संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ८०

विष्णुधर्माः - अध्याय ८०

विष्णुधर्माः


अथाशीतितमोऽध्यायः ।
बलिरुवाच ।
क्रियायोगस्त्वया पूर्वं ममोक्तो यः पितामह ।
तमहं श्रोतुमिच्छामि फलं चास्य यथातथम् १

देवार्चां देवतागारे तन्मयत्वेन पूजयम् ।
यथावच्चेतसो भूमिं करोति नियतो हि सः २

तपसा ब्रह्मचर्येण पुण्यस्वाध्यायसंस्तवैः ।
क्रियायोगः स विद्वद्भिर्योगिनां समुदाहृतः ३

तत्राहं श्रोतुमिच्छामि क्रियायोगस्थितो नरः ।
यत्फलं समवाप्नोति कारयित्वा हरेर्गृहम् ४

देवार्चां कारयित्वा वा यत्पुण्यं पुरुषोऽश्नुते ।
सम्पूजयित्वा विधिवदनुलिप्य च यत्फलम् ५

कानि माल्यानि शस्तानि कानि नार्हन्ति केशवे ।
के धूपाः कृष्णदयिताः के वर्ज्याश्च जगत्पतेः ६

उपहारे फलं किं स्यात्किं फलं गीतवादिते ।
घृतक्षीरादिना यच्च स्नापिते केशवे फलम् ७

यच्चोपलेपने तात फलमभ्युक्षिते च यत् ।
वासुदेवगृहे सर्वं तदशेषं वदस्व मे ८

प्रह्लाद उवाच ।
साधु वत्स यदेतत्त्वं वासुदेवस्य पृच्छसि ।
शुश्रूषणविधौ पुण्यं तदिहैकमनाः शृणु ९

ब्रह्मणा किल देवानामृषीणां च महात्मनाम् ।
शुश्रूषणफलं विष्णोः प्रोक्तं दैत्यपते पुरा १०

तेभ्यः सकाशान्मनुना प्राप्तं स्वारोचिषेण तु ।
स्वारोचिषः स्वपुत्राय दत्तवानृतचक्षुषे ११

ऋतचक्षुश्च भर्गवे शुक्रस्तस्मादवाप च ।
ममाख्यातं च शुक्रेण यथावत्सुमहात्मना १२

शुश्रूषवे महाभाग दैत्याचार्येण धीमता ।
तदेतच्छ्रूयतां तात क्रियायोगाश्रितं फलम् १३

ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ।
यस्तु बाह्यार्थसापेक्षः स क्रियायोग उच्यते १४

परमं कारणं योगो विमुक्तेर्दितिकेश्वर ।
क्रियायोगश्च योगस्य परमं तात साधनम् १५

यत्त्वेतद्भवता पृष्टं फलमन्विच्छता फलम् ।
देवालयादिकरणे तदिहैकमनाः शृणु १६

यस्तु देवालयं विष्णोर्दार्वं शैलमयं तथा ।
कारयेन्मृन्मयं वापि शृणु तस्य बले फलं १७

अहन्यहनि यज्ञेन यजतो यन्महाफलम् ।
प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरम् १८

कुलानां शतमागामि समतीतं तथा शतम् ।
कारयन्भगवद्धाम नयत्यच्युतलोकताम् १९

सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
विष्णोरालयविन्यासप्रारम्भादेव नश्यति २०

सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम् ।
प्रतिष्ठां समवाप्नोति स नरः सप्तलौकिकीम् २१

प्रशस्तदेशभूभागे यः शस्तं भवनं हरेः ।
कारयत्यक्षयांल्लोकान्स नरः प्रतिपद्यते २२

इष्टकाचयविन्यासो यावन्त्यृक्षाणि तिष्ठति ।
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः २३

प्रतिमां लक्षणवतीं यः कारयति मानवः ।
केशवस्य स तल्लोकमक्षयं प्रतिपद्यते २४

षष्टिं वर्षसहस्राणां सहस्राणि स मोदते ।
स्वर्गौकसां निवासेषु प्रत्येकमरिसूदन २५

प्रतिष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने ।
पुरुषः कृतकृत्यत्वान्नैनं श्वोमरणं तपेत् २६

ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ।
तांस्तारयति संस्थाप्य देवस्य प्रतिमां हरेः २७

अनुशस्ताः किल पुरा यमेन यमकिङ्कराः ।
पाशोद्यतायुधा दैत्य प्रजासंयमने रताः २८

यम उवाच ।
विहरध्वं यथान्यायं नियोगो मेऽनुपाल्यताम् ।
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् २९

केवलं ये जगद्धातुमनन्तं समुपाश्रिताः ।
भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ३०

ये तु भागवता लोके तच्चित्तास्तत्परायणाः ।
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ३१

यस्तिष्ठन्प्रस्वपन्गच्छंस्तत्तिष्ठन्स्खलिते क्षुते ।
सङ्कीर्तयति गोविन्दं ते वस्त्याज्याः सुदूरतः ३२

नित्यनैमित्तिकैर्देवं ये यजन्ति जनार्दनम् ।
नावलोक्य भवद्भिस्ते तत्तेजो हन्ति वो गतिम् ३३

ये धूपपुष्पवासोभिर्भूषणैश्चापि वल्लभैः ।
अर्चयन्ति न ते ग्राह्या नराः कृष्णाश्रयोद्धताः ३४

उपलेपनकर्तारः सम्मार्जनपराश्च ये ।
कृष्णालये परित्याज्यं तेषां त्रिपुरुषं कुलम् ३५

येन चायतनं विष्णोः कारितं तत्कुलोद्भवम् ।
पुंसां शतन्नावलोक्यं भवद्भिर्दुष्टचक्षुषा ३६

येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता ।
नरायुतं तत्कुलजं भवतां शासनातिगम् ३७

भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया ।
विनाज्ञाभङ्गकृन्नैव भविष्यति नरः क्वचित् ३८

प्रह्लाद उवाच ।
वत्स वैवस्वतस्यैताः श्रुत्वा गाथा मरीचिना ।
पुरुकुत्साय कथिताः पार्थिवेन्द्राय धीमते ३९

एतां महाफलां योऽर्चां विष्णुः कारयते नरः ।
तवाख्यातं महाबाहो गृहकारयितुश्च यत् ४०

यज्ञा नराणां पापौघक्षालकाः सर्वकामदाः ।
तथैवेज्यो जगद्धातुः सर्वयज्ञमयो हरिः ४१

इति विष्णुधर्मेषु वैवस्वतगाथा ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP