संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १०३

विष्णुधर्माः - अध्याय १०३

विष्णुधर्माः


अथ त्र्! यधिकशततमोऽध्यायः ।
शौनक उवाच ।
इत्युक्तेऽप्सरसः सर्वाः प्रणिपत्यातिविस्मिताः ।
ऊचुर्नारायणं देवं तद्दर्शनकुतूहलाः १

उक्तो भगवता योऽयमुपदेशो हितार्थिनाम् ।
प्रोक्तः स सर्वो विज्ञातो माहात्म्यं विदितं च ते २

यत्त्वेतद्भवता प्रोक्तं प्रसन्नेनाव्ययात्मना ।
दर्शितेयं विशालाक्षी दर्शयिष्यामि वो जगत् ३

तन्नाथ सर्वभावेन प्रपन्नानां जगत्पते ।
दर्शयात्मानमखिलं दर्शितेयं यथोर्वशी ४

यदि देवापराद्धेषु नास्मासु कुपितं तव ।
मनस्तज्जगतमीश दर्शयात्मानमात्मना ५

देवदेव उवाच ।
पश्यतेहाखिलांल्लोकान्मम देहे सुराङ्गनाः ।
मधुं मदनमात्मानं यच्चान्यद्द्रष्टुमिच्छथ ६                                           ६

शौनक उवाच ।
इत्युक्त्वा भगवान्देवस्तदा नारायणो नृप ।
उच्चैर्जहास स्वनवत्तत्राभूदखिलं जगत् ७

ब्रह्मा प्रजापतिः शक्रः सह रुद्रैः! पिनाकधृक् ।
आदित्या वसवः साध्या विश्वेदेवा महर्षयः ८

नासत्यदस्रावनिलाः सर्वे सर्वे तथाग्नयः ।
यक्षगन्धर्वसिद्धाश्च पिशाचाः किन्नरोरगाः ९

समस्ताप्सरसो विद्याः साङ्गा वेदास्तदुक्तयः ।
मनुष्याः पशवः कीटाः पक्षिणः पादपास्तथा १०

सरीसृपाश्च ये सूक्ष्मा यच्चान्यज्जीवसञ्ज्ञितम् ।
समुद्राः! सकलाः शैलाः सरितः काननानि च ११

द्वीपान्यशेषाणि तथा नदाः सर्वसरांसि च ।
नगरग्रामपूर्णा च मेदिनी मेदिनीपते ।
देवाङ्गनाभिर्देवस्य देहे दृष्टं महात्मनः १२

नक्षत्रग्रहताराभिः समवेतं नभस्तलम् ।
ददृशुस्ताः सुचार्वङ्ग्यस्तस्यान्तर्विश्वरूपिणः १३

नोर्ध्वं न तिर्यङ्नाधश्च यदान्तस्तस्य दृश्यते ।
तमनन्तमनादिं च ततस्तास्तुष्टुवुः प्रभुम् १४

मदनेन समं सर्वा मधुना च सुराङ्गनाः ।
ससाध्वसा भक्तिमत्यः परं विस्मयमागताः १५

अप्सरस ऊचुः ।
पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् ।
परायणं त्वा जगतामनन्तं नताः स्म नारायणमात्मभूतम् १६

मही दिवं वायुजलाग्नयस्त्वं शब्दादिरूपश्च परापरात्मन् ।
त्वत्तो भवत्यच्युत सर्वमेतदभेदरूपोऽसि विभो त्वमेभिः १७

द्रष्टासि रूपस्य रसस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः ।
स्प्रष्टा भवान्स्प्रशवतोऽखिलस्य घ्रातासि गन्धस्य पृथक्शरीरी १८

सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोके च न सोऽस्ति कश्चित् ।
पश्वादिवर्गे च न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव १९

ब्रह्माद्युपेन्द्रप्रमुखानि सौम्येष्विन्द्राग्निरूपाणि च वीर्यवत्सु ।
रुद्रान्तकादीनि च रौद्रवत्सु रूपेषु रूपाणि तवोत्तमानि २०

समुद्ररूपं तव धैर्यवत्सु तेजस्विरूपेषु रविस्तथाग्निः ।
क्षमाधनेषु क्षितिरूपमग्र्यं रूपं तवाग्र्यं बलवत्सु वायुः २१

मनुष्यरूपं तव राजसेषु मूढेषु सर्वेश्वर पादपोऽसि ।
दर्पान्वितेष्वच्युत दानवस्त्वं सनत्सुजातश्च विवेकवत्सु २२

रसस्वरूपेण जले स्थितोऽसि गन्धस्वरूपो भवतो धरित्र्! यम् ।
दृश्यस्वरूपश्च हुताशने त्वं स्पर्शस्वरूपो भगवान्समीरे २३

शब्दात्मकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् ।
बोधव्यरूपश्च विभो त्वमेकः सर्वत्र सर्वेश्वर सर्वभूतः २४

पश्याम ते नाभिसरोजमध्ये ब्रह्माणमेतं च हरं भ्रुकूट्यम् ।
तत्राश्विनौ कर्णगतौ समस्ताणवस्थितान्बाहुषु लोकपालान् २५

घ्राणेऽनिलं नेत्रगतौ रवीन्दू जिह्वा च ते नाथ सरस्वतीयम् ।
पादौ धरित्रीं जठरं समस्तांल्लोकान्हृषीकेश विलोकयामः २६

जङ्घे वियत्पादकराङ्गुलीषु पिशाचरक्षोरगसिद्धसङ्घान् ।
पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः २७

सर्वेष्टयस्ते दशनेषु देव दंष्टृआसु विद्या भवतश्चतस्रः ।
रोमस्वशेषास्तव देवसङ्घा विद्याधरा नाथ कराङ्घ्रिरेखाः ।
साङ्घाः समस्तास्तव देव वेदाः समास्थिता बहुषु सन्धिभूताः २८

वराहरूपं धरणीधृतस्ते नृसिंहरूपं च सटाकरालम् ।
पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यश्च तवाप्रमेयः २९

अमी समुद्रास्तव देव देहे मेर्वादयः शैलवरास्तवामी ।
इमाश्च गङ्गाप्रमुखाः स्रवत्यो द्वीपान्यशेषाणि वनानि चैव ३०

स्तुवन्ति चैते मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् ।
त्वामीशितारं जगतामनन्तं यज्ञेशमर्चन्ति च यज्विनोऽमी ३१

त्वत्तो न सौम्यं जगतीह किञ्चित्त्वत्तो न रौद्रंच समस्तमूर्ते ।
त्वत्तो न शीतं न च केशवोष्णं सर्वस्वरूपातिशयी त्वमेकः ३२

प्रसीद सर्वेश्वर सर्वभूत सनातनात्मन्परमेश्वरेश ।
त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ३३

किं वापराद्धं तव देव मूढैर्यन्मायया नो हृदयं तथापि ।
पापावशं किं प्रणतार्तिहारिन्मनो हि नो विङ्कलतामुपैति ३४

न तेऽपराद्धं यदि वापराद्धमस्माभिरुन्मार्गविवर्तनीभिः ।
तत्क्षम्यतां सृष्टिकरस्तवैव देवापराधं सृजतो विवेकान् ३५

नमो नमस्ते गोविन्द नारायण जनार्दन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ३६

ततोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ।
नमो नमस्ते वैकुण्ठ श्रीवत्साङ्काब्जलोचन ।
वरेण्य यज्ञपुरुष प्रजापालक वामन ।
नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हरे ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ३७

संसारार्णवपोताय नमस्तुभ्यमधोक्षज ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ३८

नमः परस्मै श्रीशाय वासुदेवाय वेधसे ।
स्वेच्छया गुणभोक्तृत्वे सर्गान्तस्थितिकारिणे ३९

उपसंहार विश्वात्मन्रूपमेतत्समन्ततः ।
वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ४०

प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत ।
प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ४१

न विद्मः क्व नु वर्तामो भवान्नैवोपलक्ष्यते ।
सर्वं जगदिहैकस्थं पिण्डितं लक्षयामहे ४२

किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे ।
माहात्म्यं किन्तु ते देव जिह्वाया यन्न गोचरम् ४३

वक्त्राणामयुतेनापि बुद्धीनामयुतायुतैः ।
गुणानां वर्णनं नाथ तव वक्तुं न शक्यते ४४

तदेतद्दर्शितं रूपं प्रसादः परमः कृतः ।
छन्दतो जगतामीश तदेतदुपसंहर ४५

शौनक उवाच ।
इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः ।
दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः ।
विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः ४६

तं दृष्ट्वा सर्वभूतेषु लीयमानमधोक्षजम् ।
विस्मयं परमं जग्मुः समस्ता देवयोषितः ४७

स च सर्वेश्वरः शैलान्पादपान्सागरान्भुवम् ।
जलमग्निं तथा वायुमाकाशं च विवेश ह ४८

काले दिक्ष्वथ सर्वात्मा मनुष्यात्मन्यथापि च ।
आत्मरूपः स्थितः स्वेन महिम्ना भावयञ्जगत् ४९

देवदानवरक्षांसि यक्षविद्याधरोरगान् ।
मनुष्यपशुकीटादीन्मृगपक्ष्यन्तरिक्षगान् ५०

येऽन्तरिक्षे तथा भूमौ दिवि ये ये जलाश्रयाः ।
तान्प्रविश्य स विश्वात्मा पुनस्तद्रूपमास्थितः ।
नरेण सार्छं यत्ताभिर्दृष्टपूर्वमरिन्दम ५१

ताः परं विस्मयं गत्वा सर्वास्त्रिदशयोषितः ।
प्रणेमुः साध्यसाः पाण्डुवदना नृपसत्तम ५२

नारायणोऽपि भगवानाह तास्त्रिदशाङ्गनाः ।
नीयतामुर्वशी भद्रायत्रास्ते त्रिदशेश्वरः ५३

भवतीनां हितार्थाय सर्वभूतेष्वसाविति ।
ज्ञानमुत्पादितं भूयो लयं भूतेषु कुर्वता ५४

तद्गच्छत समस्तोऽयं भूतग्रामो मदंशकः ।
अहमप्यात्मभूतस्य वासुदेवस्य योगिनः ५५

यस्मात्परतरं नास्ति योऽनन्तः परिपठ्यते ।
तमजं सर्वभूतेशं जानीत परमं पदम् ५६

अहं भवत्यो देवाश्च मनुष्याः पशवश्च ये ।
एतत्सर्वमनन्तस्य देवदेवस्य विस्तृतिः ५७

एतज्ज्ञात्वा समं सर्गं सदेवासुरमानुषम् ।
सपश्वादिगणं चैव द्रष्टव्यं त्रिदशाङ्गनाः ५८

शौनक उवाच ।
इत्युक्तस्तेन देवेन समस्तास्ताः सुरस्त्रियः ।
प्रणम्य तौ समदनाः सवसन्ताश्च पार्थिव ५९

आदाय चोर्वशीं भूयो देवराजमुपागताः ।
आचख्युश्च यथावृत्तं देवराजाय तत्तथा ६०

तथा त्वमपि राजेन्द्रसर्वभूतेषु केशवम् ।
चिन्तयन्समतां गच्छ समतैव हि मुक्तये ६१

जानन्नेवमशेषेषु भूतेषु परमेश्वरम् ।
वासुदेवं कथं दोषांल्लोभादीन्न प्रहास्यसि ६२

सर्वभूतानि गोविन्दाद्यदा नान्यानि भूपते ।
तदा वैरादयो भावाः क्रियतां कुत्र पार्थिव ६३

इह पश्यञ्जगत्सर्वं वासुदेवात्मकं नृप ।
एतदेव हि कृष्णेन रूपमाविष्कृतं तदा ६४

परमस्मादपि महद्रूपं यत्कथितं तव ।
जन्मादिभावरहितं तद्विष्णोः परमं पदम् ६५

सङ्क्षेपेण च भूपाल श्रूयतां यद्वदामि ते ।
यन्मतौ पुरुषः कृत्वा परं निर्वाणमृच्छति ६६

सर्वं विष्णुः समस्तौ हि भावाभावौ च तन्मयौ ।
सदसत्सर्वमीशेशो वासुदेवः परं पदम् ६७

भवजलधिगतानां द्वन्द्ववाताहतानां ।
सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां ।
भवति शरणमेको विष्णुपोतो नराणाम् ६८

इति विष्णुधर्मेषूर्वशीसम्भवे विश्वरूपप्रदर्शनम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP