संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय २ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय २ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय २ Translation - भाषांतर N/Aअथ द्वितीयोऽध्यायः ।शौनक उवाच ।श्रूयतां कुरुशार्दूल संवादोऽयमनुत्तमः ।अम्बरीषस्य राजर्षेः सह देवेन चक्रिणा १अम्बरीषो महीपालः पालयन्नेव मेदिनीम् ।उद्विग्न एव द्वन्द्वान्तमभीप्सुः पुरुषर्षभः २देवदेवात्स गोविन्दादभीप्सुर्द्वन्द्वसङ्क्षयम् ।तपस्तेपे निराहारो गृणन्ब्रह्म सनातनम् ३तस्य कालेन महता भक्तिमुद्वहतः पराम् ।तुतोष भगवान्विष्णुः सर्वलोकपतिः प्रभुः ४स रूपमैन्द्रमास्थाय तमुवाच महीपतिम् ।मेघगम्भीरनिर्घोषो वारणेन्द्रगतिस्तदा ५देवदेव उवाच ।राजर्षे वद यत्कार्यं तव चेतस्यवस्थितम् ।वरदोऽहमनुप्राप्तो वरय सुव्रत ६एवमुक्तस्ततो राजा विलोक्य च पुरन्दरं ।प्रत्युवाचार्घ्यमुद्यम्य स्वागतं तेऽस्त्विति प्रभो ७नाहमाराधयामि त्वां तव बद्धोऽयमञ्जलिः ।वरार्थिनां त्वं वरदः प्रयच्छाभिमतान्वरान् ८देवदेव उवाच ।वरार्थाय त्वयान्यैश्च क्रियते नृपते तपः ।स किमर्थं त्वमस्मत्तो न गृह्णास्यभिवाञ्छितम् ९राजोवाच ।न वरार्थमयं यत्नस्त्वत्तो देवपते मम ।विष्णोराराधनार्थाय विद्धि मां त्वं कृतोद्यमम् १०देवदेव उवाच ।अहं हि सर्वदेवानां त्रैलोक्यस्य तथेश्वरः ।पालयन्ति ममैवाज्ञामादित्याद्याः सदा सुराः ११आदित्या वसवो रुद्रानासत्यौ मरुतां गणाः ।प्रजानां पतयः साध्या विश्वेदेवा महर्षयः १२कुर्वन्त्येते ममैवाज्ञां सिद्धगन्धर्वपन्नगाः ।मत्तो हि कोऽन्यो वरदः प्रतिगृह्णीष्व वाञ्छितम् १३राजोवाच ।त्वमिन्द्रः! सत्यमेवैतद्देवस्त्रिभुवनेश्वरः ।त्वयापि प्राप्तमैश्वर्यं यतस्तं तोषयाम्यहम् १४त्रैलोक्यं तव देवेश वशे यस्य महात्मनः ।सप्तोदरे शया लोकास्तमीशं तोषयाम्यहम् १५यस्य त्वममरैः सर्वैः समवेताः सुरेश्वर ।देहप्राप्तोऽन्तरस्थो वै तं नमामि जनार्दनम् १६निमेषो ब्रह्मणो रात्रिरुन्मेषो यस्य वासरः ।तमीड्यमीशमजरं प्रणतोऽस्मि जनार्दनम् १७यो हर्ता जगतो देवः कर्ता पालायिता च यः ।त्रयस्यास्य च यो योनिस्तं विष्णुं तोषयाम्यहम् १८हिरण्यकशिपुः पूर्वं हिरण्याक्षश्च ते रिपुः ।तवानुकम्पया येन हतौ दैत्यौ नतोऽस्मि तम् १९बलिनापहृतं शक्र दत्तं येन पुरा तव ।त्रैलोक्यराज्यं तं बद्ध्वा तं नमामि जनार्दनम् २०प्रसीद शक्र गच्छ त्वमहमप्यत्र संस्थितः ।तपस्तप्स्ये जगन्नाथं द्रष्टुं नारायणं हरिम् २१शौनक उवाच ।एवमुक्तस्ततस्तेन शक्ररूपी जनादनः ।पुनरप्याह तं कोपात्पार्थिवं तपसि स्थितम् २२यदि मद्वचनादद्य न भवांस्त्यक्ष्यते तपः ।वज्रं ते प्रहरिष्यामि बुध्यस्वैतद्यदीच्छसि २३राजोवाच ।नाप्यल्पमपराधं ते करोमि त्रिदशेश्वर ।तथापि वधयोग्यं मां मन्यसे चेत्क्षिपायुधम् २४श्रूयते किल गोविन्दे भक्तिमुद्वहतां नृणाम् ।संसारार्णावभीतानां त्रिदशाः परिपन्थिनः २५तापसोऽहं क्व निःसङ्गः क्व च कोपस्तवेदृशः ।विज्ञातमेतद्गोविन्दभक्तिविघ्नोपपादितम् २६भवन्ति बहवो विघ्ना नरे श्रेयःपरायणे ।गोविन्दभक्त्यभ्यधिकं श्रेयश्चान्यन्न विद्यते २७स त्वं प्रहर वा मा वा मयि वज्रं पुरन्दर ।नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः २८न चापि वज्रं वज्री वा त्वं च नान्ये सुरासुराः ।शक्ता निहन्तुमीशाने हृदयस्थे जनार्दने २९किं च नो बहुनोक्तेन नाहं वक्ष्याम्यतः परं ।यथेप्सितं कुरुष्व त्वं करिष्येऽहमभीप्सितम् ३०शौनक उवाच ।एवमुक्त्वा सुरपतिं पार्थिवः स पुनस्तपः ।चचार मौनमास्थाय तेनातुष्यत केशवः ३१सन्दर्शयामास ततः स्वं वपुः कैटभार्दनः ।चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् ३२किरीटस्रग्धरं स्पष्टं नीलोत्पलदलच्छविम् ।ऐरावतश्च गरुडस्तत्क्षणात्समदृश्यत ३३स च राजवरो देवं पीतवाससमच्युतम् ।विलोक्य भक्तिशिरसा सहसैव महीं ययौ ३४प्रत्युवाच च भूपालः प्रणिपत्य कृताञ्जलिः ।रोमाञ्चिततनुः स्तोत्रं पद्मनाभं ततोऽस्तुवत् ३५राजोवाच ।आदिदेव जयाजेय जय सर्गादिकारक ।जयास्पष्टप्रकाशाण्ड बृहन्मूर्ते जयाक्षर ३६जय सर्वगताचिन्त्य जय जन्मजरापह ।जय व्यापिञ्जयाभेद सर्वभूतेष्ववस्थित ३७जय यज्ञपते नाथ हव्यकव्याशनाव्यय ।जय विज्ञातसिद्धान्त मायामोहक केशव ३८लोकस्थित्यर्थमनघ वराह जय भूधर ।नृसिंह जय देवारिवक्षःस्थलविदारण ३९देवानामरिभीतानामार्तिनाशन वामन ।जय क्रान्तसमस्तोर्वीनभःस्वर्लोकभावन ४०जितं ते जगतामीश जितं ते सर्व सर्वद ।जितं ते सर्वभूतेश योगिध्येय नमोऽस्तु ते ४१नमोऽस्त्वव्यपदेश्याय नमः सूक्ष्मस्वरूपिणे ।नमस्त्रिमूर्तये तुभ्यं विश्वमूर्ते नमोऽस्तु ते ४२ब्रह्माद्यैश्चिन्त्यते रूपं यत्तत्सदसतः परं ।विशेषैरविशेष्याय तस्मै तुभ्यं नमो नमः ४३पुरुषाख्यं ततो रूपं निर्गुणं गुणभोक्तृ च ।प्रकृतेः परतः सूक्ष्मं तन्नमस्यामि ते हरे ४४अव्यक्तादिविशेषान्तमतिसूक्ष्मतमं महत् ।प्राकृतं तव तद्रूपं तस्मै देव नमाम्यहम् ४५रूपैर्नानाविधैर्यश्च तद्रूपान्तरगोचरम् ।लीलया व्यवहारस्ते तस्मै देवात्मने नमः ४६प्रसीद विष्णो गोविन्द शङ्खचक्रगदाधर ।धराधरारविन्दाक्ष वासुदेव महेश्वर ४७शौनक उवाच ।इत्थं स्तुतो जगन्नाथः प्रोक्तवानिति केशवः ।अम्बरीषं पृथिवीशं जगत्सन्नादयन्गिरा ४८देवदेव उवाच ।अम्बरीष प्रसन्नोऽस्मि भक्त्या स्तोत्रेण चानघ ।वरं वृणीष्व धर्मज्ञ यत्ते मनसि वर्तते ४९राजोवाच ।एष एव वरः श्लाघ्यो यद्दृष्टोऽसि जगत्पते ।त्वद्दर्शनमपुण्यानां स्वप्नेष्वपि हि दुर्लभम् ५०बाल्यात्प्रभृति या देव त्वयि भक्तिर्ममाच्युत ।वेत्ति तां भगवानेव हृदिस्थः सर्वदेहिनाम् ५१त्वत्प्रसादान्ममेशान राज्यमव्याहतं भुवि ।कोशदण्डौ तथातीव शरीरारोग्यमुत्तमम् ५२स्त्रियोऽन्नपानसामर्थ्या हानिः स्वल्पापि नास्ति मे ।बलं नागसहस्रस्य धारयाम्यरिसूदन ५३सन्ततिर्निभृता भृत्या सानुरागाश्च मे जनाः ।धर्महानिश्च देवेश न हि मे पालने भुवः ५४यद्यदिच्छाम्यहं तत्तत्सर्वमस्ति जगत्पते ।एतेनैवानुमानेन प्रसन्नो भगवानिति ५५ज्ञातं मया हि गोविन्दे नाप्रसन्ने विभूतयः ।एवं सर्वसुखाह्लादमध्यस्थोऽपि च केशव ५६पुनरावृत्तिदुःखानां त्रासादुद्विग्नमानसः ।मयि प्रसादाभिमुखं मनस्ते यदि केशव ।तन्मामगाधे संसारे मग्नमुद्धर्तुमर्हसि ५७सुखानि तानि नैवान्ते येषां दुःखं न तत्सुखम् ।यदन्ते दुःखमागामि किम्पाकस्यैव भक्षणम् ५८स प्रसादं कुरु गुरो जगतां त्वं जनार्दन ।ज्ञानदानेन येनेमां वागुरान्निस्तरेमहि ५९शौनक उवाच ।इत्युक्तस्तस्य गोविन्दः कथयामास योगवित् ।योगं निर्बीजमत्यन्तदुःखसंयोगभेषजम् ६०उपदिष्टे ततो योगे प्रणिपत्याच्युतं नृपः ।पुनः प्राह महाबाहुर्विनयावनतः स्थितः ६१राजोवाच ।देवदेव त्वया योगो यः प्रोक्तो मधुसूदन ।नैष प्राप्यो मया नान्यैर्मानवैरजितेन्द्रियैः ६२विषया दुर्जयाः पुम्भिरिन्द्रियाकर्षिणः सदा ।इन्द्रियाणां जयं तेषु कः शक्तानां करिष्यति ६३अहं ममेति चाख्याति दुर्जयं चञ्चलं मनः ।रागादयः कथं जेतुं शक्या जन्मान्तरैरपि ६४सोऽहमिच्छामि देवेश त्वत्प्रसादादनिर्जितैः ।रागादिभिरमर्त्यत्वं प्राप्तुं प्रक्षीणकल्मषः ६५देवदेव उवाच ।यद्येवं मुक्तिकामस्त्वं नरनाथ शृणुष्व तत् ।क्रियायोगं समस्तानां क्लेशानां हानिकारकम् ६६मन्मना भव मद्भक्तो मद्याजीमां नमस्कुरु ।मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ६७मद्भावना मद्यजना मद्भक्ता मत्परायणाः ।मम पूजापराश्चैव मयि यान्ति लयं नराः ६८सर्वभूतेषु मां पश्य समवस्थितमीश्वरम् ।कर्तासि केन वैरत्वं एवं दोषान्प्रहास्यसि ६९जङ्गमाजङ्गमे ज्ञाते मय्यात्मनि तथा तव ।रागलोभादिनाशेन भवित्री कृतकृत्यता ७०भक्त्यातिप्रवणस्यापि चञ्चलत्वान्मनो यदि ।मय्यनासादवद्भूप कुरु मद्रूपिणीं तनुम् ७१सुवर्णरजताद्यैस्त्वं शैलमृद्दारुलेखजाम् ।पूजामहर्हैर्विविधैः सम्पूजय च पार्थिव ७२तस्यां चित्तं समावेश्य त्याजयान्यान्व्यपाश्रयान् ।पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ७३गच्छंस्तिष्ठन्स्वपन्भुञ्जंस्तामेवाग्रे च पृष्ठतः ।उपर्यधस्तथा पार्श्वे चिन्तयान्तस्तथात्मनः ७४स्नानैस्तीर्थोदकैर्हृद्यैः पुष्पगन्धानुलेपनैः ।वासोभिर्भूषणैर्भक्ष्यैर्गीतवाद्यैर्मनोहरैः ७५यच्च यच्च नृपेष्टं ते किञ्चिद्भोज्यादि तेन ताम् ।भक्तिनम्रो नरश्रेष्ठ प्रीणयार्चां कृतां मम ७६रागेणाकृष्यते चेतो गन्धर्वाभिमुखं यदि ।मयि बुद्धिं समावेश्य गायेथा मम तां कथाम् ७७कथायां रमते चेतो यदि तद्भावना मम ।श्रोतव्या प्रीतियुक्तेन अवतारेषु या कथा ७८एवं मय्यर्पितमनाश्चेतसो ये व्यपाश्रयाः ।हेयास्तानखिलान्भूप परित्यक्ष्यस्यभीर्भव ७९अक्षीणरागदोषोऽपि मत्क्रिया परमः परम् ।पदमाप्स्यसि मा भैस्त्वं मय्यर्पितमना भव ८०मयि सन्न्यस्य सर्वं त्वमात्मानं यत्तवास्ति च ।मदर्थं कुरु कर्माणि मा च धर्मव्यतिक्रमम् ८१राज्यं कुरु नरश्रेष्ठ निवेद्य पृथिवीं मम ।तद्व्याघातपरा ये च जहि तानवनीपते ८२एतेनैवोपदेशेन व्याख्यातमखिलं तव ।क्रियायोगं समास्थाय मय्यर्पितमना भव ८३राजोवाच ।मद्धिताय जगन्नाथ क्रियायोगाश्रितं मम ।विस्तरेणेदमाख्याहि प्रसन्नस्त्वं हि दुःखहा ८४त्वामृतेन हि नो वक्तुं समर्थोऽन्यो जगद्गुरो ।गुह्यमेतत्पवित्रं च तदाचक्ष्य प्रसीद मे ८५देवदेव उवाच ।आख्यास्यत्येतदखिलं वसिष्ठस्ते पुरोहितः ।मत्प्रसादादविकलं स च वेत्स्यत्यशेषतः ८६इत्युक्त्वान्तर्दधे देवः सर्वलोकेश्वरो हरिः ।स च राजा वनाद्भूयो निजमभ्यागमत्पुरम् ८७इति विष्णुधर्मेष्वच्युताम्बरीषसंवादः । N/A References : N/A Last Updated : February 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP