विष्णुधर्माः - अध्याय ६५
विष्णुधर्माः
अथ पञ्चषष्टितमोऽध्यायः ।
शौनक उवाच ।
भूयश्च शृणु राजेन्द्रजनकेन महात्मना ।
यद्गीतं वहता भक्तिं ज्ञानमासाद्य केशवे १
सर्वत्र समदृष्टिं तं जनकं मिथिलेश्वरम् ।
पश्यन्तमच्युतमयं सर्वं च सचराचरम् २
द्विजरूपं समास्थाय देवदेवो जनार्दनः ।
उपतस्थे महाभागं प्रत्युवाच च पार्थिवम् ३
देव उवाच ।
राजञ्जनक भद्रंते यद्ब्रवीमि निबोध तत् ।
कुरुष्व च महाबुद्धे यदि साधु मतं तव ४
पृथिवीं पृथिवीपालः पालयित्वा पिता तव ।
स्वर्गं गतस्तथा भ्राता सम्यक् सत्यध्वजो नृपः ५
त्वं पुनर्निरभीमानः सर्वत्र समदर्शनः ।
रिपुमित्रादिवर्गेषु कथमेतद्भविष्यति ६
मित्रेषु मित्रवन्न त्वं नाहितेष्वरिवद्भवान् ।
मध्यस्थभाग्न चैव त्वं तथोदासीनवृत्तिषु ७
शब्दादयो ये विशयास्ते वैराग्यफला नृप ।
नीत्या विहीनस्तु भवान्कथं राज्यं करिष्यति ८
सर्वैर्नीतिं समास्थाय यथा ते प्रपितामहैः ।
कृतं राज्यं तथा भूप कुरु मातिजडो भव ९
तव प्रज्ञा मता ह्येषा मम मोहो महीपते ।
त्रिवर्गसाधनं प्रज्ञा न धर्मादिविरोधिनी १०
जनक उवाच ।
सम्यगाह भवान्विप्र वाच्यमेवं भवद्विधैः ।
ममापि श्रूयतां वाक्यं भवतो यदि रोचते ११
यदा सर्वगतो विष्णुः परमात्मा प्रजापतिः ।
तदा मित्रादिमध्यस्थसञ्ज्ञा केषु निपात्यताम् १२
पिता माता तथा भ्राता यदा नान्यज्जनार्दनात् ।
पितृमातृमयीं सञ्ज्ञां तदा कुत्र करोम्यहम् १३
सोऽहं ब्रवीमि यद्वाक्यं तन्निबोध द्विजोत्तम ।
अनेकरूपरूपोऽयं विष्णुरेवाखिलं जगत् १४
विष्णुः पिता मे जगतः प्रतिष्ठा विष्णुर्माता विष्णुरेवाग्रजो मे ।
विष्णुर्गतिर्विष्णुमयस्तथास्मि विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः १५
यो मे ममत्वोपगतः स विष्णुर्यश्चारिभूतो मम सोऽपि विष्णुः ।
दिवं वियद्भूः ककुभश्च विष्णुर्भूतानि विष्णुर्भुवनानि विष्णुः १६
पश्यामि विष्णुं न परं ततोऽन्यच् ।
शृणोमि विष्णुं न परं ततोऽन्यत् ।
स्पृशामि विष्णुं न परं ततोऽन्यज् ।
जिघ्रामि विष्णुं न परं ततोऽन्यत् १७
रसामि विष्णुं न परं ततोऽन्यन् ।
मन्ये च विष्णुं न परं ततोऽन्यत् ।
जिघ्रामि विष्णुं न परं ततोऽन्यच् ।
नमामि विष्णुं न परं ततोऽन्यत् ।
बुध्यामि विष्णुं न परं ततोऽन्यत् ।
सर्वं हि विष्णुर्न परं ततोऽन्यत् १८
विष्णुः समस्तं न परं ततोऽस्ति ।
विष्णुः समस्तं न परं च देवः ।
विष्णुः स्थारीयान्न परं ततोऽस्ति ।
विष्णुर्लघीयान्न परं ततोऽस्ति ।
विष्णुर्गरीयान्न परं ततोऽन्यत् १९
यथा न विष्णुव्यतिरिक्तमन्यच्छृणोमि पश्यामि तथा स्पृशामि ।
सत्येन तेनोपशमं प्रयान्तु दोषा विमुक्तेः परिपन्थिनो ये २०
न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर्न भूतवर्गो न जनो मदन्यः ।
त्वं चाहं अन्ये च शरीरभेदैर्विभिन्नमीशस्य हरेः स्वरूपम् २१
मूर्तामूर्तिविशेषं तु पश्यतस्तन्मयं द्विज ।
क्रोधहर्षादयो भावाः स्थास्यन्ति हृदये कथम् २२
स त्वं प्रसीद मोहोऽयमथ चेन्मम सुव्रत ।
तथापि मा रुषं कार्षीरचिकित्स्या हि मोहिताः २३
शौनक उवाच ।
बहुरूपस्ततो रूपं शङ्खचक्रगदाधरम् ।
दर्शयामास सुप्रीतो जनकाय जनार्दनः २४
ततस्तद्दर्शनाद्भूपं शिरसा प्रणतं प्रभुः ।
आद्यः प्रजापतिपतिः प्रत्युवाचाच्युतो हरिः २५
वरं वरय भूपाल परितुष्टोऽस्मि तेऽनघ ।
मय्यर्पितमनोबुद्धेः सदैवाहं न दुर्लभः २६
जनक उवाच ।
यदि देव प्रसन्नोऽसि सम्यगाराधितो मया ।
तद्वृणोमि वरं भक्तिस्त्वय्येवास्तु सदा मम २७
शौनक उवाच ।
एवं भविष्यतीत्युक्त्वा गतोऽन्तर्धानमीश्वरः ।
सोऽपि लेभे लयं विष्णौ भक्त्या योगिसुदुर्लभम् २८
इति कृष्णे नरव्याघ्र कुर्वन्भक्तिं नरः सदा ।
प्राप्नोति पुरुषव्याघ्र मुक्तिं चाप्यतिदुर्लभाम् २९
इति विष्णुधर्मेषु जनकगीता ।
N/A
References : N/A
Last Updated : February 22, 2024
TOP