संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४९

विष्णुधर्माः - अध्याय ४९

विष्णुधर्माः


अथैकोनपञ्चाशोऽध्यायः ।
युधिष्ठिर उवाच ।
कीदृग्विधास्ववस्थासु दत्तं दानं जनार्दन ।
इहलोकेष्वनुभवेत्पुरुषस्तद्ब्रवीहि मे १

गर्भस्थास्याथवा बाल्ये यौवने वार्द्धकेऽपि वा ।
अवस्थां कृष्ण कथय परं कौतूहलं हि मे २

भगवानुवाच ।
वृथाजन्मानि चत्वारि वृथादानानि षोडश ।
अपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः ।
परपाकं च येऽश्नन्ति परदाररताश्च ये ३

पर्यस्थानं वृथा दानं सदोषं परिकीर्तितम् ।
आरूढपतिते चैव अन्यायोपार्जितं च यत् ४

व्यर्थं चाब्राह्मणे दानं पतिते तस्करे तथा ।
गुरोश्चाप्रीतिजनके कृतघ्ने ग्रामयाजके ५

ब्रह्मबन्धौ च यद्दत्तं यद्दत्तं वृषलीपतौ ।
वेदविक्रयिणे चैव यस्य चोपपतिर्गृहे ६

स्त्रीनिर्जितेषु यद्दत्तं व्यालग्राहे तथैव च ।
परिचारके च यद्दत्तं वृथादानानि षोडश ७

तमोवृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च ।
वृथा दानं तु तत्सर्वं भुङ्क्ते गर्भस्थ एव तु ८

सेर्ष्यामन्युमनाश्चैव दम्भार्थं चार्थकारणात् ।
यो ददाति द्विजातिभ्यः स बालत्वे तदश्नुते १

यः शुद्धिः प्रयतो भूत्वा प्रसन्नमानसेन्द्रियः ।
प्रददाति द्विजातिभ्यो यौवनस्थस्तदश्नुते ।
देशे देशे च पात्रे च यो ददाति द्विजातिषु ।
मनसा परितुष्टेन यौवनस्थस्तदश्नुते १०

तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव ।
दातव्यानि द्विजातिभ्यः स्वर्गमर्गमभीप्सता ११

इति विष्णुधर्मेषु वृथादानानि ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP