संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४३

विष्णुधर्माः - अध्याय ४३

विष्णुधर्माः



अथ त्रिचत्वारिंशोऽध्यायः ।
शुक्र उवाच ।
इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः ।
आराधयामास हरिं लेभे कामांश्च वाञ्छितान् १

तथा त्वमपि दैत्येन्द्रकेशवाराधनं कुरु ।
आराध्य तं जगन्नाथं न कश्चिदवसीदति २

वसिष्ठ उवाच ।
इति शुक्रवचः श्रुत्वा प्रह्लादो मधुसूदनम् ।
आराध्य प्राप्तवान्कृत्स्नं त्रैलोकैश्वर्यमूर्जितम् ३

एतन्मयोक्तं सकलं तव भूमिप पृच्छतः ।
अनाराध्याच्युतं देवं कः कामान्प्राप्नुते नरः ४

शौनक उवाच ।
अम्बरीसो नरपतिर्विष्णोर्माहात्म्यमुत्तमम् ।
श्रुत्वा बभूव सततं केशवार्पितमानसः ५

एवं त्वमपि कौरव्य यदि मुक्तिमभीष्यसि ।
भोगान्वा विलुपान्देवात्तस्मादाराधयाच्युतम् ६

ददाति वाञ्छितान्कामान्सकामैरर्चितो हरिः ।
मुक्तिं ददाति गोविन्दो निष्कामैरभिपूजितः ७

शतानीक उवाच ।
भगवानवतीर्णोऽभून्मर्त्यलोकं जनार्दनः ।
भारावतरणार्थाय भुवो भूतपतिर्हरिः ८

मानुषत्वे च गोविन्दो मम पूर्वपितामहैः ।
चकार प्रीतिमतुलां सामान्यपुरुषो यथा ९

सारथ्यं कृतवांश्चैव तेषां सर्वेश्वरो हरिः ।
निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः १०

उपकारी महाभागः स तेषां सर्ववस्तुषु ।
केशवः पाण्डुपुत्राणां सुतानां जनको यथा ११

धन्यास्ते कृतपुण्याश्च मम पाण्डुसुता मताः ।
विविशुर्ये परिष्वङ्गे गोविन्दभुजपञ्जरम् १२

राज्यहेतोररीञ्जघ्नुरकस्मात्पाण्डुनन्दनाः ।
सप्तलोकैकनाथेन येऽभवन्नेकशायिनः १३

आत्मानमवगच्छामि भगवन्धूतकल्मषम् ।
जातं निर्धूतपापेऽस्मिन्कुले विष्णुपरिग्रहे १४

एवं देववरस्तेषां प्रसादसुमुखो हरिः ।
पृच्छतां कच्चिदाचष्टे किञ्चिद्गुह्यं महात्मनाम् १५

गुह्यं जनार्दनं यांस्तु धर्मपुत्रो युधिष्ठिरः ।
पप्रच्छ धर्मानखिलांस्तन्ममाख्यातुमर्हसि १६

धर्मार्थकाममोक्षेषु यद्गुह्यं मधुसूदनः ।
तेषामवोचद्भगवाञ्श्रोतुमिच्छामि तत्त्वहम् १७

शौनक उवाच ।
बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः ।
पुरा प्रोवाच राजेन्द्रप्रसादसुमुखो हरिः १८

शरतल्पगताद्भीष्माद्धर्माञ्श्रुत्वा युधिष्ठिरः ।
पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु १९

इति विष्णुधर्मेषु पुलस्त्यदाल्भ्यसंवादः ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP