विष्णुधर्माः - अध्याय ८७
विष्णुधर्माः
अथ सप्ताशीतितमोऽध्यायः ।
वसिष्ठ उवाच ।
तिलाभावे तथा दद्याद्घृतधेनुं यतव्रतः ।
कल्पयित्वा यथान्यायं तिलधेन्वा यतव्रतः ।
येन भूप विधानेन तदिहैकमनाः शृणु १
वासुदेवं जगन्नाथं पुरुषेशमजं विधुम् ।
सर्वपापनिहन्तारं घृतक्षीराभिषेचनात् ।
सम्पूज्य पूर्ववत्पुष्पगन्धधूपादिभिर्नरः २
अहोरात्रोषितो भूत्वा तत्परः प्रयतः शुचिः ।
परमेशमथो नाम्ना अभिष्टूय घृतार्चिषा ३
गव्यस्य सर्पिषः कुम्भं पुष्पमाल्यादिभूषितम् ।
कांस्योपधानसंयुक्तं सितवस्त्रयुगेन च ।
हिरण्यगर्भसहितं मणिविद्रुममुक्तिकैः ४
इक्षुयष्टिमयान्पादान्खुरान्रौप्यमयांस्तथा ।
सौवर्णे चाक्षिणी कुर्याच्छृङ्गे चागरुकाष्ठजे ५
सप्तधान्यमये पार्श्वे पत्त्रोर्णानि च कम्बलम् ।
कुर्यात्तुरुष्ककर्पूरौ घ्राणं फलमयान्स्तनान् ६
मणिरत्नसुवर्णानां सम्यक्कल्पनया कृताम् ।
तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम् ।
क्षौमसूत्रेण लाङ्गूलं रोमाणि सितसर्षपैः ।
ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ७
ईदृक्स्वरूपां सङ्कल्प्य घृतधेनुं नराधिप ।
तद्वत्कल्पनया धेन्वा घृतवत्सं प्रकल्पयेत् ८
तं च विप्रं महाभाग मनसैव घृतार्चिषम् ।
कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ९
एतां ममोपकाराय घृह्णीष्व त्वं द्विजोत्तम ।
प्रीयतां मम देवेशो घृताऋचिः पुरुषोत्तमः ।
इत्युदाहृत्य विप्राय दद्याद्धेनुं नरोत्तम १०
मणिमुक्तासुवर्णानां सम्यक्कल्पनया कृताम् ।
दत्त्वैकरात्रं स्थित्वा च घृताहारो नराधिप ।
मुच्यते सर्वपापेभ्यस्तथा दानफलं शृणु ११
घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः ।
तेषु लोकेषु लोकेश स पुण्येषूपजायते १२
पितुरूर्ध्वेन ये सप्त पुरुषाः सप्त येऽप्यधः ।
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषः १३
सकामानामियं व्युष्टिः कथिता नृपसत्तम ।
विष्णुलोकं नरा यान्ति निष्कामा घृतधेनुदाः १४
घृतमग्निर्घृतं सोमस्तन्मयाः सर्वदेवताः ।
घृतं प्रयच्छता दत्ता भवन्त्यखिलदेवताः १५
इति विष्णुधर्मेषु घृतधेनुकल्पः ।
N/A
References : N/A
Last Updated : February 28, 2024
TOP