संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५३

विष्णुधर्माः - अध्याय ५३

विष्णुधर्माः


अथ त्रिपञ्चाशोऽध्यायः ।
भगवानुवाच ।
दानं देवाः प्रशंसन्ति इति धर्मविदो विदुः ।
नानादानविधिं तस्माच्छृणुष्व सुसमाहितः १

हिरण्यदानं गोदानं पृथिवीदानमेव च ।
एतानि वै पवित्राणि तारयन्ति परत्र च २

यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ३

सुवर्णदानं गोदानं पृथिवीदानमेव च ।
एतत्प्रयच्छमानो वै सर्वपाऐः प्रमुच्यते ४

यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने ।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ५

तुल्यनामानि शस्तानि त्रीणि तुल्यफलानि च ।
नित्यं देयानि राजेन्द्रगावः पृथ्वी सरस्वती ६

तद्वज्जलममित्रघ्न तत्तुल्यफलनामतः ।
दत्त्वा तृप्तिमवाप्नोति यत्रतत्राभिजायते ७

सङ्कल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते ।
अर्थिभ्यो ह्यर्थहेतुभ्यो मनस्वी तेन जायते ८

सीदते द्विजमुख्याय योऽर्थिने न प्रयच्छति ।
अमर्थे सति दुर्बुद्धिर्नरकायोपपद्यते ९

धेनवोऽनडुहश्चैव छत्त्रं वस्त्रमुपानहौ ।
देयानि याचमानेभ्यः पानमन्नं तथैव च ।
एवं दानं समुद्दिष्टं व्युष्टिमत्तारकं परम् १०

एष ते विहितो यज्ञः श्रद्धापूतः सदक्षिणः ।
विशिष्टः स च यज्ञेषु ददतामनसूयया ११

दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ।
यैर्दानैस्तर्पयिष्यन्ति श्रद्धापूतैर्द्विजोत्तमान् १२

यथा हि सुकृते क्षेत्रे फलं विन्दति क्षेत्रिकः ।
एवं दत्त्वा ब्राह्मणेभ्यो दाता फलमुपाश्नुते १३

ब्राह्मणाश्चैव विद्यन्ते सत्यवन्तो बहुश्रुताः ।
न ददाति च दानानि मोघं तस्य धनार्जनम् १४

उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं मया ।
दत्तं वा दापितं वापि वोत्साह्यमपि वा कृतम् १५

उत्थायोत्थाय दातव्यं ब्राह्मणेभ्यो युधिष्ठिर ।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति १६

यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम् ।
असङ्कीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति १७

इति विष्णुधर्मेषु दानप्रशंसा ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP