः संप्रक्ष्यामि तप्तमाषकनिर्णयम् ॥७३॥
कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम्॥
चतुरङ्गुलखातं तु मृन्मयं वापि कारयेत् ॥७४॥
पूरयेद्घृततैलाभ्यां पलैर्विंशतिभिस्ततः॥
सुतप्ते निक्षिपेत्तत्र सुवर्णस्य तु माषकम् ॥७५॥
वह्न्यक्तं विन्यसेन्मन्त्रमभिशस्तस्य मूर्धनि॥
अङ्गुष्ठाङ्गुलियोगेन तप्तमाषं समुद्धरेत् ॥७६॥
शुद्धं ज्ञेयमदग्धं तु विस्फोटादिविवर्जितम्॥
फालशुद्धिं प्रवक्ष्यामि शृणुध्वं द्विजपुङ्गवाः ॥७७॥
आयसं द्वादशपलं घटितं फालमुच्यते॥
अष्टाङ्गुलं समं दीर्घं चतुरंगुलविस्तृतम् ॥७८॥
वह्न्यक्तं विन्यसेत्पत्रमभिशस्तस्य मूर्धनि॥
त्रिः परावर्तयेज्जिह्वां लिहतस्सार्धमङ्गुलम् ॥७९॥
गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम्॥
जिह्वापरीक्षणं कुर्याद्दग्धां चेन्न विभाव्यते॥८०॥
तं विशुद्धं विजानीयाद्विशुद्धं चैव मोक्षयेत्॥
कोषस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ॥८१॥
योयो यां देवताभक्तः पाययेत्तस्य तूत्तरम्॥
समभक्तं तु देवानामादित्यस्यैव कारयेत्॥८२॥
उग्राणामपि देवानां वधस्यैव तु दापयेत्॥
सर्वेषामेव देवानां स्नापयेदायुधं स्वकम्॥८३॥
स्नानोदकं वा सकलमाहरेत विचक्षणः॥
उन्मुखं करणं कृत्वा पाययेत्प्रसृतित्रयम्॥८४॥
इदं मया नैव कृतं कृतं वाप्यथ शायिना॥८५॥
पीते तु कोशे पुरुषस्य दृष्टा देवोपघातं नृपसंभवं वा॥
त्रिःसप्तरात्रांतरतो नृपेण भृशं विनेयः पुरुषः स विप्राः॥८६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दिव्यप्रमाणनिरूपणं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः ॥३२८॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP