संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ७८ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ७८ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ७८ Translation - भाषांतर अथ अष्टसप्ततितमोऽध्यायः ।शौनक उवाच ।पाताले निवसन्वीरस्तदा वैरोचनिर्बलिः ।कामोपभोगसम्प्राप्त्या मुदं प्राप परां विभुः १अलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना ।घृताची मेनका रम्भा ननृतुस्तस्य सन्निधौ २प्रजगुर्देवगन्धर्वा विश्वावसुपुरोगमाः ।तुष्टुवुश्च महाभाग बलिं सिद्धाः सचारणाः ३तस्मिन्सङ्गीतगीता तु वीणावेणुरवाकुले ।स्रगादिभूषितो दैत्यः पपौ पानमनुत्तमम् ४शर्कारसवमाध्विकां पुष्पासवफलासवम् ।दिव्याः प्रसन्नाश्च सुरास्तदर्हाणि मधूनि च ५परावदंशान्मधुरांल्लवणांस्तिक्तकाङ्कटून् ।कषायांश्च महाराज सुमृष्टान्यपराणि च ६सुहृट्सुजनसम्बन्धिभृत्यवर्गसमन्वितः ।बुभुजे पातालगतस्तदा वैरोचनिर्बलिः ७प्रासादाः काञ्चनाः सर्वे सुवर्णमणिमण्डिताः ।स्फाटिकामलसोपाना मुक्ताहारशतोज्ज्वलाः ८तेषु सर्वेषु दैतेया बलेः सम्बन्धिबान्धवाः ।नृत्यवाद्यादिमुदिता बुभुजुर्विषयान्प्रियान् ९बलिश्च भगवान्दैत्यो दैत्योरगशतैर्वृतः ।उपगीयमानो बुभुजे यथेष्टं विषयान्प्रियान् १०पत्नी विन्ध्यावली नाम तस्य दैत्यपतेरभूत् ।सर्वलक्षणसम्पूर्णा श्रीरिवाब्जं विनापरा ११न देवी नापि गन्धर्वी नाप्सरा न च मानुषी ।तस्या रूपेण सदृशी बभूव मनुजेश्वर १२सा तु पीनायतश्रोणी मृद्वङ्गी मधुरस्वरा ।घनोन्नतकुचा सुभ्रूः सस्मितायतलोचना १३मृद्वल्पपाणिपादाब्जा सुमध्या गजगामिनी ।सुकेशी सुमुखी श्यामा सर्वैर्योषिद्गुणैर्युता १४तनया मेरुसावर्णेर्दौहित्री मृगमोकिनः ।वपुषा रूपसम्पदा पौतना मृगलोचना ।पत्नी सहस्रद्वितये प्रधाना तस्य साभवत् १५तया तु रमतस्तस्य रमणीये रसातले ।शक्तिरासीदनुदिनं विवेकप्रतिलोमिनी १६कदाचिद्रमतस्तस्य दैत्यराजस्य पार्थिव ।तीक्ष्णांशुर्मध्यमां वीथीं ययौ वैषुवतीं रविः १७यदा यदा च विषुवं भास्करः प्रतिपद्यते ।तदा तदा हरेश्चक्रं पाताले परिवर्तते १८स्रवन्ति योषितां गर्भास्तस्य धारांशुतापिताः ।सहसा दैत्यपत्नीनां यासु पुंसां समुद्भवः ।निस्तेजसो दैत्यभटा भवन्ति च महीपते १९तद्दृष्ट्वा सहसायान्तमादित्यशततेजसम् ।ज्वालामालासुदुःप्रेक्ष्यं विष्णुचक्रं सुदर्शनम् ।हाहाकृतमभूत्सर्वं पातालमरिसूदन २०जेपुर्ये मुनयस्तत्र सार्घपात्रा महोरगाः ।बभूवुः प्रणताश्चान्ये सिद्धगन्धर्वचारणाः ।वैक्लव्यं चागताः सर्वाः स्त्रियः परपुरञ्जय २१तद्दृष्ट्वा व्याकुलीभूतं पातालमसुरास्ततः ।ये तस्थुः पौरुषपरास्ते हताः शतनेमिना २२भ्राम्यता तेन चक्रेण सप्तलोकविचारिणा ।समस्तजगदाधारकरमुक्तेन वेगिना २३तन्निषूदितदैत्यौघं दैत्यस्त्रीगर्भहानिदम् ।श्रुत्वा चक्रं महाचक्रो निश्चक्राम गृहाद्बलिः २४आः किमेतदितीत्युक्त्वा स तु मद्यमहोद्धतः ।विमलं खड्गमादाय शतचन्द्रंच भानुमत् २५निर्यान्तमथ वेगेन तमुदारपराक्रमम् ।विध्यावली नाम शुभा दधार दयितं पतिम् २६उवाच च परिष्वज्य क्रोधताम्रेक्षणं बलिम् ।कल्याणी गुणदोषज्ञा प्रणयान्मृदुभाषिणी २७विन्ध्यावल्युवाच ।दैत्यराज न कोपस्य वशमागन्तुमर्हसि ।विमृश्य तज्ज्ञः सामादीन्प्रयुञ्जीत बलाबलम् २८किमेतत्कस्य वा कुत्र किन्निमित्तमिहागतम् ।चक्रमित्थं विचार्य त्वं क्रोधं याहि प्रशाम्य वा २९एतत्किल जगद्धातुश्चक्रं विष्णोः सुदर्शनम् ।प्रतिषण्मासमभ्येति दैत्यगर्भविनाशनम् ३०पुङ्गर्भान्निखिलानेतद्दानवानां महासुर ।विनाशयत्यनन्तरां सर्वदुष्टनिबर्हणम् ३१करोति दुःखमतुलं घातनात्प्रतिपक्षजम् ।पुरुषाणां न सर्वत्र संस्थिता जगतः पतेः ३२मयि त्वयि तथान्यत्र यथा विष्णुर्व्यवस्थितः ।तस्यैतच्चक्रमायान्तं पुरुषः को न पूजयेत् ३३यस्याधिक्षेपजा राजंस्तव त्रैलोक्यविच्युतिः ।तस्य चक्रं जगन्मूर्तेः समुपैषि रुषा कथम् ३४सदृशे पुरुषे क्रोधं नरः कुर्वीत दैत्यप ।न तु सर्वेश्वरे विष्णौ यत्र सर्वं प्रतिष्ठितम् ३५तत्प्रसीद महाभाग समुपैहि जगत्पतिम् ।शरण्यं शरणं विष्णुं यं प्रणम्य न सीदति ३६यस्मिन्प्रसन्ने त्रैलोक्यं त्वत्तः प्राप्तः शचीपतिः ।भ्रष्टश्च यदधिक्षेपात्तं त्वं शरणमाव्रज ३७यत्र सर्वेश्वरे सर्वं सर्वभूते जगत्स्थितम् ।तस्य चक्रमुपैहि त्वं विनयादसुराधिप ३८सर्वकारणभूतस्य देवदेवस्य चक्रिणः ।कश्चक्रमतिवर्तेत मर्त्यधर्मा महासुर ३९चक्रमत्र जगद्धातुः करोति स्थितिपालनम् ।विपक्षासुरसम्भूतिगर्भविस्रंसनात्प्रभो ४०प्रसाद्य चक्रनामानं गोविन्दं जगतो गुरुम् ।श्रेयसे सर्वधर्मज्ञ शरणं व्रज केशवम् ४१संस्मरस्व च दैत्येन्द्रप्रह्लादं स्वपितामहम् ।भ्रष्टराज्येन भवता स्मर्तव्योऽहमिति प्रभो ४२स व्याजहार भगवांस्तवानुग्रहकाम्यया ।संस्मर्यतां महाभाग सर्वधर्मभृतां वरः ।विष्णुभक्तो महाबाहुः स ते श्रेयोऽभिधास्यति ४३शौनक उवाच ।एतद्वचनमाकर्ण्य तदा वैरोचनिर्बलिः ।ययौ तदार्घमादाय विष्णोश्चक्रस्य पूजकः ४४स ददर्श समायान्तमनन्तकरसङ्गिनम् ।चक्रमक्षयचक्रस्य विश्वस्य परिपालकम् ४५सस्मार च बलिः सर्वं प्रह्लादवचनं नृप ।जगाद यच्च गोविन्दः प्रसादसुमुखः प्रभुः ४६भक्तिनम्रस्ततो भूत्वा भूतभव्यभवत्प्रभोः ।तुष्टाव वासुदेवस्य चक्रमव्यक्तमूर्तिनः ४७ज्वालामालाकरालान्तमुद्यदिन्दुसमप्रभम् ।मध्याह्नार्कसमाभासं तेजसः पिण्डसंस्थितम् ४८तं दृष्ट्वा तेजसा राशिमुपसङ्गम्य चा विभुम् ।उवाच दैत्यशार्दूलः प्रणिपत्य कृताञ्जलिः ४९बलिरुवाच ।अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः ।नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ५०सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव ।कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ५१दुष्टराहुगलच्छेदशोणितारुणतारकम् ।तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ५२यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः ।तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ५३धारायां द्वादशादित्याः समस्ताश्च हुताशनाः ।धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ५४समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः ।यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ५५यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणम् ।दैत्यौजसां च नाशाय तन्नमामि सुदर्शनम् ।भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम् ।तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनम् ।नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलम् ।तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनम् ।स्वभावतेजसा युक्तं यदर्काग्निमयं महत् ।विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ५७दुर्वृत्तदैत्यमथनं जगतः परिपालकम् ।तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ५८करोतु मे सदा शर्म धर्मतां च प्रयातु मे ।प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ५९स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभम् ।प्रसीद संयुगेऽरिणां सुदर्शनसुदर्शनम् ।विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ६०जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् ।विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ६१शौनक उवाच ।एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत् ।बभूव प्रकटं चक्रं दैत्यचक्र्पतेस्तदा ६२ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम् ।अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ६३भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते ।त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ६४मेर्वादीनखिलाञ्शैलान्गङ्गाद्याः सरितस्तथा ।क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसञ्ज्ञितान् ६५वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान् ।नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ६६रुद्रादित्यांश्च मरुतां साध्यानां च महीपते ।सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ६७ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः ।नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ६८यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ ।यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ६९प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य ।सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ७०इति विष्णुधर्मेषु चक्रस्तवः । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP