विष्णुधर्माः - अध्याय ३८
विष्णुधर्माः
अथाष्टात्रिंशोऽध्यायः ।
दाल्भ्य उवाच ।
संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान् ।
कर्तव्यं यन्महाभाग पुरुषेण तदुच्यताम् १
पुलस्त्य उवाच ।
संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान् ।
गृद्धिस्तेष्वेव सन्त्याज्या तत्त्यागो गुणवान्नृणाम् २
येषामब्दसहस्राणां सहस्रैरपि नो नरः ।
भोगात्तृप्तिं समाप्नोति कस्तैर्भोगैर्विरज्यते ३
यावतो वाञ्छते भोगानहन्यहनि मानवः ।
तेषां सहस्रभागेऽपि दाल्भ्य प्राप्तिं न विन्दति ४
अथ चेत्तनवाप्नोति सहस्रगुणितान्नरः ।
तथाप्यतृप्त एवान्तमन्तकाले गमिष्यति ५
तृप्तये ये न सम्प्राप्ताः प्राप्यन्ते ये न वाञ्छिताः ।
बुद्धिमानिन्द्रियार्थेषु तेष्वसङ्गी सदा भवेत् ६
येषां तृप्तिर्न भोगेन त्यागश्चैवोपकारकः ।
उपोषितविधानेन भोगान्त्यागस्ततो वरः ७
कृच्छ्रचान्द्रायणादीनि नरैस्तस्मान्मुमुक्षुभिः ।
निष्कामैर्दाल्भ्य कार्याणि फलाय च फलेप्सुभिः ८
अत्राप्युदाहरन्तीमं मुनयो मुनिसत्तम ।
दस्राभ्यां सह संवादमैलस्य च महात्मनः ९
ऐलः पुरूरवाः पूर्वं बभूव मनुजेश्वरः ।
चकमे यं महाभागमुर्वशी सुरसुन्दरी १०
सन्त्यज्य त्रिदशावासं रूपौदार्यगुणान्वितम् ।
भेजे तमुर्वशी दाल्भ्य बुधस्य तनयं नृपम् ११
नासत्यदस्रौ रूपेण देवानामधिकौ ततः ।
उर्वशीलोभनं तस्य रूपं द्रष्टुं समुत्सुकौ १२
प्रतिष्ठानं पुरं तस्य बुधपुत्रस्य धीमतः ।
जग्मतुः सुमहाभागौ तस्य द्वास्थमथोचतुः १३
अश्विनावूचतुः ।
क्षत्तोऽस्मद्वचनादैलं ब्रूहि त्वं वसुधाधिपम् ।
द्रष्टुं तवाश्विनौ प्राप्तौ रूपसम्पद्गुणं नृप ।
तदेह्यत्र महाभाग इहास्मान्सम्प्रवेशय १४
आश्चर्यभूतं लोकेषु उर्वशीलोभनं वपुः ।
तत्कौतुकं न कुरुते कस्य पार्थिवपुङ्गव १५
पुलस्त्य उवाच ।
आवां समागतौ तस्मात्त्वां द्रष्टुं मनुजोत्तम ।
द्वास्थस्तथेति तावाह प्रविवेश च सत्वरम् ।
आचचक्षे च तद्राज्ञे नासत्यवचनं द्विज १६
तच्छ्रुत्वा वचनं राजा द्वास्थमाह मुहूर्तकम् ।
विलम्ब्यतां महाभागौ तौ ब्रूहि वचनान्मम १७
व्यायामतैलसंसर्गमलिनो न विभूषितः ।
प्रसाधनं च कृत्वाहं निष्क्रमामि त्वरान्वितः १८
पुलस्त्य उवाच ।
निष्क्रम्य स ततो द्वास्थो यथोक्तं भूभृतखिलम् ।
समाचष्ट ततो दाल्भ्य तौ च भूयस्तमूचतुः १९
अश्विनावूचतुः ।
अप्रसाधितमेवाशु भवन्तं वसुधाधिप ।
पश्यावस्तव भूयोऽपि त्वां द्रक्ष्यावः प्रसाधितम् २०
पुलस्त्य उवाच ।
इत्युक्तो निर्गतस्तूर्णं भवनादवनीपतिः ।
तैलाभ्यक्ततनुर्दाल्भ्य व्यायामपरिधानधृक् २१
स प्रणामं तयोः कृत्वा किञ्चिन्नतशिरा नृपः ।
प्रोवाच यन्मया कार्यं भवतोस्तदिहोच्यताम् २२
सप्तद्वीपवती पृथ्वी पुत्रदारबलं धनम् ।
यच्चान्यदपि तत्सर्वं युवयोर्मे निवेदितम् २३
पुलस्त्य उवाच ।
इत्युदाहृतमाकर्ण्य नृपतेरश्विनावपि ।
अङ्गोपाङ्गादिकं सर्वं शनकैस्तावपश्यताम् २४
शिरोललाटबाहुं सनयनादिविलोकनम् ।
कृत्वा च तं महीपालमूचतुस्ताविदं सुरौ २५
प्रविश्य स्नाहि भूपाल यथार्थैश्च विभूषणैः ।
विभूषितं तु भूयस्त्वां द्रक्ष्यावोऽवां नरेश्वर २६
पुलस्त्य उवाच ।
तथेति चोक्त्वा स नृपः प्रविवेश महामुने ।
चक्रे च सकलं सम्यक् स्नात्वा देहप्रसाधनम् २७
स्नातोऽनुलिप्तः स्रग्धारी सुवस्त्रः सुविभूषितः ।
नासत्यदस्रयोः पार्श्वमियाय वसुधाधिपः २८
भूयोऽपि तौ यथा पूर्वमङ्गोपाङ्गविलोकनम् ।
चक्रतुर्नृपतेस्तस्य स्मितभिन्नौष्ठसम्पुटौ २९
तौ सहासौ समालक्ष्य स तदा वसुधाधिपः ।
हासस्य कारणं देवभिषजौ तावपृच्छत ३०
पृच्छन्तं न ततो दाल्भ्य नृपतिं हास्यकारणम् ।
यदूचतुर्महाभागौ तच्छृणुष्व वदामि ते ३१
अश्विनावूचतुः ।
शृणु भूपाल सकलं हासकारणमावयोः ।
युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् ३२
अस्नातस्याभवद्भूप यादृशी ते सुरूपता ।
साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः ३३
स्नातः स्रग्दामधारी त्वं स्वनुलिप्तः सुभूषितः ।
तथाप्यस्नात एव प्राच्छोभनोऽभून्न साम्प्रतम् ३४
राजोवाच ।
किन्तु तत्कारणं येन व्यायाममलिनाम्बरः ।
शोभनोऽहमभूत्पूर्वमिदानीं न विभूषितः ३५
अश्विनावूचतुः ।
दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च ।
वयःपरिणतिं सूक्ष्मां पश्यावोऽपचयप्रदाम् ३६
यथा हि नाडिका पूर्णा गलत्यविरतं नृप ।
नॄणां परिणतस्तद्वच्छरीरग्रहणादनु ३७
जन्मतोऽनन्तरं बाल्यं पौगण्डत्वं ततः परम् ।
यौवनं मध्यदेहित्वं वार्द्धकं च जरा नृणाम् ।
स्थूलदृष्ट्या तु पश्यन्ति न तु ते सूक्ष्मदर्शिनः ३८
निमेषशतभागस्य सहस्रांशः क्षणो नृप ।
तस्याप्ययुतभागांशो भवत्यपचयो नृणाम् ३९
सूक्ष्मातिसूक्ष्मापचयी भवत्येष पुमान्नृप ।
परिणामं क्रमाद्याति तृप्तिं वारि पिबन्निव ४०
तदहर्जातबाल्यस्य बालस्यापचयो हि सः ।
प्रतिक्षणांशया वृद्धिर्बालत्वं हीयते तया ४१
पौगण्डे यौवने चैव वार्द्धके च महामते ।
हानिक्रमः स एवोक्तो यो बाल्ये कथितस्तव ४२
कान्तिर्या नृप बालस्य पोगण्डस्य हि सा कुतः ।
तत्कान्तिसौकुमार्याद्यैः शून्यमेव हि यौवनम् ४३
कान्त्यादिसम्पदो हानिः परमा नृप वार्द्धके ।
तत्राप्यनुक्षणं हानिर्हानिरा मृत्युतो नृप ४४
एवं प्रतिक्षणांशांशो नॄणामपचयप्रदः ।
कुर्वतः किमु कालस्ते महास्नानप्रसाधनम् ४५
अस्मद्दृष्टो भवान्यावत्प्रविष्टो निजमन्दिरम् ।
तावद्धानिमनुप्राप्तः किमु यामार्धसंस्थितः ४६
यादृशोऽद्य भवांस्तादृक् त्वं न रूपी नरेश्वर ।
परश्वः शस्तनं नैव चतुर्थेऽह्नि च तन्मयः ४७
एवं समस्तभूतानि स्थावराणि चराणि च ।
प्रतिक्षणांशापचयं प्राप्नुवन्ति महीतले ४८
तस्मान्न कौतुकं कार्यं भवता तु नरेश्वर ।
यत्ते रूपमभूत्पूर्वमप्रसाधितशोभनम् ४९
पुलस्त्य उवाच ।
राजा पुरूरवा भूयः श्रुत्वा वाक्यमिदं तयोः ।
चिन्तयित्वा वचः प्राह संवेगोत्कम्पिमानसः ५०
राजोवाच ।
अहो भवद्भ्यां कथितमनवस्थितसंस्थितम् ।
स्वरूपं जगतो देवौ येन त्रस्तोऽस्मि साम्प्रतम् ५१
अज्ञानतिमिरान्धानां मद्विधानां भवद्विधाः ।
प्रदीपभूताः सन्देहो विद्यते नात्र कश्चन ५२
सदापचयदोषेण दुष्टकायैः सुरोत्तमौ ।
यत्कार्यं पुरुषैस्तच्च कथ्यतां हितकाम्यया ५३
अश्विनावूचतुः ।
अतिमूढोऽध्रुवे काये सदापचयधर्मिणि ।
नरस्तदुपभोग्यानि ध्रुवाणि परिमार्गति ५४
आसनं शयनं यानं परिधानं गृहादिकम् ।
वाञ्छत्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ५५
मूढोऽध्रुवं ध्रुवमतिः किमात्मानं न बुध्यते ।
बाल्यात्पौगण्डतां गत्वा यः पुनर्यौवनं गतः ५६
भुवः शैलं समारूढः समारूढस्ततो द्रुमम् ।
आरोहणं स किमन्यदृक्षभीतः करिष्यति ५७
बाल्यात्पौगण्डतां यातो यौवनाद्वृद्धतां गतः ।
वयोऽवस्था ततः कान्या यद्भोगाय स्थिरेच्छकः ५८
तस्मादेतन्मनुष्येण विचार्यात्महितैषिणा ।
श्रेयस्यामुष्मिके यत्नः कर्तव्योऽहर्निशं नृप ५९
भोगेष्वसक्तिः सततं तथैवात्मावलोकनम् ।
श्रेयः परं मनुष्याणां कपिलः प्राह पार्थिवः ६०
सर्वत्र समदर्शित्वं निर्ममत्वमसङ्गिता ।
श्रेयः परं मनुष्याणां प्राह पञ्चशिखो मुनिः ६१
आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम् ।
श्रेयः परं मनुष्याणामङ्गारिष्ठोऽब्रवीन्नृपः ६२
अध्यात्मिकादिदुःखानामत्यन्तादिप्रतिक्रिया ।
श्रेयः परं मनुष्याणां जनको ह्याह मोक्षवित् ६३
अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनोः ।
हिरण्यगर्भस्तच्छान्तिं श्रेयः परममब्रवीत् ६४
कर्तव्यमिति यत्कर्म ऋग्यजुःसामसञ्ज्ञितम् ।
क्रियते तत्परं श्रेयो जैगीषव्योऽब्रवीन्मुनिः ६५
हानिं सर्वविधित्सानामात्मनः सुखहेतुकीम् ।
श्रेयः परं मनुष्याणां देवलोऽप्याह तत्त्ववित् ६६
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते ।
एतदेव परं श्रेयो विज्ञानं हितकामिनाम् ६७
कामानुसारी पुरुषः कामाननु विनश्यति ।
अश्रेयसं परं चैतद्यद्भूपालातिकामिता ६८
एवं विज्ञाततत्त्वार्थः सनको योगिनां वरः ।
नरेन्द्रप्राह विप्राणां परमार्थपरम्परम् ६९
क्रियाकलापफलदमृग्यजुःसामसञ्ज्ञितम् ।
अमुष्मिन्मध्यमं श्रेयः प्राहुः सप्त र्षयो नृप ७०
इहैव फलदं काम्यं कर्म यत्क्रियते नरैः ।
तदाहुरपरं श्रेयो ऋचीकच्यवनादयः ७१
द्वे कर्मणी नरश्रेष्ठ ब्रह्मणा समुदाहृते ।
प्रवृत्ताख्यं निवृत्तं च स्वर्गमुक्तिफले हि ते ७२
प्रवृत्तमपि मोक्षाय कर्म पार्थिव जायते ।
कर्म स्वरूपतो भ्रष्टमनाकाङ्क्ष्य फलं कृतम् ७३
सामान्यं चापरं श्रेयः सर्ववर्णाश्रमेषु यत् ।
तच्छृणुष्व महीपाल वदतो मम तत्त्वतः ७४
सत्यं वक्तव्यं नित्यं मैत्रेण भाव्यं ।
कार्यं च त्याज्यं नित्यमायासकारि ।
लोकेऽमुष्मिन्यद्धितं च तथास्मिंस् ।
तस्मिन्नात्मा योजनीयोऽनुधीरैः ७५
तीर्थस्नानैः सोपवासैरजस्रं पात्रे दानैर्होमजापैश्च नित्यम् ।
शुद्धिर्नेयो देवताभ्यर्चनैश्च शुद्धोऽप्यात्मा सङ्गदोषादशुद्धः ७६
शुद्धं वस्त्रं सङ्गदोषादशुद्धं ।
भूयः शुद्धिं शोध्यमानं पर्याति ।
एतज्ज्ञात्वा न प्रमादो मनुष्यैः ।
शुद्धे ह्यात्मन्यात्मविद्भिर्विधेयः ७७
पुलस्त्य उवाच ।
इत्युक्त्वा तौ नरेन्द्रंतौ तेन चार्घ्यादिना पृथक् ।
सम्यक् सम्पूजितौ यातौ नाक पृष्ठमथाश्विनौ ७८
स चाप्यनित्यतामेवमवगम्य नरेश्वरः ।
निष्कामोऽनुदिनमेव अवगम्य नरेश्वरः ।
निष्कामोऽनुदिनं यज्ञैरियाज पुरुषोत्तमम् ७९
भोगासङ्गि मनो दाल्भ्य यदासीत्तस्य भूपतेः ।
तदेव भगवद्ध्यानपरं चक्रे महामुने ८०
तत्याजार्थेषु ममतामहङ्कारं तथात्मनि ।
समतां सर्वभूतेषु सम्प्राप पृथिवीपतिः ८१
यस्यात्मन्यपि विप्रर्षे नाहम्मानोऽस्ति कुत्रचित् ।
मदावलेपो पूपादौ तस्य स्यादिति का कथा ८२
एवं दाल्भ्य मनुष्येण समतामनुतिष्ठता ।
सर्वभोगेषु सन्त्याज्यो ध्येयश्च पुरुषोत्तमः ८३
कुत्र तिष्ठति गोविन्दो बाह्यनिवृतचेतसि ।
तस्मान्निःसङ्गचित्तेन शक्यश्चिन्तयितुं हरिः ८४
प्रीतिद्वेषादयस्त्यक्त्वा महर्षे यस्य चेतसा ।
प्रियातिथिस्तद्धृदये विष्णुर्मोक्षफलप्रदः ८५
इति विष्णुधर्मेष्वश्विनपुरूरवसंवादः ।
N/A
References : N/A
Last Updated : February 21, 2024
TOP