संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ८४

विष्णुधर्माः - अध्याय ८४

विष्णुधर्माः


अथ चतुरशीतितमोऽध्याहः ।
वसिष्ठ उवाच ।
शृणुष्व च महीपाल व्रतं विष्णुपदत्रयम् ।
सर्वपापप्रशमनं यज्जगाद पुरा हरिः १

प्राचेतसाय दक्षाय दक्षश्चाह विवस्वते ।
विवस्वानलसिध्राय अलसिध्रोऽसिताय च २

असितेन समाख्यातमल्पायासं महाफलम् ।
तदिदं श्रूयतां सम्यग्व्रतं विष्णुपदत्रयम् ३

दक्षः प्रजापतिः पूर्वं विष्णुमाराध्य पृष्टवान् ।
बहुशस्तु विपन्नायां सृष्टावरिनिसूदन ४

दक्ष उवाच ।
भगवन्सर्वकऋत्वं ममादिष्टं स्वयम्भुवा ।
ब्रह्मणा देवदेवेश तवादेशेन केशव ५

विपन्ना च जगन्नाथ मम सृष्टिः कृता कृता ।
पूर्वकर्मविपाकेन व्याकुलश्चास्मि चेतसा ६

यथा च देव मुच्येय अस्मात्संसारसङ्कटात् ।
विषयासङ्गविषमात्तन्ममाज्ञापयाच्युत ७

वसिष्ठ उवाच ।
इत्येवमुक्तो दक्षेण देवदेवो जनार्दनः ।
आचष्ट दुःखक्षयदं व्रतं विष्णुपदत्रयम् ८

सर्वारम्भविनिष्पत्तिकारकं पापनाशनम् ।
संसारोच्छेदकं धीरैराचीर्णं स्थिरबुद्धिभिः ९

तदहं तव राजेन्द्रव्रतानामुत्तमोत्तमम् ।
कथयामि समाचष्ट यथा पूर्वं ममासितः १०

आषाढे मासि पूर्वासु तथाषाढासु पार्थिव ।
समभ्यर्च्य जगन्नाथमच्युतं नियतः शुचिः ११

पुष्पैर्हृद्यैस्तथा धूपैर्गन्धैः सागरुचन्दनैः ।
यथाविभवतश्चान्यैरन्नैर्वासोभिरेव च १२

क्षीरस्नेहस्थितं तद्वत्पैष्टं विष्णुपदद्वयम् ।
समभ्यर्च्य यथान्यायं केशवस्याग्रतो न्यसेत् १३

यवांश्च दद्याद्विप्राय भूगतिः प्रीयतामिति ।
नक्तं भुञ्जीत राजेन्द्रहविष्यान्नं सुसंस्कृतम् १४

तथोत्तरास्वाषाढासु श्रावणे मासि मानवः ।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् १५

विप्राय च यवान्दद्यात्प्रीणयित्वा च भूगतिम् ।
नक्तं भूञ्जीत राजेन्द्रनरो योषिदथापि वा १६

प्राप्ते भाद्रपदे मासि पूर्वभद्रपदासु च ।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् १७

विप्राय च यवान्दत्त्वा प्रीणयित्वा भुवोगतिम् ।
भुञ्जीत गोरसप्रायं नरो योषिदथापि वा १८

तद्वदाश्वयुजे दानं तद्वद्गोविन्दपूजनम् ।
पदद्वयस्य पूजां च प्रीणनं च भुवोगतेः १९

नक्तं भुञ्जीत गोरसं मौनमास्थितः ।
स्त्री वा राजेन्द्रपूर्वासु तथा भद्रपदासु वै २०

फाल्गुने फल्गुनी पूर्वा भवती ह यदा नृप ।
त्रिविक्रमं तदा देवं पूर्वोक्तविधिनार्चयेत् २१

पदद्वयं च देवस्य सम्यगभ्यर्च्य पार्थिव ।
हिरण्यं दक्षिणां दत्त्वा स्वर्गतिः प्रीयतामिति २२

नक्तं भुञ्जीत राजेन्द्रवह्निपाकविवर्जितम् ।
एष एवोत्तरायोगे चैत्रे मासे विधिः स्मृतः २३

एतज्जगाद गोविन्दः पुरा दक्षाय पृच्छते ।
सर्वपापहरं पुण्यं व्रतं विष्णुपदत्रयम् २४

यथोक्तमेतद्यो भक्तो करोति नृपसत्तम ।
सर्वकामानवाप्नोति केशवस्य वचो यथा २५

अपुत्रो लभते पुत्रमपतिर्लभते पतिम् ।
समागमं प्रोषितैश्च तथा प्राप्नोति बान्धवैः २६

द्रव्यमैश्वर्यमारोग्यं सौभाग्यं चारुरूपताम् ।
प्राप्नुवन्त्यखिलानेतान्पूजयित्वा पदत्रयम् २७

यान्यान्कामान्नरः स्त्री वा हृदयेनाभिवाञ्छन्ति ।
तांस्तांश्चाप्नोति निष्कामो विष्णुलोकं च गच्छति २८

पूर्वं कृत्वापि पापानि नरः स्त्री वा नराधिप ।
पदत्रयव्रतं चीर्त्वा मुच्यते सर्वकिल्बिषैः २९

इति विष्णुधर्मेषु विष्णुपदत्रयम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP