संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय १०४ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय १०४ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय १०४ Translation - भाषांतर अथ चतुरधिकशततमोऽध्यायः ।शौनक उवाच ।इत्युक्तं तव धर्मज्ञ विष्णोर्माहात्म्यमुत्तमम् ।स्वरूपं च जगद्धातुराराधनविनिश्चयः १आराधितात्फलं यच्च केशवात्प्राप्यते नरैः ।कथितश्च महाभाग दानानां विस्तराद्विधिः २योगद्वैधं च कथितमद्वैतं द्वैतमेव च ।अद्वैतभावनोपायो विस्तराच्च तवोदितः ३सङ्क्षेपविस्तराभ्यां च सर्वमेतत्तवोदितम् ।देवदेवस्य माहात्म्यं सर्वगस्याव्ययात्मनः ४स एष सर्वप्रवरः सर्वभूतश्च माधवः ।सर्वमत्र च सर्वस्मिन्नेष एव प्रतिष्ठितः ५त्रियुगं पुण्डरीकाक्षमपवर्गमहाह्रदम् ।समुत्पत्य पराह्लादमनन्तं प्रतिपद्यते ६शतानीक उवाच ।श्रुतमेतन्मया पूर्वं विस्तरेण त्वयोदितम् ।यत्त्वेतत्त्रियुगेत्युक्तं तस्य निर्वचनं वद ७चतुर्युगेन कालस्य परिसङ्ख्या यदा द्विज ।त्रियुगेन तदा विष्णोः क्रियते किं विशेषणम् ८कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।यदा जगति विख्यातं तदा त्रियुगता कुतः ९शौनक उवाच ।साधु पृष्टोऽस्मि भूपाल भवता त्रियुगाश्रितम् ।विशेषणमनन्तस्य गदतस्तन्निशामय १०काष्ठा पार्थिव विज्ञेया निमेषा दश पञ्च च ।काष्ठात्रिंशत्कला ज्ञेया मुहूर्तं तावतीः कलाः ११त्रिंशन्मुहूर्ता भूपाल तथाहोरात्रमुच्यते ।तत्सङ्ख्यातैरहोरात्रैर्मासः पार्थिवसत्तम १२अयनं दक्षिणं मासाः षण्मासाश्च तथोत्तरम् ।अयनद्वितयाख्यश्च कालः संवत्सरः स्मृतः १३दक्षिणं त्वयनं रात्रिर्देवानामुत्तरं दिनम् ।संवत्सरेण देवानामहोरारमिहोच्यते १४शतत्रयेण वर्षाणां षष्ट्या च पृथिवीपते ।मनुष्यसङ्ख्यया वर्षं देवानामपि गण्यते १५इति दिव्येन मानेन चतुर्युगविकल्पनाम् ।कथ्यमानां मया राजन्यथावच्छ्रोतुमर्हसि १६चत्वारि तु सहस्राणि वर्षाणां कृतमुच्यते ।तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः १७त्रेता त्रीणि सहस्राणि दिव्याब्दानां नरर्षभ ।तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः १८द्वापरं द्वे सहस्रे तु वर्षाणामभिधीयते ।तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः १९कलिः सहस्रमेकं तु दिव्याब्दानां नरर्षभ ।तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः २०कृतं नामयुगं पूर्वं यत्र धर्मः सनातनः ।कृतमेव च कर्तव्यं तस्मिन्काले नृपेप्सितम् २१न तत्र धर्माः सीदन्ति न च क्षीयन्ति वै प्रजाः ।ततः कृतयुगं नाअ गुणतः प्रोच्यते युगम् २२देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।नासन्कृतयुगे राजन्न तदा क्रयविक्रयः २३न सामयजुरृग्वर्णाः क्रिया नासीच्च मानवी ।नाभिसन्धाय च फलं कश्चिद्धर्मे प्रवर्तते २४न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः ।नासूया नापि रुदितं न दर्पो नापि पैशुनम् २५न विग्रहः कुतस्तन्द्रीन द्वेषो नापि दम्भनम् ।न भयं नापि सन्तापो न चेर्ष्या नापि मत्सरः २६ततः परमकं ब्रह्म या गतिर्योगिनां परा ।आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा २७तस्मिन्नात्मनि लोकानां सर्वलोकमयेऽच्युते ।स्वेच्छया शौक्ल्यमापन्ने सर्वं भवति निर्मलम् २८ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।कृते युगे भवन्तीह स्वकर्मनिरताः प्रजाः २९स्वमाश्रमं स्वमाचारं सम्यग्ज्ञानसमन्वितम् ।जगद्भवति राजेन्द्रसत्यप्रायं तपोरतम् ३०एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः ।पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ३१चतुराश्रमयुक्तेन कर्मणा कालयोगिना ।अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ३२आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः ।कृते युगे चतुष्पादश्चतुर्वर्ण्यस्य शाश्वतः ३३एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ।त्रेतामपि निबोध त्वं यादृग्रूपं प्रवर्तते ३४पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ।सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ३५ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः ।त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः ३६प्रचरन्ति ततो वर्णास्तपोदानपरायणाः ।स्वकर्मस्थाः क्रियावन्तः समत्वाद्रजसान्विताः ३७द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते ।विष्णुः पीतत्वमभ्येति चतुर्धा वेद एव च ३८ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे ।द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे ३९एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया ।तपोदानप्रवृत्ता च राजसी भवति प्रजा ४०अल्पायुषो नरा वेदः सुमहांश्चेति दुस्तरः ।करोति बहुधा वेदान्व्यासरूपी तदा हरिः ४१सत्त्वस्य चाप्यविज्ञानात्सत्त्वे कश्चिद्व्यवस्थितः ।सत्त्वात्प्रच्यवमानानां व्याधयो बहवोऽभवन् ४२कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः ।यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः ४३धनकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ।एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ४४पादेनैकेन राजेन्द्रधर्मः कलियुगेऽपि हि ।तामसं युगमासाद्य कृष्णो भवति केशवः ४५व्रताचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ।ईतयो व्याधयस्तन्द्रीदोषाः क्रोधादयस्तथा ।उपद्रवाश्च वर्धन्ते मनस्तापाश्च सङ्गताः ४६युगेष्वावर्तमानेषु लोको व्यावर्तते पुनः ।लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः ।युगद्वयकृतान्धर्मान्प्रार्थना न च कुर्वते ४७एतत्कलियुगं भूप यत्र जातोऽसि पार्थिव ।नात्रावतारं कुरुते कृष्णांशेन स्वरूपिणा ४८कृतादिषु जगत्पाति दैत्येभ्यो रूपधृद्धरिः ।कलौ त्वन्यं समाविश्य पूर्वोत्पन्नं बिभर्ति तम् ४९प्रत्यग्ररूपधृग्देवो दृश्यते न कलौ हरिः ।कृतादिष्वेव तेनैष त्रियुगः परिपठ्यते ५०कलेरन्ते च सम्प्राप्ते कल्किनं ब्रह्मवादिनम् ।अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम् ५१पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः ।कृत्वा प्रवेशं कुरुते यदभिप्रेतमच्युतः ५२स्वेच्छाशुक्ले जगच्छुक्लं रक्ते रक्तं च जायते ।पीते च पीततामस्मिन्कृष्णे चात्रासितं नृप ५३एष एव जगद्देवो जगत्स्रष्टा जगद्गुरुः ।यद्रूप एव देवोऽयं तद्रूपं जायते जगत् ५४इति विष्णुधर्मेषु चतुर्युगावस्था । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP