संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ९८ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ९८ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ९८ Translation - भाषांतर अथाष्टनवतितमोऽध्यायः ।शतानीक उवाच ।आख्यातमेतदखिलं यत्पृष्टोऽसि मया द्विज ।जायते शमकामानां प्रशमः कर्मणां यथा १किन्त्वत्र भवता प्रोक्ता प्रशान्तिः सर्वकर्मणाम् ।नात्यन्तनाशः शान्तानामुद्भवो भविता पुनः ।निजकारणमासाद्य स्तोकस्याग्नेर्यथा तृणम् २तदाचक्ष्व महाभाग प्रसादसुमुखो मम ।सङ्क्षयो येन भवति मूलोद्वर्तेन कर्मणाम् ३शौनक उवाच ।न कर्मणां क्षयो भूप जन्मनामयुतैरपि ।कर्मक्षयमृते योगाद्योगाग्निः क्षपयेत्परम् ४शतानीक उवाच ।तं योगं मम विप्रर्षे प्रणतस्याभियाचतः ।त्वमाचक्ष्व क्षयो येन जायतेऽखिलकर्मणाम् ५शौनक उवाच ।हिरण्यगर्भो भगवाननादिर्मुनिभिः पुरा ।पृष्टः प्रोवाच यं योगं तं समासेन मे शृणु ६अनादिकालप्रसृता यथा विद्या महीपते ।तथा तत्क्षयहेतुत्वाद्योगो विद्यामयोऽव्ययः ७तं परम्परया श्रुत्वा मुनयोऽत्र दयालवः ।प्रकाशयन्ति भूतानामुपकारचिकीर्षवः ८देवा महर्षयो राजंस्तथा राजर्षयोऽखिलाः ।श्रेयोऽर्थिनः पुरा जग्मुः शरणं कपिलं किल ९ते तमूचुर्भवान्नित्यं दयालुः सर्वजन्तुषु ।सोऽस्मानुद्धर सम्मग्नानितः संसारकर्दमात् १०यच्छ्रेयः सर्ववर्णानां स्त्रीणामप्युपकारकम् ।यस्मात्परतरं नान्यच्छ्रेयस्तद्ब्रूहि नः प्रभो ११आदावन्ते च मध्ये च नॄणां यदुपकारकम् ।अपि कीटपतङ्गानां तन्नः श्रेयः परं वद १२इत्युक्तः कपिलः सर्वैर्देवैर्देवर्षिभिस्तथा ।नास्ति योगात्परं श्रेयः किञ्चिदित्युक्तवान्पुरा १३यथा जन्मायुतैः क्लेशाः स्थैर्यं चेतस्युपागताः ।तच्छान्तये तथा योगो बहुजन्मार्जितो भवेत् १४स एवाभ्यसतां नॄणां तीव्रसंवेगिचेतसाम् ।आसन्नतां प्रयात्याशु विष्णुः सन्न्यस्तकर्मणाम् १५ब्राह्मणक्षत्रियविशां स्त्रीशूद्रस्य च पावनम् ।शान्तये कर्मणां नान्यद्योगादस्ति हि मुक्तये १६अभ्यस्तं जन्मभिर्नैकैः शुभजातिभवेषु यत् ।योगस्वरूपं तत्तेषां स्त्रीशूद्रत्वे व्यवस्थितम् १७योगाभ्यासो नृणां येषां नास्ति जन्मान्तराहृतः ।योगस्य प्राप्तये तेषां शूद्रवैश्यादिकः क्रमः १८स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्यत्वमाप्नुयात् ।ततश्च क्षत्रियो विप्रः क्रियाहीनस्ततो भवेत् १९अनूचानस्तथा यज्वी कर्मन्यासी ततः परम् ।ततो ज्ञानित्वमभ्येत्य योगी मुक्तिं क्रमाल्लभेत् २०येषां तु जातिमात्रेण योगाभ्यासस्तिरोहितः ।आस्ते तत्रैव मुच्यन्ते जातिहेतौ क्षयङ्गते २१असत्कर्म कृतं पूर्वमसज्जातिप्रदायि यत् ।तस्मिन्योगाग्निना दग्धे तस्य जातेर्बलं कुतः २२यथा वातेरितः कक्षं दहत्यूर्ध्वशिखोऽनलः ।सर्वकर्माणि योगाग्निर्भस्मसात्कुरुते तथा २३यथा दग्धतुषं बीजमबीजत्वान्न जायते ।योगदग्धैस्तथा क्लेशैर्नात्मा सञ्जायते पुनः २४अदृष्टा दृष्टतत्त्वानां योगिनां योगविच्युतिः ।येषां भवति योगित्वं प्राप्नुवन्तीह ते पुनः २५सज्जातिप्रापकं कर्म कृतं तेन तदात्मना ।जातिं प्रयान्ति विप्राद्या योगकर्मानुरञ्जिताः २६तत्राप्यनेकजन्मोत्थयोगाभ्यासानुरञ्जिताः ।तेनैवाभ्यासयोगेन ह्रियन्ते तत्त्वविद्यया २७जैगीषव्यो यथा विप्रो यथा चैवासितादयः ।हिरण्यनाभो राजन्यस्तथा वै जनकादयः २८पूर्वाभ्यस्तेन योगेन तुलाधारादयो विशः ।सम्प्राप्ताः परमां सिद्धिं शूद्राः! पैलवकादयः २९मैत्रेयी सुलभा गार्गी शाण्डिली च तपस्विनी ।स्त्रीत्वे प्राप्ताः परां सिद्धिमन्यजन्मसमाधितः ३०धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते ।वर्णावरत्वे सम्प्राप्ताः संसिद्धिं श्रवणी तथा ३१पूर्वाभ्यस्तं च तत्तेषां योगज्ञानं महात्मनाम् ।सुप्तोत्थितप्रत्ययवदुपदेशादिना विना ३२तस्माद्योगः परं श्रेयो विमुक्तिफलदो हि यः ।विमुक्तौ सुखमत्यन्तं सम्मोहस्त्वितरत्सुखम् ३३शौनक उवाच ।एतत्ते सर्वमाख्यातं मया मनुजकुञ्जर ।श्रेयः परतरं योगात्किञ्चिदन्यन्न विद्यते ३४इति विष्णुधर्मेषु योगप्रशंसा । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP