खण्डः ३ - अध्यायः ०९८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
अथ प्रासादलक्षणम्॥
पुरतो वा सुशुद्धे भूभागे स्थण्डिलत्रयं परिकल्पयेत् ।
यथावर्णोक्तमृदा ससिकतया ।
ततः स्थंडिलत्रयमपतितगोमयेनोपलेपयेत् ।
तत्र मध्येऽधिवासनस्थण्डिलम् ।
तद्दक्षिण इज्यास्थण्डिलम् ।
तदुदग्धोमस्थण्डिलम् ।
तत्राधिवासनास्थण्डिले चत्वारस्तोरणाः परिकल्प्यन्ते ।
सर्वे स्थण्डिला चतुरस्राश्चतुर्हस्तोच्छ्रयास्तोरणत्रिभागविस्तीर्णाः॥
स्थण्डिलद्वय आर्द्राभिः पताकाभिः प्रतिसराभिश्च परिवारयेत् ।
वनप्रवेशोक्तेन विधिना प्रशस्तवृक्षाणामन्यतमस्य वृक्षस्य तोरणार्थकाष्ठान्यानीय स्थण्डिलेभ्य उपस्थापयेत् ।
न तोरणं काष्ठद्वयजं कुर्यात् ।
न कुब्जम् ।
तोरणाश्च सर्वे समप्रमाणाः ।
आदावेवाधिवासनस्थण्डिलस्य पश्चिमभागे प्राङ्मुखः कल्पकः स्वामी न स्यात्।
कल्पकाद्दक्षिणे भागे प्राङ्मुख एव सात्त्वतः स्यात्।
तस्यापि दक्षिणे भागे प्राङ्मुख एव ऋग्वेदविद्भवेत्॥
कल्पकाद्वामभागे प्राङ्मुख एव यजमानः।
तस्य वामतः प्राङ्मुख एव अर्घबाहुः स्थण्डिलाश्रितो दक्षिणाभिमुखो यजुर्वेदवित् ।
स्थण्डिले पूर्वतः पश्चिमाभिमुखः सामवेदवित् ।
तस्य दक्षिणतो वंशवादकः ।
तस्यापि दक्षिणतो वाचकः ।
तस्योदग्गायनः।
पृष्ठे वादनकतन्तकाः ।
स्थण्डिला द्दक्षिणतः उत्तराभिमुखोथर्ववेदवित् ।
होमस्थण्डिले प्राङ्मुख अगारात्पश्चिमतो होता ।
चतुरस्रः ।
समन्ताद्धस्तमानश्चागारः समेखलः तस्योदङ्मन्त्ररक्षिता द्रव्यरक्षिता च । इज्यास्थण्डिले इज्याकृत्सात्त्वतः ।
तद्दक्षिणतः उत्तराभिमुखो मन्त्ररक्षिता द्रव्यरक्षिता च ।
संवत्सरो न्यत्रैकवित्तकालग्रहणावहितः स्यात् ।
स्थपतेरनियमः ।
ततः सौवर्णं राजतं ताम्रं मृन्मयमकालमूलं वा कलशं सुदृढं तीर्थोदकपूर्णं सर्वौषधिभिः सर्वगन्धैः सर्वबीजैः सर्वरत्नैर्हिरण्येन चन्दनेन फलैश्च संयुतं कृत्वा अनुलेपनार्घनिर्मितपवित्रमुखे सति सूत्रमाल्यग्रीवं कल्पकः पुरतः प्रतिष्ठापयेत् । कलशः पूर्वेण ।
स्थण्डिलमध्ये अष्टपत्रं कमलमालिखेत्॥
ततः कर्म्मारम्भं कुर्यात् ।
प्रणवव्याहृतिपूर्विकां गायत्रीं सशिरस्कां जपेत् ।
ॐकारं नमस्कारं कर्म्मारम्भं पवित्रं चेति ।
ततस्तोत्रं कञ्चिद्वाचयेत ।
ततो रक्षोघ्नैर्म्मन्त्रैर्दिक्षु विदिक्षु च सिद्धार्थकान्न्यसेत् ।
ततो द्वादशाङ्गुले खाते वनस्पते वीड्वङ्ग इति प्राच्यादिक्रमेण तोरणन्यासं कुर्यात्॥
तोरणाश्चत्वारो युगा भवन्ति ।
पूर्वतः कृतयुगः, दक्षिणतस्त्रेता, पश्चिमे द्वापरः, उत्तरे कलिरिति ।
एवं तोरणन्यासं कृत्वा युवा सुवास इति दर्भैरशुष्कपत्रैः स्रग्दामभिश्च तोरणचतुष्कं चापि वेष्टयेत् ।
ततस्तोरणानामुपरि ध्वजाः कर्तव्याः ।
पूर्वेण पीतपताको गरुडः, दक्षिणेन नीलपताकस्तालः, पश्चिमेन श्वेतपताको मकरः, उदग्रक्तपताकः ऋष्यः ।
गरुडस्य पार्श्वयोर्गदाचक्रे, तालस्य हलमुसलौ मकरस्य धनुर्बाणौ, ऋष्यस्य खड्गचर्म ।
तोरणान्तराले आग्नेये दिग्भागे च्छत्रम् ।
नैर्ऋत्यां वैजयन्तीं पताकाम् ।
वायव्यां ध्वजम् ।
ऐशान्यां दण्डम् ।
स्थण्डिलोपरि वितानकम् ।
तोरणं प्रतिघण्टामादर्शं च ।
इज्यास्थण्डिले वितानकम् ।
तत्र च घटिलिखिताः प्रतीहाराः सुभद्रभद्रौ पूर्वेण ।
आषाढयज्ञतांतौ दक्षिणेन
जयविजयौ पश्चिमेन ।
मोदप्रमोदौ उत्तरेण ।
एतत्कृत्वा ध्रुवाद्यावित्युदाहरेत् ।
माथुरं च मन्त्रं व्याचक्षेति ।
ततः कलशोदकेन पवित्रमन्त्रेण यजमानऋत्विजां भोगांश्चाभ्युक्ष्य गायत्री जपेत ।
या औषधयश्चेति तत्रैशानीदिक् प्रभृतिषु सपुंखान्सफलान्दृंढाञ्छरांश्चत्वारो निखनेत्। तेषां नामानि ।
कन्दर्पः, सोमनः, दुर्धरः, शिखरः॥
तेषां चत्वारो लोकपालाः इन्द्रयम वरुणधनदाः ।
तेषां च निवेशने काण्डात्काण्डादित्युदीरयेत्॥
ततः पञ्चरङ्गं सूत्रं काण्डात्काण्डेति बध्नीयात ।
तेनैव दिशः परिवारयेत् ।
पञ्च रङ्गत्वात्पञ्चसूत्रं पञ्चमहाभूतमयं संसारसूत्रम् ।
नीलं पृथ्वी, श्वेतमापः रक्तमग्निः पीतं वायुः, कृष्णमन्तरिक्षम् ।
तद्बन्धेन दूष्यादूष्येति मन्त्रो भवति ।
इन्द्राण्या कीर्तितं सूत्रमिति च ततः कण्डे मूलेषु स्थडिलाभ्यन्तरेण चतुर्षु दिक्षु चत्वारः पूर्णकुम्भान् प्रतिष्ठापयेत् ।
ते चत्वारः सामरा ज्ञेयाः तत्राप्यैशान्यां दिशि प्रथमं कुम्भं प्रतिष्ठापयेत् ।
ततः क्रमेणान्यान॥
तेषां नामानि सहस्रवीर्यः, विमलः, शतधारः, प्रमन्दनः॥
तांश्च सहिरण्यान्सचन्दनान्सकुसुमान्सवनस्पतिकलापान्कुर्यात ।
तत्र शन्न आप इति प्रथममभिमन्त्रयेत् ।
शन्नो देवीरिति द्वितीयम्॥
आपोहिष्ठेति तृतीयम ।
इदमापः प्रवहत इति चतुर्थम्॥
ततः पूर्वेण लाजापूर्णं पात्रं स्थापयेत ।
दक्षिणेन तिलपात्रम् ।
पश्चिमेन सिद्धार्थपात्रम ।
उदगक्षतपात्रम ।
पात्रविशेषेण आव्रन्ब्राह्मण इत्युदीरयेत ।
ततश्चतसृषु विदिक्षु कुम्भानामभ्यन्तरे चत्वारो दीपा देया ।
ते च वेदा ऐशानीप्रभृति ऋग्यजुस्सामाथर्वाणः।
तेषां च निवेशने तेजोसि शुक्रमित्युदीरयेत्।
ततः पुनरपि रक्षोघ्नर्मन्त्रैः सिद्धार्थविकिरणं कुर्यात ।
ये देवाः पुरः सदोमिति जपेत्॥
वाराहं प्रादुर्भावं च वाचयेत।
श्रीसूक्तमुदीरयेत्।
ततस्तेन पञ्चगव्येन भुवनमभ्युक्षयेत्।
तोरणानि च( अर्चां शौचार्थं च स्थापयेत्। बृहत्स्नपने तदेवं स्यादन्यं नावकल्पयेत्।)
अथार्घ्यः।
एवं तोरणविन्यासे कृते भूपतिसत्तम॥
सर्वे विघ्नाः क्षयं यान्ति परा वृद्धिश्च जायते ॥१॥
इति श्रीविष्णु० ध० तृ० ख० मा० सं० प्रतिष्ठाकल्पे तोरणवर्णनो नामाष्टनवतितमोऽध्यायः॥९८॥
N/A
References : N/A
Last Updated : December 27, 2022
TOP