संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ६४ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ६४ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ६४ Translation - भाषांतर अथ चतुष्षष्टितमोऽध्यायः ।शौनक उवाच ।एतान्धर्माञ्जगन्नाथः पाण्डुपुत्राय पृच्छते ।जगाद पुरुषव्याघ्र किमन्यच्छ्रोतुमिच्छसि १शतानीक उवाच ।भगवन्वहतां भक्तिं देवदेवे जनार्दने ।यत्फलं कथितं तज्ज्ञैस्तन्मे विस्तरतो वद २शौनक उवाच ।यत्फलं वहतां भक्तिमच्युते भवति प्रभो ।न तद्वर्णयितुं शक्यं हरिः सर्वेप्सितप्रदः ३यादृक् सत्त्वं मनुष्याणां तादृगाराध्य केशवम् ।फलमिच्छन्ति तादृच्च लभ्यते तैर्नरेश्वर ४मुक्तिकामा नरा मुक्तिं स्वर्गं देवत्वमीप्सवः ।गन्धर्वयक्षसिद्धानां वृण्वन्त्यन्ये सलोकताम् ५वर्षेष्वभीप्सवो विष्णुं पातालेषु तथापरे ।भोगानभीप्सवो विष्णुं तोषयन्ति नराधिप ६तथापरे नरैश्वर्यमारोग्यं गुणवद्भुवि ।प्रार्थयन्त्यच्युतं देवमाराध्य जगतो गतिम् ७धर्मोपदेशादचलां वहन्भक्तिं जनार्दने ।सशरीरो गतः स्वर्गं धर्मपुत्रो युधिष्ठिरः ८तथैव जनकः कृष्णे विनिवेश्य स्वमानसम् ।अवाप परमां सिद्धिं वसुः प्रायात्त्रिपिष्टपम् ९अन्ये च ये ये मुनयो ये ये च वसुधाधिपाः ।अवापुरतुलान्कामांस्ते ते सन्तोष्य केशवम् १०अनाराध्य जगन्नाथं सर्वपापहरं हरिम् ।सद्गतिः केन सम्प्राप्ता भोगाश्चापि मनोरमाः ११द्रौणिब्रह्मास्त्रनिर्दग्धस्तव राजन्पितामहः ।विष्णोः कार्यमनुष्यस्य दर्शनादुत्थितः पुनः १२नामसङ्कीर्तनाद्यस्य पापमन्यैरुपद्रवैः ।समं विनाशमायाति देवः कोऽभ्यधिकस्ततः १३राष्ट्रस्य शरणं राजा पितरौ बालकस्य च ।धर्मः समस्तमर्त्यानां सर्वस्य शरणं हरिः १४मुक्तिहेतुमनाद्यन्तमजमक्षयमच्युतम् ।नमस्यन्सर्वलोकस्य नमस्यो जायते नरः १५न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि ।वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः १६शतानीक उवाच ।श्रुतं मया यथा पूर्वमार्यको मे युधिष्ठिरः ।सशरीरो गतः स्वर्गं जितमात्मीयकर्मभिः १७यत्त्वेतद्भगवानाह स यथा पाण्डुपूर्वजः ।धर्मोपदेशाद्गोविन्दमाराधयत तद्वद १८शौनक उवाच ।पुरा शासति धर्मज्ञे धर्मपुत्रे युधिष्ठिरे ।तस्यैव वैश्वदेवान्ते चण्डालोऽभ्यागमत्किल १९समुपेत्य गृहं तस्य धर्मपुत्रस्य विस्मितः ।उवाच श्वपचो द्वाःस्थं प्रश्रयावनतस्थितः २०चण्डाल उवाच ।कस्यैतद्भवनं दिव्यं मणिरत्नविभूषितम् ।शुद्धस्फटिकसोपानं मणिकाञ्चनतोरणम् २१प्रतीहार उवाच ।अष्टाशीतिसहस्राणि ब्राह्मणानां दिने दिने ।युधिष्ठिरमृते भूपं भुञ्जते कस्य वेश्मनि २२कथमेतन्न जानीषे चन्द्रबिम्बमिवापरम् ।युधिष्ठिरस्य भवनं देवराजगृहोपमम् २३चण्डाल उवाच ।अबलस्य बलं राजा बालस्य रुदितं बलम् ।बलं मूर्खस्य वै मौनं तस्करस्यानृतं बलम् २४गच्छ जल्प स्वराजानं प्रतीहार वचो मम ।दुःखार्तः कार्यवान्राजंश्चण्डालो द्वारि तिष्ठति २५केनापि हेतुमात्रेण भवन्तं दुष्टमागतः ।इत्युक्तो धर्मराजस्य प्रतीहारो यथोदितम् ।निवेदयामास तथा धर्मराजोऽब्रवीदिदम् २६युधिष्ठिर उवाच ।किं रूपं कीदृशं शीलं कोऽस्यार्थः किं प्रयोजनम् ।ब्रूहि द्वाःस्थ यथावन्मे नरस्तिष्ठति कीदृशः २७प्रतीहार उवाच ।काककोकिलकृष्णाङ्गो भग्ननासारुणेक्षणः ।यवमध्यः कृशग्रीवो वक्रपादो महाहनुः २८युधिष्ठिर उवाच ।ब्रूहि गच्छ दुराचारं चण्डालं पापकर्मिणम् ।देवकार्यस्य वेलायां दुतस्त्वं प्रत्युपस्थितः २९चण्डालपतितौ दृष्ट्वा नरः पश्येत भास्करम् ।स्नातस्त्वेतावथालोक्य सचैलस्नानमर्हति ३०इत्याज्ञप्ते तथोक्तस्तु चण्डालस्तेन वै ततः ।प्रत्युवाच प्रतीहारमीषन्मन्युपरिप्लुतः ३१चण्डाल उवाच ।किं देवकार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम् ।तद्देवकार्यं स च यज्ञहोमो यदश्रुपाता न पतन्ति राष्ट्रे ३२इदं वचनमव्यग्रं प्रतीहार त्वरा मम ।निवेदय स्वराजेन्द्रंयथेष्टं स करोतु वै ।इत्युक्तः सत्वरं गत्वा धर्मराजं तथा तथं ।कथयामास तत्सर्वं चाण्डालेन यदीरितम् ।सुशोभनमिदं वाक्यं न भवेदन्त्यजातिषु ।चिन्तयित्वा ततो राजा निर्जगाम युधिष्ठिरः ।इत्येतद्वचनं श्रुत्वा निर्जगाम युधिष्ठिरः ।प्रत्युवाच च चण्डालमीषन्कोपसमन्वितः ३३युधिष्ठिर उवाच ।कुतस्ते भयमुत्पन्नं येन त्वं गृहमागतः ।आवाधाकारणं सर्वं यथावत्कथयस्व मे ३४तदहं ते प्रतिज्ञाय चण्डकर्मकरक्षणम् ।अपास्य देवकार्यार्थं प्रविश्याम्यन्तरं पुनः ३५चण्डाल उवाच ।न भुञ्जते ब्राह्मणा मे सर्वाश्चोद्विजते जनः ।प्राणिहिंसा च नो वृत्तिर्देव पुष्णाति मेऽनृतम् ३६अनेकजन्मसाहस्रीं प्राप्य संसारपद्धतिम् ।मानुष्ये कुत्सितां जातिमापन्नो मुषितोऽस्मि भोः ३७कर्मभूमिमिमां राजन्प्रार्थयन्ति दिवौकसः ।तां सम्प्राप्य वृथाजन्मा मुष्टोऽस्मि कुरुसत्तम ३८दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकान् ।आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ३९सोऽहमिच्छामि विज्ञातुमतिदुष्कृतकर्मकृत् ।वक्तुमर्हसि धर्मज्ञ कः पापिष्ठतरो मया ४०युधिष्ठिर उवाच ।आनमुपरि श्रान्तं ब्राह्मणं गृहमागतम् ।अनर्चयित्वा यो भुङ्क्ते स पापिष्ठतरस्त्वया ४१मातरं पितरं चैव विकलं नेत्रदुर्बलम् ।यो नाभ्युद्धरते पुत्रः स पापिष्ठतरस्त्वया ४२गोधनस्य तृषार्तस्य जलार्थं परिधावतः ।विघ्नमाचरते यस्तु स पापिष्ठतरस्त्वया ४३विवाहयित्वा यः कन्यां कुलजां शीलमण्डनाम् ।विना त्यजति दोषेण स पापिष्ठतरस्त्वया ४४आशाकारस्त्वदाता यो दातुश्च प्रतिषेधकः ।दत्तं च यः कीर्तयति स पापिष्ठतरस्त्वया ४५बहुभृत्यैर्दरिद्रैश्च धनं सन्तं द्विजोत्तमैः ।याचितो न प्रयच्छेद्यः स पापिष्ठतरस्त्वया ४६ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नरः ।स्वधर्मं सन्त्यजेद्यस्तु स पापिष्ठतरस्त्वया ४७चण्डाल उवाच ।कृतार्थोऽहं गमिष्यामि यशोधर्ममवाप्नुहि ।तुष्टोऽस्म्यहं स्वया योन्या मत्तः प्रोक्तास्त्वयाधमाः ४८युधिष्ठिर उवाच ।देवतानामृषीणां च पितॄणां च कृतं मया ।साम्प्रतं देशकालोऽयं त्वमेवात्र भवातिथिः ४९चण्डाल उवाच ।चण्डालोऽहं महाराज पतितो लोकवर्जितः ।कथं निहीनो वर्णेभ्यो भोक्ष्यामि भवतो गृहे ५०युधिष्ठिर उवाच ।चण्डालो भव पापो वा शत्रुर्वा पितृघातकः ।देशकालाभ्युपेतं त्वां भरणीयं हि वेद्म्यहम् ५१चण्डाल उवाच ।दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।दशध्वजसमा वेश्या दशवेश्यासमो नृपः ५२दश सूनासहस्राणि कुरुते यो हि सौनिकः ।तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ५३युधिष्ठिर उवाच ।नानागोत्रादिचरणा भुञ्जते ब्राह्मणा मम ।न ते वदन्ति वाग्दुष्टं यथैतत्कीर्तितं त्वया ५४चण्डाल उवाच ।लोभात्मानो न जानीयुर्ब्राह्मणा राजकिल्बिषम् ।वरं स्वमांसमत्तव्यं न तु राजप्रतिग्रहम् ५५राजकिल्बिषदग्धानां ब्राह्मणानां युधिष्ठिर ।छिन्नानामिव बीजानां पुनर्जन्म न विद्यते ५६राजप्रतिग्रहो घोरो मध्वास्वादो विषोपमः ।बुधेन प्रतिहर्तव्यः स्वमांसस्येव भक्षणम् ५७अधीत्य चतुरो वेदान्सर्वशास्त्रार्थतत्त्ववित् ।नरेन्द्रभवने भुङ्क्त्वा विष्ठायां जायते कृमिः ५८युधिष्ठिर उवाच ।निन्दसे सर्वराजानो न चात्मानं प्रशंससि ।धैर्यवानात्मनोऽनिन्द्यो नाश्वासार्थं च पृच्छसि ।विमुक्तक्रोधहर्शश्च कोऽप्यत्र प्रतिभासि नः ।अनिन्द्यो निन्द्यरूपेण महात्मा त्वं हि मे मतः ।को भवान्ब्रूहि सत्यं मे किमर्थमिह चागतः ।भवानुपेन्द्रः! शक्रो वा शर्वो वा त्वं पिनाकधृक् ।अथवा निन्द्यरूपेण पिता नस्त्वमिहागतः ५९धर्म उवाच ।ज्ञातोऽस्मि पृथिवीपाल तुष्टश्च तव दर्शनात् ।नन्दन्तु भूमिभागास्ते येषु त्वं पृथिवीपतिः ६०निर्जित्य परसैन्यानि क्षितिं धर्मेण पालय ।स्वल्पमप्यस्तु ते वेलां आ गोविन्दोज्झितं मनः ६१युधिष्ठिर उवाच ।किं मे राज्येन भोस्तात विषयैर्जीवितेन वा ।योऽहं सूनासहस्रैस्तु दशभिः परिवेष्टितः ६२धर्म उवाच ।मा विषादं नरश्रेष्ठ समुपैहि युधिष्ठिर ।यज्ञेश्वरं यज्ञमूर्तिं त्वं च विष्णुं समाश्रितः ६३येषां न विषये विप्रा यज्ञैर्यज्ञपतिं हरिम् ।यजन्ति भूभुजस्तेषामेतत्सूनोदितं फलम् ६४येषां पाषण्डसङ्कीर्णं न राष्ट्रं ब्राह्मणोत्कटम् ।ते तु सूनासहस्राणां दशानां भागिनो नृपाः ६५येषां न यज्ञपुरुषः कारणं पुरुषोत्तमः ।ते तु पापसमाचाराः सूनापापौघभागिनः ६६त्वं तु मत्प्रभवस्तात विष्णुभक्तस्तथैव च ।इष्टिर्वैश्वानरी पापमुपहंस्यति तेऽखिलम् ६७अवश्यं विषये कश्चिद्ब्राह्मणः संश्रितव्रतः ।इष्टिं वैश्वानरीं कप्तां निर्वपेदब्दपर्यये ।तस्य षड्भागमात्रेण त्वं पापं निर्दहिष्यसि ६८स त्वं वरय भद्रंते वरं यन्मनसेच्छसि ।सम्यक् श्रद्धासमाचारादहमाराधितस्त्वया ६९अथ पातकभीतस्त्वं सर्वभावेन भारत ।विमुक्तान्यसमारम्भो नारायणपरो भव ७०परः पराणामाद्योऽसौ ज्ञेयो ध्येयो जनार्दनः ।तदर्थमपि कर्माणि कुर्वन्पापं व्यपोहति ७१लोभादिव्याप्तहृदयो यत्पापं कुरुते नरः ।विलयं याति तत्सर्वमच्युते हृदये स्थिते ७२शमायालं जलं वह्नेस्तमसो भास्करादयः ।क्षान्तिः कलेरघौघस्य नामसङ्कीर्तनं हरेः ७३युधिष्ठिर उवाच ।प्रसन्नो यदि मे तात वरार्हो यदि चाप्यहम् ।वरं तदेकमेवैतं प्राप्तुमिच्छाम्यहं पितः ७४जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य सदा मम ।या काचिन्मनसो वृत्तिः सा भवत्वच्युताश्रया ७५या या जायेत मे बुद्धिर्यावज्जीवाम्यहं पितः ।सा सा छिनत्तु सन्देहान्कृष्णाप्तौ परिपन्थिनः ७६यथा गोविन्दमाराध्य सशरीरः सुरालयम् ।प्राप्नुयामिति मे तात प्रयच्छ प्रवरं वरम् ७७धर्म उवाच ।एवमेतदशेषं ते मत्प्रसादाद्भविष्यति ।नास्ति गोविन्दभक्तानां वाञ्छितं भुवि दुर्लभम् ७८शौनक उवाच ।इति धर्मोपदेशेन सर्वदेववरं हरिम् ।आराध्य पाण्डवो यातः सशरीरः सुरालयम् ७९इति विष्णुधर्मेषु चण्डालयुधिष्ठिरसंवादः । N/A References : N/A Last Updated : February 22, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP