विष्णुधर्माः - अध्याय ८३
विष्णुधर्माः
अथ त्र्यशीतितमोऽध्यायः ।
प्रह्लाद उवाच ।
एतन्मुनेर्वसिष्ठस्य निशाम्य वचनं नृपः ।
भार्यासहायः स तदा सम्प्रहृष्टतनूरुहः १ १
कृतकार्यमिवात्मानं मन्यमानोऽसुरोत्तम ।
उवाच प्रणतो भूत्वा मान्धाता वारुणिं वचः २
मान्धातोवाच ।
यथामरत्वं सम्प्राप्य यथा वा ब्रह्म शाश्वतम् ।
परं निर्वाणमाप्नोति तथाहं वचसा तव ३
कृतकृत्यः सुखी चास्मि निर्वृतिं परमां गतः ।
अज्ञानतमसाछन्ने यत्प्रदीपस्त्वयैधितः ४
अहमेषा च तन्वङ्गी विभूतिभ्रंसभीरुकौ ।
आढ्यावापादितौ ब्रह्मन्निहाद्य वचसा तव ५
सम्पदां कथितं बीजमावयोर्भवता मुने ।
तदुप्तावुद्यतावावां विजानीहि द्विजोत्तम ६
न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः ।
आराध्यते जगन्नाथो भावशून्यैर्जनार्दनः ७
बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः ।
निःस्वैराराध्यते देवो विष्णुः सर्वेश्वरेश्वरः ८
सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने ।
यत्त्वां पृच्छामि तन्मे त्वं प्रसादसुमुखो वद ९
कानि व्रतानि यैर्देवो नरैः स्त्रीभिश्च केशवः ।
तोषमाराधितोऽभ्येति कैश्च दानैर्महामुने १०
रहस्यानि च देवस्य प्रीतये यानि चक्रिणः ।
तायशेषाणि मे ब्रूहि कृष्णाराधनकाङ्क्षिणः ११
वसिष्ठ उवाच ।
शृणु भूपाल यैर्विष्णुर्नरैराराध्यते व्रतैः ।
नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे १२
समभ्यर्च्य जगन्नाथं वासुदेवं समाधिना ।
एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणात्मकम् ।
करोति केशवप्रीत्यै कार्त्तिकं मासमात्मवान् १३
पूर्वे वयसि यत्तेन ज्ञानतोऽज्ञानतोऽपि वा ।
पापमाचरितं तस्मान्मुच्यते नात्र संशयः १४
अनेनैव विधानेन मार्गशीर्षेऽपि माधवम् ।
समभ्यर्च्यैकभक्तं वै वर्णिभ्यो यः प्रयच्छति ।
भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे १५
मध्ये वयसि यत्पापं योषिता पुरुषेण वा ।
कृतं तस्माच्च तेनोक्तो विमोक्षः परमात्मना १६
तथा चैवैकभक्तं वै वर्णाग्रेभ्यः प्रयच्छति ।
पुण्डरीकाक्षमभ्यर्च्य पौषमासे महीपते १७
तत्प्रीणनाय यत्पापं वार्द्धिके तेन वै कृतम् ।
स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा १८
त्रैमासिकव्रतमिदं यः करोति नरेश्वर ।
स विष्णुप्रीणनात्पापैर्लघुभिर्विप्रमुच्यते १९
द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः ।
तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् २०
व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् ।
त्रिभिः संवत्सरैरेव प्रददाति फलं नृणाम् २१
त्रिभिर्मासैस्त्रिरवस्थास्त्रिविधात्पातकान्नृप ।
त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षिकैः २२
यतस्ततो व्रतमिदं त्रिक्रमं समुदाहृतम् ।
सर्वपापप्रशमनं केशवाराधनं परम् २३
इति विष्णुधर्मेषु त्रिविक्रमव्रतम् ।
N/A
References : N/A
Last Updated : February 28, 2024
TOP