संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ७७

विष्णुधर्माः - अध्याय ७७

विष्णुधर्माः


अथ सप्तसप्ततितमोऽध्यायः ।
शौनक उवाच ।
सपर्वतवनामुर्वीं दृष्ट्वा सङ्क्षुभितां बलिः ।
पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः १

आचार्य क्षोभमायाति साब्धिभूभृद्धरा मही ।
कस्माच्च नासुरान्भागान्प्रतिगृह्णन्ति वह्नयः २

इति पृष्टोऽथ बलिना काव्यो वेदविदां वरः ।
उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ३

अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः ।
वामनेनेह रूपेण परमात्मा सनातनः ४

स नूनं यज्ञमायाति तव दानवपुङ्गव ।
तत्पदन्यासविक्षोभादियं प्रचलिता मही ५

कम्पन्ते गिरयश्चामी क्षुभिता मकरालयाः ।
नैनं भूतपतिं भूमिः समर्था वोढुमीश्वरम् ६

सदेवासुरगन्धर्वयक्षराक्षसपन्नगा ।
अनेनैव धृता भूमिरापोऽग्निः पवनो नभः ।
धारयत्यखिलान्देवमनुष्यादीन्महासुर ७

इयमस्य जगद्धातुर्माया कृष्णस्य गह्वरी ।
धार्यधारकभावेन यया सम्पिण्डितं जगत् ८

तत्सन्निधानादसुरा न भागार्हाः सुरद्विषः ।
भुञ्जते चासुरान्भागानमी ते न तवाग्नयः ९

बलिरुवाच ।
शुक्रस्य वचनं श्रुत्वा हृष्टरोमाब्रवीद्बलिः ।
धन्योऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम् ।
यज्ञमभ्यागतो ब्रह्मन्मत्तः कोऽन्योऽधिकः पुमान् १०

यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम् ।
द्रष्टुमिच्छन्ति देवोऽसौ मदध्वरमुपैष्यति ११

होता भागप्रदो यस्य यमुद्गाता च गायति ।
तमध्वरेश्वरं विष्णुं मत्तः कोऽन्य उपैष्यति १२

सर्वेश्वरेश्वरे विष्णौ ममाध्वरमुपागते ।
यन्मया चार्य कर्तव्यं तन्ममादेष्टुमर्हसि १३

शुक्र उवाच ।
यज्ञभागभुजो देवा वेदप्रामाण्यतोऽसुर ।
त्वया तु दानवा दैत्या यज्ञभागभुजः कृताः १४

अयं च देवः सत्त्वस्थः करोति स्थितिपालनम् ।
निसृष्टेश्चायमन्ते च स्वयमत्ति प्रजाः प्रभुः १५

त्वयानुबन्धी भविता नूनं विष्णुः स्थितौ स्थितः ।
विदित्वैतन्महाभाग कुरु यत्ते मनोगतम् १६

त्वयास्य दैत्याधिपते स्वल्पकेऽपि हि वस्तुनि ।
प्रतिज्ञा नैव वोढव्या वाच्यं साम तथाफलम् १७

कृतकृत्यस्य देवस्य देवार्थं चैव कुर्वतः ।
नालं दातुं धनं देवेत्येवं वाच्यं तु याचतः ।
कृष्णस्य देवभूत्यर्थं प्रवृत्तस्य महासुर १८

बलिरुवाच ।
ब्रह्मन्कथमहं ब्रूयामन्येनापि हि याचितः ।
नास्तीति किमु देवेन संसाराघौघहारिणा १९

व्रतोपवासैर्विविधैर्यः प्रतिग्राह्यते हरिः ।
स चेद्वक्ष्यति देहीति गोविन्दः किमतोऽधिकम् २०

यदर्थमुपहाराढ्या दमशौचगुणान्वितैः ।
यज्ञाः क्रियन्ते देवेशः स मां देहीति वक्ष्यति २१

तत्साधु सुकृतं कर्म तपः सुचरितं च नः ।
यन्मया दत्तमीशेशः स्वयमादास्यते हरिः २२

नास्तीत्यहं गुरो वक्ष्ये तमप्यागतमीश्वरम् ।
यदि तद्वञ्च्यते प्राप्ते नूनमस्मद्विधः फलैः २३

यज्ञेऽस्मिन्यदि यज्ञेशो याचते मां जनार्दनः ।
निजमूर्धानमप्यद्य तद्दास्याम्यविचारितम् २४

नास्तीति यन्मया नोक्तमन्येषामपि याचताम् ।
वक्ष्यामि कथमायाते तदनभ्यस्तमच्युते २५

श्लाघ्य एव हि धीराणां दानादापत्समागमः ।
नाबाधाकारि यद्दानं तदङ्गमलवत्कथम् २६

मद्राज्ये नासुखी कश्चिन्न दरिद्रोन चातुरः ।
नातृषितो न चोद्विग्नो न स्रगादिविवर्जितः २७

हृष्टतुष्टः सुगन्धी च तृप्तः सर्वसुखान्वितः ।
जनः सर्वो महाभाग किमुताहं सदा सुखी २८

एतद्विशिष्टपात्रोत्थं दानबीजफलं मम ।
विदितं भृगुशार्दूल मयैतत्त्वत्प्रसादतः २१

एतद्विजानतो दानबीजं पतति चेद्गुरो ।
जनार्दने महापात्रे किं न प्राप्तं ततो मया ३०

मत्तो दानमवाप्येशो यदि पुष्णाति देवताः ।
उपभोगान्वयगुणं दानं श्लाघ्यतरं ततः ३१

मत्प्रसादपरो नूनं यज्ञेनाराधितो हरिः ।
तेनाभ्येति न सन्देहो दर्शनादुपकारकृत् ३२

अथ कोपेन वाभ्येति देवभागोपरोधिनम् ।
मां निहन्तुमतोऽपि स्याद्वधः श्लाघ्यतरोऽच्युतात् ३३

यन्मयं सर्वमेवेदं नाप्राप्य यस्य विद्यते ।
स मां याचितुमभ्येति नानुग्रहमृते हरिः ३४

यः सृजत्यात्मभूः सर्वं चेतसैवापहन्ति च ।
स मां हन्तुं हृषीकेशः कथं यत्नं करिष्यति ३५

एतद्विदित्वा तु गुरो दानविघ्नपरेण मे ।
नैव भाव्यं जगन्नाथे गोविन्दे समुपस्थिते ३६

शौनक उवाच ।
इत्येवं वदतस्तस्य प्राप्तस्तत्र जगपतिः ।
सर्वदेवमयोऽचिन्त्यो मायावामनरूपधृक् ३७

तं दृष्ट्वा यज्ञवाटान्तःप्रविष्टमसुराः प्रभुम् ।
जग्मुः प्रभावतः क्षोभं तेजसा तस्य निष्प्रभाः ३८

जेपुश्च मुनयस्तत्र ये समेता महाध्वरे ।
बलिश्चैवाखिलं जन्म मेने सफलमात्मनः ३९

ततः सङ्क्षोभमापन्नो न कश्चित्किञ्चिदुक्तवान् ।
प्रत्येको देवदेवेशं पूजयामास चेतसा ४०

अथासुरपतिं प्रह्वं दृष्ट्वा मुनिवरांश्च तान् ।
देवदेवपतिः साक्षाद्विष्णुर्वामनरूपधृक् ४१

तुष्टाव यज्ञं वह्निंश्च यजमानमथ र्त्विजः ।
यज्ञकराधिकारस्थान्सदस्यान्द्रव्यसम्पदम् ४२

ततः प्रसन्नमखिलं वामनं प्रति तत्क्षणात् ।
यज्ञवाटस्थितं वीरं साधु साध्वित्युदीरयन् ४३

स चार्घमादाय बलिः प्रोद्भूतपुलकस्तदा ।
पूजयामास गोविन्दं प्राह चेदं वचोऽसुरः ४४

बलिरुवाच ।
सुवर्णरत्नसङ्घातं गजाश्वममितं तथा ।
स्त्रियो वस्त्राण्यलङ्कारान्गावो ग्रामांश्च पुष्कलान् ४५

सर्वस्वं सकलामुर्वीं भवतो वा यदीप्सितम् ।
तद्ददामि वृणुष्व त्वं ममार्थी सततं प्रियः ४६

इत्युक्तो दैत्यपतिना प्रीतिगर्वान्वितं वचः ।
प्राह सस्मितगम्भीरं भगवान्वामनाकृतिः ४७

ममाग्निशरणार्थाय देहि राजन्पदत्रयम् ।
सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ४८

बलिरुवाच ।
त्रिभिः प्रयोजनं किं ते पदैः पदवतां वर ।
शतं शतसहस्रं वा पदानां मार्गतां भवान् ४९

वामन उवाच ।
एतावता दैत्यपते कृतकृत्योऽस्मि मार्गताम् ।
अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ५०

एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः ।
वाचयामास तत्तस्मै वामनाय पदत्रयम् ५१

पाणौ तु पतिते तोये वामनो भूतभावनः ।
सर्वदेवमयं रूपं दर्शयामास तत्क्षणात् ५२

चन्द्रसूर्यौ च नयने द्यौः शिरश्चरणौ क्षितिः ।
पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ५३

विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।
यक्षा नखेषु सम्भूता रेखास्वप्सरसः स्थिताः ५४

दृष्टिर्धिष्णान्यशेषाणि केशाः सूर्यांशवः प्रभो ।
तारका रोमकूपाणि रोमाणि च महर्षयः ५५

बाहवो विदिशस्तस्य दिशः श्रोत्रं महात्मनः ।
अश्विनौ श्रवणौ तस्य नासा वायुर्महाबलः ५६

प्रसादश्चन्द्रमा देवो मनो धर्मः समाश्रितः ।
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ५७

ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्तथा ।
स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ५८

मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।
हृदयं च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ५९

पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु ।
सर्वसूक्तानि दशना ज्योतींषि विमलप्रभाः ६०

वक्षःस्थले तथा रुद्रोधैर्ये चास्य महार्णवः ।
उदरे चास्य गन्धर्वा मरुतश्च महाबलाः ।
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ६१

सर्वज्योतींषि यानीह तपश्च परमं महत् ।
तस्य देवातिदेवस्य तेजः प्रोद्भूतमुत्तमम् ६२

स्तनौ कुक्षौ च वेदाश्च जानू चास्य महामखाः ।
इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ६३

तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महाबलाः ।
उपसर्पन्ति दैतेयाः पतङ्गा इव पावकम् ६४

प्रमथ्य सर्वानसुरान्पादहस्ततलैर्विभुः ।
कृत्वा रूपं महाकायं स जहाराशु मेदिनीम् ६५

तस्य विक्रमतो भुमिं चन्द्रादित्यौ स्तनान्तरे ।
नभो विक्रममाणस्य सक्थिदेशे स्थितावुभौ ६६

परं विक्रममाणस्य जानुमूले प्रभाकरौ ।
विष्णोरास्तां महीपाल देवपालनकर्मणि ६७

जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् ।
पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ६८

सुतलं नाम पातालमधस्ताद्वसुधातलात् ।
बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ६९

अथ दैत्येश्वरं प्राह विष्णुः सर्वेश्वरेश्वरः ७०

यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया ।
कल्पप्रमाणं तस्मात्ते भविष्यत्यायुरुत्तमम् ७१

वैवस्वते तथातीते बले मन्वन्तरे ततः ।
सावर्णके च सम्प्राप्ते भवानिन्द्रोभविष्यति ७२

साम्प्रतं देवराजाय त्रैलोक्यमखिलं मया ।
दत्तं चतुर्युगानां वै साधिका ह्येकसप्ततिः ७३

नियन्तव्या मया सर्वे ये तस्य परिपन्थिनः ।
तेनाहं परया भक्त्या पूर्वमाराधितो बले ७४

सुतलं नाम पातालं तमासाद्य मनोरमम् ।
वसासुर ममादेशं यथावत्परिपालयन् ७५

तत्र दिव्यवनोपेते प्रासादशतसङ्कुले ।
प्रोत्फुल्लपद्मसरसि स्रवच्छुद्धसरिद्वरे ७६

सुगन्धिधूपसम्बाधे वराभरणभूषितः ।
स्रक्चन्दनादिदिग्धाङ्गो नृत्यगीतमनोरमैः ७७

उपभुञ्जन्महाभोगान्विविधान्दानवेश्वर ।
ममाज्ञया कालमिमं तिष्ठ स्त्रीशतसंवृतः ७८

यावत्सुरैश्च विप्रैश्च न विरोधं करिष्यसि ।
तावदेतान्महाभोगानवाप्स्यस्यसुरोत्तम ७९

यदा च देवविप्राणां विरुद्धान्याचरिष्यसि ।
बन्धिष्यन्ति तथा पाशा वारुणास्त्वामसंशयम् ८०

एतद्विदित्वा भवता मयाज्ञप्तमशेषतः ।
न विरोधः सुरैः कार्यो विप्रैर्वा दैत्यसत्तम ८१

इत्येवमुक्तो देवेन विष्णुना प्रभविष्णुना ।
बलिः प्राह महाराज प्रणिपत्य कृताञ्जलिः ८२

बलिरुवाच ।
तत्रासतो मे पाताले भगवन्भवदाज्ञया ।
किं भविष्यत्युपादानमुपभोगोपपादकम् ८३

भगवानुवाच ।
आप्यायितो येन देव स्मरेयं त्वामहं सदा ।
दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च ।
हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ८४

अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः ।
फलानि तव दास्यन्ति अधीतान्यव्रतानि च ८५

शौनक उवाच ।
बलेर्वरमिदं दत्त्वा शक्राय त्रिविदं तथा ।
व्यापिना तेन रूपेण जगामादर्शनं हरिः ८६

शशास च यथा पूर्वमिन्द्रस्त्रैलोक्यमूर्जितम् ।
सिषेव च परान्कामान्बलिः पातालमाश्रितः ८७

इत्येतद्देवदेवस्य विष्णोर्माहात्म्यमुत्तमम् ।
वामनस्य पठेद्यस्तु सर्वपापैः प्रमुच्यते ८८

बलिप्रह्लादसंवादं मन्त्रितं बलिशुक्रयोः ।
बलिविष्ण्वोश्च कथितं यः स्मरिष्यति मानवः ८९

नाधयो व्याधयो वास्य न च मोहाकुलं मनः ।
भविष्यति कुरुश्रेष्ठ पुंसस्तस्य कदाचन ९०

च्युतराज्यो निजं राज्यमिष्टप्राप्तिं वियोगवान् ।
अवाप्नोति महाभाग नरः श्रुत्वा कथामिमाम् ९१

इति विष्णुधर्मेषु बलिवञ्चनम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP