संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ७६ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ७६ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ७६ Translation - भाषांतर अथ षट्सप्ततितमोऽध्यायः ।शौनक उवाच ।निस्तेजसोऽसुरान्दृष्ट्वा समस्तानसुरेश्वरः ।प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् १बलिरुवाच ।तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना ।किमेते सहसैवाद्य ब्रह्मदण्डहता इव २दुरिष्टं किं नु दैत्यानां किं कृत्या वैरिनिर्मिता ।नाशायैषां समुद्भूता येन निस्तेजसोऽसुराः ३शौनक उवाच ।इत्यासुरवरस्तेन पृष्टः पौत्रेण पार्थिव ।चिरं ध्यात्वा जगादेदमसुरेन्द्रंतदा बलिम् ४प्रह्लाद उवाच ।चलन्ति गिरयो भूमिर्जहाति सहजां धृतिम् ।सद्यः समुद्राः! क्षुभिता दैत्या निस्तेजसः कृताः ५सूर्यादयो यथा पूर्वं तथा गच्छन्ति न ग्रहाः ।देवानां च परा लक्ष्मीः कारणैरनुमीयते ६महदेतन्महाबाहो कारणं दानवेश्वर ।न ह्यल्पमिति मन्तव्यं त्वया कार्यं सुरार्दन ७शौनक उवाच ।इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः ।अत्यन्तभक्तो देवेशं जगाम मनसा हरिम् ८स ध्यानपथगं कृत्वा प्रह्लादः स्वं मनोऽसुरः ।विचारयामास ततो यतो देवो जनार्दनः ९स ददर्शोदरेऽदित्याः प्रह्रादो वामनाकृतिम् ।अन्तःस्थान्बिभ्रतं सप्त लोकानादिप्रजापतिम् १०तदन्तश्च वसून्रुद्रानश्विनौ मरुतस्तथा ।साध्यान्विश्वे तथादित्यान्गन्धर्वोरगराक्षसान् ११विरोचनं सतनयं बलिं चासुरनायकम् ।जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् १२आत्मानमुर्वीगगनं वायुमम्भो हुताशनम् ।समुद्राद्रिद्रुमसरित्सरांसि पशवो मृगान् १३वयोमनुष्यानखिलांस्तथैव च सरीसृपान् ।समस्तलोकस्रष्टारं ब्रह्माणं भवमेव च १४ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन् ।सम्पश्यन्विस्मयाविष्टः प्रकृतिस्थः क्षणात्पुनः १५प्रह्लादः प्राह दैत्येन्द्रंबलिं वैरोचनिं तदा ।वत्स ज्ञातं मया सर्वं यदर्थं भवतामियम् ।तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः १७देवदेवो जगद्योनिरयोनिर्जगदादिकृत् ।अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः १८परापराणां परमः परः परवतामपि ।प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः १९स्थितिं कर्तुं जगन्नाथः सोऽदित्या गर्भतां गतः ।प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः ।त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्मादितिजोऽवतीर्णः २०न यस्य रुद्रोन च पद्मयोनिर्नेन्द्रोन सूर्येन्दुमरीचिमिश्राः ।जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः २१योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरमशेषः ।यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः २२यमक्षरं वेदविदो विदित्वा विशन्ति तं ज्ञानविधूतपापाः ।यस्मिन्प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् २३भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम् ।लयं च यस्मिन्प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् २४न यस्य रूपं न बलं प्रभावो न च स्वभावः परमस्य पुंसः ।विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् २५रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहीत्री रसना रसस्य ।श्रोत्रं च शब्दग्रहणे नराणां घ्राणं च गन्धग्रहणे नियुक्तम् २६ घ्राणचक्षुःश्रवणादिभिर्यः ।सर्वेश्वरो वेदितुमव्ययात्मा शक्यस्तमीड्यं मनसैव देवं ।ग्राह्यं नतोऽहं हरिमीशितारम् २७येनैकदंष्ट्राग्रसमुद्धृतेयं २७धराचला धारयतीह सर्वं ग्रस्त्वा स शेते सकलं जगद्यस् ।तमीड्यमीशं प्रणतोऽस्मि विष्णुम् २८शां!वतीर्णेन च येन गर्भे २८हृआनि तेजांसि महासुराणां नमामि तं देवमनन्तमीशम् ।अशेषसंसारतरोः कुठारम् २१देवो जगद्योनिरयं महात्मा २९स षोडशांशेन महासुरेन्द्रसुरेन्द्रमातुर्जठरं प्रविष्टो ।हृतानि वस्तेन बले वपूंषि ३०बलिरुवाच ।तात कोऽयं हरिर्नाम यतो न भयमागतम् ।सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ३१विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च ।अयःशिरा अश्वशिरा भङ्गकारो महाहनुः ३२प्रतापी प्रघसः शम्भुः कुर्कुराक्षश्च दुर्जयः ।एते चान्ये च मे सन्ति दैतेया दानवास्तथा ३३महाबला महावीर्या भूभारधरणक्षमाः ।येषामेकैकशः कृष्णो न वीर्यार्धेन सम्मितः ३४शौनक उवाच ।पौत्रस्यैतद्वचः श्रुत्वा प्रह्रादो दैत्यपुङ्गवः ।धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ३५विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः ।येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ३६देवदेवं महाभागं वासुदेवमजं विभुम् ।त्वामृते पापसङ्कल्पं कोऽन्य एवं वदिष्यति ३७य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः ।सब्रह्मकास्तथा देवाः स्थावरान्ताश्च भूतयः ३८त्वं चाहं च जगच्चेदं साद्रिद्रुमनदीनदम् ।समुद्रद्वीपलोकाश्च यच्चेङ्गं यच्च नेङ्गति ३९यस्यातिवन्द्यवन्द्यस्य व्यापिनः परमात्मनः ।एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ४०ऋते विनाशाभिमुखं त्वामेकमविवेकिनम् ।दुर्बुद्धिमजितात्मानं वृद्धानां शासनातिगम् ४१शोच्योऽहं यस्य वै गेहे जातस्तव पिताधमः ।यस्य त्वमीदृशः पुत्रो देवदेवावमन्यकः ४२तिष्ठत्वनेकसंसारसंहृताघविनाशनी ।कृष्णे भक्तिरहं तावदवेक्ष्यो भवतो न किम् ४३न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः ।इति जानात्ययं लोको भवांश्च दितिजाधमः ४४जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम ।निन्दां करोषि च कथमकुर्वन्गौरवं मम ४५विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले ।ममापि सर्वजगतां गुरुर्नारायणो गुरुः ४६निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ ।यस्मात्तस्मादिहैश्वर्यादचिराद्भ्रशमेष्यसि ४७मा देवो मा जगन्नाथो बले मासौ जनार्दनः ।भवत्वहमवेक्ष्यस्ते प्रीतिमानत्र मे गुरुः ४८एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम् ।नापेक्षिता वयं यस्मात्तस्माच्छापं ददामि ते ४९यथा मे शिरसश्छेदादिदं गुरुतरं बले ।त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत ५०यथा न कृष्णादपरं परित्राणं भवार्णवे ।तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ५१शौनक उवाच ।इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम् ।प्रसादयामास गुरुं प्रणिपत्य पुणः पुनः ५२बलिरुवाच ।प्रसीद तात मा कोपं कुरु मोहहते मयि ।बलावलेपमत्तेन मयैतद्वाक्यमीरितम् ५३मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम ।यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ५४राज्यभ्रंशं वसुभ्रंशं सम्प्राप्स्यामीति न त्वहम् ।विषण्णोऽस्मि यथा तात तवैवाविनये कृते ५५त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम् ।संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ५६तत्प्रसीद न मे कोपं कर्तुमर्हसि दैत्यप ।त्वत्कोपहेतुदुष्टोऽहं परितप्ये न शापतः ५७प्रह्लाद उवाच ।वत्स कोपेन मोहो मे जनितस्तेन ते मया ।शापो दत्तो विवेकश्च मोहेनापहृतो मम ५८यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर ।तत्कथं सर्वगं ज्ञानन्हरिं कञ्चिच्छापाम्यहम् ५९योऽयं शापो मया दत्तो भवतोऽसुरपुङ्गव ।भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीदथाः ६०अद्यप्रभृति देवेशे भगवत्यच्युते हरौ ।भवेथा भक्तिमानीशः स ते त्राता भविष्यति ६१शापं प्राप्य च मां वीर संस्मरेथाः स्मृतस्त्वया ।तथा तथा यतिष्यामि श्रेयसा योक्ष्यते यथा ६२एवमुक्त्वा स दैत्येन्द्रोविरराम महामतिः ।अजायत स गोविन्दो भगवान्वामनाकृतिः ६३अवतीर्णे जगन्नाथे तस्मिन्सर्वमशीशमत् ।यदासुरमभूद्दुःखं देवानामदितेस्तथा ६४ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः ।धर्मे च सर्वभूतानां तदा मतिरजायत ६५नोद्वेगश्चाप्यभूद्देहे मनुजानां जनेश्वर ।तथा हि सर्वभूतानां भूम्यम्बरदिवौकसाम् ६६तं जातमात्रं भगवान्ब्रह्मा लोकपितामहः ।जातकर्मादिकाः कृत्वा क्रियास्तुष्टाव पार्थिव ६७ब्रह्मोवाच ।जयाद्येश जयाजेय जय सर्वात्मकात्मक ।जय जन्मजरापेत जयानन्त जयाच्युत ६९जयाजित जयाशेष जयाव्यक्त स्थिते जय ।परमार्थार्थ सर्वज्ञ ज्ञान ज्ञेयात्मनिःसृत ६१जयाशेषजगत्साक्षिञ्जय कर्तर्जगद्गुरोः ।जगतो जगदन्तेऽन्त स्थितौ पालयिता जय ७०जयाखिल जयाशेष जयाखिलहृदि स्थित ।जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ७१मुमुक्षुभिरनिर्देश्य स्वयन्दृष्ट जयेश्वर ।योगिभिर्मुक्तिफलद दमादिगुणभूषणैः ७२जयातिसूक्ष्म दुर्ज्ञेय जगत्स्थूल जगन्मय ।जय स्थूलातिसूक्ष्म त्वं जयातीन्द्रिय सेन्द्रिय ७३जय स्वमायायोगस्थ शेषभोगशयाक्षर ।जयैकदंष्ट्राप्रान्तान्त समुद्धृतवसुन्धर ७४नृकेसरिञ्जयारातिवक्षःस्थलविदारण ।साम्प्रतं जय विश्वात्मन्मायावामन केशव ७५निजमायापटच्छन्न जगद्धातर्जनार्दन ।जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो ७६वर्धस्व वर्धितानेकविकारप्रकृते हरे ।त्वय्येषा जगतामीश संस्थिता धर्मपद्धतिः ७७न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे ।ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ७८त्वन्मायापटसंवीते जगत्यत्र जगत्पते ।कस्त्वां वेत्स्यति सर्वेशं त्वत्प्रसादं विना नरः ७९त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो ।स एव केवलं देव वेत्ति त्वां नेतरो जनः ८०तदीश्वरेश्वरेशान विभो वर्धस्व भावन ।प्रभावायास्य विश्वस्य विश्वात्मन्पृथुलोचन ८१शौनक उवाच ।एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः ।प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् ८२स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च ।मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ८३भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि प्रतिश्रुतम् ।यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ८४सोऽहं तथा करिष्यामि यथेन्द्रोजगतः पतिः ।भविष्यति सहस्राक्षः सत्यमेतद्ब्रवीमि ते ८५ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान् ।यज्ञोपवीतं भगवान्ददौ तस्मै बृहस्पतिः ८६आषाढमददद्दण्डं मरीचिर्ब्रह्मणः सुतः ।कमण्डलुं वसिष्ठश्च कौश्यं वेदमथाङ्गिराः ।अक्षसूत्रं च पुलहः पुलस्त्यः सितवाससी ८७उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः ।शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः ८८स वामनो जटी दण्डी छत्त्री धृतकमण्डलुः ।सर्वदेवमयो भूप बलेरध्वरमभ्ययात् ८९यत्र यत्र पदं भूप भूभागे वामनो ददौ ।ददाति भूमिर्विवरं तत्र तत्रातिपीडिता ९०स वामनो जडगतिर्मृदु गच्छन्सपर्वताम् ।साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम् ।ततः संशयमापन्नाः सर्वे दैतेयदानवाः ९१इति विष्णुधर्मेषु वामनस्तवः । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP