संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ८९

विष्णुधर्माः - अध्याय ८९

विष्णुधर्माः


अथैकोननवतितमोऽध्यायः ।
वसिष्ठ उवाच ।
भविष्यं चापरं भूप ममैतच्छ्रोतुमर्हसि ।
यत्प्रक्ष्यति महीपालः परिक्षित्स्वपुरोहितम् १

परीक्षितः पुरोधास्तु द्विजो गौरमुखो नृप ।
भविष्यति शमीकस्य शिष्यः परमसम्मतः २

स च राजा जगद्धातुर्देवदेवस्य शार्ङ्गिनः ।
सदैवाराधने यत्नं भक्तियुक्तः करिष्यति ३

पुरोधसं गौरमुखं प्रणिपत्य स पार्थिवः ।
प्रक्ष्यत्याराधनार्थाय देवदेवस्य चक्रिणः ४

भगवन्भवभीतोऽहमभवाय ततो भवान् ।
आराधयितुमिच्छामि सर्वेच्छापूरकं हरिं ५

सङ्कुरुष्व महाभाग प्रसादं मम सुव्रत ।
कृष्णाराधनकामस्य मनसो देशिको भव ६

आराधनेन येनेशो जगतामीश्वरेश्वरः ।
विष्णुराराध्यते पुम्भिः संसाराब्धिपरिक्षतैः ७

तन्ममोपदिश ब्रह्मन्प्रसादप्रवणं मनः ।
कृत्वा सदैवार्तिमतां शरण्यं शरणं गुरुः ८

एवं स तेन भूपाल भूपालेन र्षिपुङ्गवः ।
केशवाराधनार्थाय सम्यक् पृष्टः प्रवक्ष्यति ९

नमस्कृत्य जगद्धात्रे देवदेवाय शार्ङ्गिने ।
परमेशसुरेशाय हृषीकेशाय वेधसे १०

वरार्थिनाममोघाय परस्मै हरिमेधसे ।
सर्वकल्याणभूताय शङ्खचक्रगदाधृते ११

वरासिचर्मावितते क्रूरशान्तात्ममूर्तये ।
यद्यद्भूतोपकाराय तत्तद्रूपविकारिणे १२

परमाण्वन्तपर्यन्तसहस्रांशाणुमूर्तये ।
जठरान्तायुताशान्तस्थितब्रह्माण्डधारिणे १३

श्वेतादिदीर्घह्रस्वादिकठिनादिविकल्पना ।
योगिचिन्त्ये जगद्धाम्नि यत्र नास्त्यखिलात्मनि १४

तमजं शाश्वतं नित्यं परिणामविवर्जितम् ।
योगिभिश्चिन्त्यते मूर्तिर्यत्र तत्राखिलात्मनि १५

तत्र तत्रात्मनो नित्यं परिणामविवर्जितम् ।
प्रणम्य जगतामीशमनन्तं परतः परम् १६

परं पराणां स्रष्टारं पुराणं पुरुषं प्रभुम् ।
वरं वरेण्यं वरदं स्थूलसूक्ष्मस्वरूपिणम् १७

अशेषजगतां मूलमनादिनिधनस्थितिम् ।
परापरस्वरूपस्थमविकारस्वरूपिणम् १८

यस्योपचारतः स्वर्गं स्वरूपं व्यतिरिच्यते ।
ज्ञानज्ञेयस्य मुनिभिर्ज्ञानविद्भिर्महात्मभिः १९

तस्मै पार्थिवमुख्याय रघुवर्यमहात्मने ।
श्रूयतां स मुनिश्रेष्ठो यद्वक्ष्यति परीक्षिते २०

गौरमुख उवाच ।
देवकी नाम राजेन्द्रदेवकस्याभवत्सुता ।
अनपत्या तपस्तेपे पुत्रार्थं किल भामिनी २१

भार्या सा वसुदेवस्य सत्यधर्मपरायणा ।
न चातुष्यत गोविन्दस्ततस्तामाह भार्गवः २२

भार्गव उवाच ।
किमर्थं तप्यते भद्रेतपः परमदुश्चरम् ।
कोऽर्थस्तवाभिलषितो गन्तुं कुत्र तवेप्सितम् २३

देवक्युवाच ।
अपुत्राहं द्विजश्रेष्ठ पत्युर्मे नास्ति सन्ततिः ।
साहमाराध्य गोविन्दं पुत्रमिच्छामि शोभनम् २४

तपस्तावत्करिष्यामि परमेण समाधिना ।
यावदाराधितो विष्णुर्दास्यत्यभिमतं मम २५

भार्गव उवाच ।
गोविन्दाराधने यत्नो यदि ते कुलनन्दिनि ।
तदिदं व्रतमास्थाय तोषयाशु जनार्दनम् २६

प्रथमे कार्त्तिकस्याह्नि सम्प्राप्ते देवकात्मजे ।
पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः २७

बाणपुष्पैः समभ्यर्च्य वासुदेवमजं विभुम् ।
दत्त्वा च चन्दनं धूपं परमान्नं निवेदयेत् ।
घृतेन वाचयेद्विप्रं गृह्णीयाच्च ततो व्रतम् २८

अद्यप्रभृत्यहं मासं विरतः प्राणिनां वधात् ।
असत्यवचनात्स्तैन्यान्मधुमांसादिभक्षणात् २९

स्वपन्विबुध्यन्गच्छंश्च स्मरिष्याम्यहमच्युतम् ।
परापवादपैशून्यं परपीडाकरं तथा ३०

सच्छास्त्रदेवतायज्विनिन्दामन्यस्य वा भुवि ।
न वक्ष्यामि जगत्यस्मिन्पश्यन्सर्वगत हरिम् ३१

इत्यन्यच्चापि शक्नोति यन्निर्वोढुं यशस्विनि ।
कुर्वीत नियमं तस्य त्यागो धर्माय यस्य च ३२

कृत्वैवं पुरतो विष्णोर्निवृत्तिं पापतः शुभे ।
नैवेद्यं स्वयमश्नीयान्मौनी नित्यमुदङ्मुखः ३३

मार्गशीर्षे तथा मासि जातिपुष्पैर्जनार्दनम् ।
समभ्यर्च्य शुभे धूपं चन्दनं सन्निवेद्य च ३४

परमान्नं च देवाय विप्राय च पुनर्घृतम् ।
दत्त्वा तथैव गृह्णीयान्नियमं चास्य रोचते ३५

तथैव नक्तं भुञ्जीत नैवेद्यं कुलनन्दिनि ।
सर्वेष्वेव तु मासेषु पञ्चगव्यादिकं समम् ३६

पुष्पधूपोपहारेषु विशेषो दक्षिणासु च ।
स्नानप्राशनयोः साम्यं तथा वै नक्तभोजने ३७

अर्चयेत्प्रतिमासं च यैः पुष्पैस्तानि मे शृणु ।
ये च धूपाः प्रदातव्या नैवेद्यान्नं च यद्यदा ३८

बाणस्य जातिकुसुमैस्तथैव च कुरुण्ठकैः ।
कुन्दातिमुक्तकै रक्तकरवीरैश्च देवकि ३९

श्वेतैस्ततो मालिकया तथा मल्लिकया ततः ।
दधिपिण्ड्याथ केतक्या पद्मरक्तोत्पलेन च ।
क्रमेणाभ्यर्चितो विष्णुर्ददाति मनसेप्सितम् ४०

कार्त्तिके मार्गशीर्षे च धूपः पौषे च चन्दनम् ।
माघफाल्गुनचैत्रेषु दद्याद्विष्णोस्तथागरुम् ४१

वैशाखादिषु मासेषु त्रिषु देवकि भक्तितः ।
कर्पूरं देवदेवाय गुग्गुलं श्रावणादिषु ४२

कार्त्तिकादिषु मासेषु परमान्नं शुभे त्रिषु ।
कासारं माघपूर्वेषु यवान्नं च ततस्त्रिषु ४३

घृतं तिलाञ्जलघटान्हिरण्यमथवाजिनम् ।
प्रतिमासं तथा दद्याद्ब्राह्मणाय शुभव्रते ४४

यथोक्तं नियमानां च ग्रहणं प्रतिमासिकम् ।
कुर्वञ्जगत्पतिर्विष्णुः प्रीयतामिति मानवः ४५

योषिदप्यमलप्रज्ञे व्रतमेतद्यथाविधि ।
करोति या सा सकलानवाप्नोति मनोरथान् ४६

व्रतेनाराधितो विष्णुरनेन जगतः पतिः ।
ददात्यभिमतान्कामानल्पकालेन भामिनि ४७

धन्यं यशस्यमायुष्यं सौभाग्यारोग्यदं तथा ।
व्रतमेतत्प्रियतमं व्रतेभ्योऽव्यक्तजन्मनः ४८

व्रतेनानेन शुद्धानामब्देनैकेन केशवः ।
सुखदृश्यो न सन्देहो दीपेनैवाग्रतः स्थितः ४९

कायवाङ्मनसो शुद्धिं करोत्येतन्महाव्रतम् ।
शुद्धानां चामलो देवो दृश्य एव जनार्दनः ५०

तस्मिन्नेकाग्रचित्तानां प्राणिनां वरवर्णिनि ।
विप्रा एव प्रयत्नेन मुक्तिभाजो विभूतयः ५१

यथा कल्पतरुं प्राप्य यद्यदिच्छति चेतसा ।
तत्तत्फलमवाप्नोति तथा सम्प्राप्य तं विभुम् ५२

शुद्धिव्रतमिदं तस्मान्महापातकनाशनम् ।
आराधनाय कृष्णस्य कुरु देवकि पावनम् ५३

तस्मिंश्चीर्णे हृषीकेशस्तुभ्यं दास्यति दर्शनम् ।
दृष्टे चाभिमतं यत्ते तदशेषं भविष्यति ५४

इति विष्णुधर्मेषु शुद्धिव्रतम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP