विष्णुधर्माः - अध्याय ८२
विष्णुधर्माः
N/Aअथ द्व्यशीतितमोऽध्यायः ।
प्रह्लाद उवाच ।
चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः ।
शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् १
अगायन्त च या गाथा ये पुराणविदो जनाः ।
मान्धातरि महाबाहो यौवनाश्वे समाश्रिताः २
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ३
स यौवनगतः संराट्सप्तद्वीपवतीं महीम् ।
शशास धर्मेण पुरा चक्रवर्ती महाबलः ४
नान्यायकृन्न चाशक्तो न दरिद्रोन कीकटः ।
तस्याभूत्पुरुषो राज्ये सम्यग्धर्मानुशासिनः ५
चतस्रो गतयस्तस्य यौवनाश्वस्य धीमतः ।
बभूवुरप्रतिहता हतारातिबलस्य वै ६
तस्य भक्तिरतीवाभून्निसर्गादेव भूपतेः ।
वासुदेवे जगद्धाम्नि सर्वकारणकारणे ७
तस्य र्द्धिं महिमानं च विलोक्य पृथिवीपतेः ।
न केवलं जनस्याभूत्तस्याप्यत्यन्तविस्मयः ८
स चिन्तयामास नृपः समृद्ध्या विस्मितस्तया ।
कथं स्यात्सम्पदेषा मे पुनरप्यन्यजन्मनि ९
एवं सुबहुशो राजा दैत्येन्द्रसुमहाबलः ।
चिन्तयन्नपि तन्मूलं न चासीन्निश्चयान्वितः १०
यदा न निश्चयं राजा स ययौ युवनाश्वजः ।
तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् ११
वसिष्ठप्रमुखान्वत्स विविक्तान्तःपुरस्थितः ।
प्रणिपत्य महाबाहुर्गृहीतासनसत्क्रियान् १२
यदि सानुग्रहा बुद्धिर्भवतां मयि सत्तमाः ।
तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ १३
समेत्याखिलविज्ञानं सम्यग्धौतान्तरात्मभिः ।
भवद्भिर्यद्यहं न स्यां विमलस्तन्महाद्भुतम् १४
यद्यथा तन्मया पृष्टा भवन्तो मत्प्रसाधिताः ।
वक्तुमर्हन्ति विद्वांसः सर्वस्यैवोपकारिणः १५
ब्राह्मणा ऊचुः ।
यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते ।
गदिष्यामो यथान्यायं यत्ते सांशयिकं हृदि १६
वयं हि नरशार्दूल भवता परितोषिताः ।
सम्यक् प्रजाः पालयता सप्तद्वीपे महीतले १७
सुतुष्टो ब्राह्मणोऽश्नीयाच्छिन्द्याद्वा धर्मसंशयम् ।
हितं वोपदिशेद्धर्ममहिताद्वा निवर्तयेत् १८
प्रह्लाद उवाच ।
विवक्षुमथ भूपालं भार्या तस्यैव धीमतः ।
प्रणामपूर्वमाहेदं विनयात्प्रणयान्वितम् १९
न स्त्रीणामवनीपाल वक्तुमीदृगिहेश्यते ।
तथापि भूपते वक्ष्ये सम्पदीदृक् सुदुर्लभा २०
भूयोऽपि संशयं प्रष्टुमलमीश भवानृषीन् ।
न त्वहं पुरुषव्याघ्र सदान्तःपुरचारिणी २१
स प्रसादं यदि भवान्करोति मम पार्थिव ।
तन्मदीयमृषीन्प्रष्टुं संशयं पार्थिवार्हसि २२
मन्धातोवाच ।
ब्रूहि सुभ्रु मतं यत्ते प्रष्टव्या यन्मया द्विजाः ।
भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतान्द्विजोत्तमान् २३
पत्न्युवाच ।
श्रूयन्ते पृथिवीपाल नृप ये च पुरातनाः ।
तेषां न सम्पद्भूपाल यथा तव किलाभवत् २४
तदीदृक्सम्पदां धाम त्वमशेषक्षितीश्वरः ।
येन कर्मविपाकेन तद्वदन्तु महर्षयः २५
अहं च भवतो भार्या सर्वसीमन्तिनी भुवि ।
विधिना केन तपसा नियुक्ता भवतो गृहे ।
अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् २६
तारतम्यतयेशित्वमन्येष्वपि हि विद्यते ।
निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा २७
तदन्यजन्मचरितं नरनाथ निजं भवान् ।
मुनीन्पृच्छतु या चाहं यन्मया च पुरा कृतम् २८
प्रह्लाद उवाच ।
स तथोक्तस्तया राजा पत्न्या विस्मितमानसः ।
मुनीनां पुरतो भार्यां प्रशंसन्वाक्यमब्रवीत् २९
मान्धातोवाच ।
साधु देवि मतं यन्मे त्वया तदिदमीरितम् ।
सत्यं मुनिवचः पुंसामर्धं वै गृहिणी यथा ३०
ममाप्येतदभिप्रेतमिमान्प्रष्टुं महामुनीन् ।
यत्त्वयाभिहितं भद्रेमत्स्वभावानुयातया ३१
सोऽहमेतन्महाभागे प्रक्ष्याम्येतान्महामुनीन् ।
नैषामविदितं किञ्चित्त्रिषु लोकेषु विद्यते ३२
प्रह्लाद उवाच ।
एवमुक्त्वा प्रियां भार्यां प्रणिपत्य च तानृषीन् ।
यथावदेतदखिलं पप्रच्छासुरसत्तम ३३
राजोवाच ।
भगवन्तो ममाशेषं प्रसादाहृतचेतसः ।
कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् ३४
कोऽहमासं पुरा विप्राः किं च कर्म मया कृतम् ।
किं वानया सुचार्वङ्ग्या मम पत्न्या कृतं द्विजाः ३५
येनावयोरियं स्फीतिर्मर्त्यलोके सुदुर्लभा ।
चत्वारश्चाप्रतिहता गतयो मम गच्छतः ३६
अशेषा भूभृतो वश्याः कोशस्यान्तो न विद्यते ।
बलं चैवाप्रतिहतं शरीरारोग्यमुत्तमम् ३७
अतिभाति च मे कान्त्या भार्येयमखिलं जगत् ।
ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ३८
सोऽहमिच्छामि विज्ञातुं तथैवेयमनिन्दिता ।
निजानुष्ठानमखिलं यस्याशेषमिदं फलम् ३९
प्रह्लाद उवाच ।
इति प्रष्टा नरेन्द्रेण समस्तास्ते तपोधनाः ।
वसिष्ठं चोदयामासुः कथ्यतामिति भूभृतः ४०
चोदितः सोऽपि धर्मज्ञैर्मैत्रावरुणिरात्मवान् ।
योगमास्थाय सुचिरं यथावद्यतमानसः ।
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् ४१
स तमाह मुनिर्भूपं विदितार्थो महासुर ।
मान्धातारं महाबुद्धिं सपत्नीकमिदं वचः ४२
वसिष्ठ उवाच ।
शृणु भूपाल सकलं यस्येदं कर्मणः फलम् ।
तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते ४३
त्वमासीः शूद्रजातीयः परहिंसापरायणः ।
वाक्क्रूरो दण्डपारुष्यो निःस्नेहः सर्वजन्तुषु ४४
तथेयं भवतो भार्या पूर्वमप्यायतेक्षणा ।
द्वेष्या बभूव तच्चित्ता तव शुश्रूषणे रता ४५
पतिव्रता महाभागा भर्त्स्यमानाप्यनिष्ठुरा ।
त्वद्वाक्यादनु सर्वेषु वीरकर्मसु चोद्यता ४६
नैष्ठुर्यादसहायस्य त्यज्यमानस्य बन्धुभिः ।
क्षयं जगाम योऽर्थोऽभूत्सञ्चितः प्रपितामहैः ४७
तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते ।
सापि कर्मविपाकेन कृषिर्विफलतां गता ४८
ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम् ।
तत्याज साध्वी वेयं त्वां त्यज्यमानापि पार्थिव ४९
अनया च समं साध्व्या विष्णोरावसथे त्वया ।
कृतं शुश्रूषणं वीर परिव्राड्ब्रह्मचारिणाम् ५०
भग्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः ।
अनन्यगतिरेकस्थस्तस्मिन्नायतने हरेः ५१
तद्वृत्तिलिप्सुः शुश्रूषां जनरञ्जनहेतुकः ।
कृतवान्योगिनां वीर कृष्णस्य जगतः पतेः ५२
वासुदेवाजिरे नित्यं कृतं सम्मार्जनं त्वया ।
तथैवाभ्युक्षणं वीर नित्यं चैवानुलेपनम् ।
पत्न्यानया च धर्मज्ञ यष्मच्चित्तानुवृत्तया ५३
अहन्यहनि तत्कर्म युवयोर्नृप कुर्वतोः ।
तत्र चैतन्मयत्वेन पापहानिरजायत ५४
विष्णोः कार्यं मया कार्यं योगिशुश्रूषणं तथा ।
न प्रभातं प्रभातं तु चिन्तेयमभवन्निशि ५५
एवमायतनं रम्यमित्येवं च सुखावहम् ।
स्थैर्यं न चैवमेतत्स्यादित्यासीत्ते मनः सदा ५६
योगिनां सुखदं त्वेवं कर्मैवं नैवमित्यपि ।
तव चित्तमभूत्तत्र योगिकर्मण्यहर्निशम् ५७
एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव ।
भृत्यावसायिनः सम्यग्यथोक्ताधिककारिणः ५८
स्मरतः पुण्डरीकाक्षं कार्येणातिदृढात्मनः ।
निःशेषमुपशान्तं तत्पापं योगिनिषेवणात् ५९
ततोऽधिकं पुरस्तस्मादादरादनुलेपनम् ।
सम्मार्जनं च बहुशः सपत्निकेन ते कृतम् ६०
तत्रागतश्च सौवीरः पुरुजिन्नाम भूपतिः ।
महासैन्यपरीवारः प्रभूतगजवाहनः ६१
सर्वसम्पदुपेतं तं सर्वाभरणभूषितम् ।
वृतं भार्यासहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम् ।
स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे ६२
सर्वकामप्रदं कर्म देवदेवस्य कुर्वता ।
तेनैतदखिलं राज्यमशेषद्वीपवत्तव ६३
तेजश्चैवाधिकं यत्ते तथैतच्छृणु पार्थिव ।
योगप्रभावोपलब्धं कथयाम्यखिलं तव ६४
तत्रैवावसथे दीपः प्रशान्तः स्नेहसङ्क्षयात् ।
निजभोजनतैलेन पुनः प्रज्वालितस्त्वया ६५
अनया चोत्तरीयान्तचीरवर्त्युपवृंहितः ।
तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका ६६
तवाप्यखिलभूपालमनःक्षोभकरं ततः ।
तेजो नरेन्द्रनस्याच्च किमाराध्य जनार्दनम् ६७
एवं नरेन्द्रशूद्रत्वाद्विष्णुकर्मपरायणः ।
तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् ६८
किं पुनर्यो नरो भक्त्या विष्णुशुश्रूषणादृतः ।
करोति सततं पूजां निष्कामो नान्यमानसः ६९
स त्वमृद्धिमिमां लब्ध्वा सर्वलोकेश्वरेश्वरम् ।
पूजयाच्युतमीशेशं तमाराध्य न सीदति ७०
पुष्पैर्धूपैस्तथा गन्धैर्दीपवस्त्रानुलेपनैः ।
आराधयाच्युतं तद्वद्वेश्मसम्मार्जनादिभिः ७१
यद्यदिष्टतमं किञ्चिद्यद्यदत्यन्तदुर्लभम् ।
तत्तद्दात्त्वा जगद्धात्रे वैकुण्ठाय न सीदति ७२
सुगन्धागरुकर्पूरचन्दनाक्षोदकुङ्कुमैः ।
वासोभिर्विविधैर्धूपैः पुष्पस्रक्चामरैर्ध्वजैः ७३
अन्नोपहारैर्विविधैर्घृतक्षीराभिषेचनैः ।
गीतवादितनृत्याद्यैस्तोषयस्वाच्युतं नृप ७४
पुण्यरात्रिषु गोविन्दं नृत्यगीतरवोज्ज्वलैः ।
भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् ७५
एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत् ।
भूप भागवतैर्भूतभव्यकृत्केशवो नरैः ७६
येषां न वित्तं तैर्भक्त्या मार्जनाद्युपलेपनैः ।
तोषितो भगवान्विष्णुर्ददात्यभिमतं फलम् ७७
देवकर्मासमर्थाणां प्राणिनां स्मृतिसंस्तवैः ।
तोषितोऽभिमतान्कामान्प्रयच्छति जनार्दनः ७८
नैष वित्तैर्न रत्नौघैः पुष्पधूपानुलेपनैः ।
सद्भावेनैव गोविन्दस्तोषमायाति संस्मृतः ७९
त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम् ।
कृत्वाल्पमीदृशं प्राप्तं राज्यमत्यन्तदुर्लभम् ८०
प्राप्तोपकरणो यस्त्वमेकाग्रमतिरच्युतम् ।
तोषयिष्यसि नेन्द्रोऽपि भविता तेन ते समः ८१
तस्मात्त्वमनया देव्या सहात्यन्तविनीतया ।
केशवाराधने यत्नं कुरु धर्मभृतां वर ८२
ततः प्राप्स्यसि भक्त्यैव यत्तपोभिः सुदुर्लभम् ८३
इति विष्णुधर्मेषु मान्धाताराज्यप्राप्तिहेतुः ।
N/A
References : N/A
Last Updated : February 28, 2024
TOP