खण्डः ३ - अध्यायः ०७४
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
वज्र उवाच॥
लिङ्गस्य रूपनिर्माणं कथयस्व ममानघ ॥१॥
मार्कण्डेय उवाच॥
लिङ्गे हि पूजितं पूजा कृता तु जगतो भवेत्॥
भोगोस्य वृत्तः कर्तव्यो भागमष्टास्रमेव तु ॥२॥
चतुरस्रं तथा भागं कर्तव्यं भूरिदक्षिणम॥
वृत्तं दृश्यं त कर्तव्यं अष्टास्रं पिण्डिकागतम् ॥३॥
चतुरस्रं तु कर्तव्यं ब्रह्मपीठगतं तथा॥
अधस्ताद्भद्रपीठस्य ब्रह्मपीठं विदुर्बुधाः ॥४॥
लिङ्गोपरिष्टात्तु गता पुरस्ताल्लेखा सुवृत्ता तु तथैव कार्या॥
ऊर्ध्वायता बुद्धिगुणा तथास्या या ब्रह्मसूत्रे विबुधैः प्रदिष्टा ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लिङ्गरूपनिर्माणो नाम चतुःसप्ततितमो ऽध्याय ॥७४॥
N/A
References : N/A
Last Updated : December 27, 2022
TOP