विष्णुधर्माः - अध्याय १०२
विष्णुधर्माः
अथ द्व्यधिकशततमोऽध्यायः ।
शतानीक उवाच ।
श्रुतं भगवतो रूपमद्वैते यत्त्वयोदितम् ।
विष्णोर्भृगुकुलश्रेष्ठ यच्च द्वैते महात्मनः १
अविद्याभिन्नदृग्बुद्धिः पुरुषो मुनिपुङ्गव ।
द्वैतभूते जगत्यस्मिन्नद्वैतं भावयेत्कथम् २
क्रोधलोभादयो दोषा ये मुक्तेः परिपन्थिनः ।
विनिवृत्तिरूपा येन तेषां येन वदेर्ह तम् ३
सर्वेश्वरेश्वरेशस्य च रूपं हरेः परम् ।
तच्चाहं श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ४
शौनक उवाच ।
सम्यक् पृष्टमिदं भूप भवता गुह्यमुत्तमम् ।
द्वैताद्वैतकथालापसम्बन्धादुपकारकम् ५
पुरा धर्मगृहे जज्ञे चतुर्मूर्तिर्नरेश्वर ।
देवदेवो जगद्धाता परमात्मा जनार्दनः ६
जगतः पालनार्थाय दुर्वृत्तनिधनाय च ।
स्वेच्छया भगवान्विष्णुः सम्भवत्येव भूतले ७
स्वर्गे वापि भूलोके वा भुवर्लोकेऽथवा विभुः ।
यत्र वा रोचते तत्र चिकीर्षुर्जगतो हितम् ८
तुरीयांशेन धर्मस्य भगवान्भूतभावनः ।
यदावतारं कृतवांस्तदा तच्चरितं शृणु ९
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः १०
तेषां नारायणनरौ गन्धमादनपर्वते ।
आत्मन्यात्मानमाधाय तेपते परमं तपः ११
ध्यायमानावनौपम्यं स्वकारणमकारणम् ।
वासुदेवमनिर्देश्यमप्रतर्क्यमजं परम् ।
योगयुक्तौ महामौनमास्थितौ गुरुतेजसौ १२
तयोस्तपःप्रभावेण न तताप दिवाकरः ।
ववौ चाशङ्कितो वायुः सुखस्पर्शो ह्यसर्करः १३
शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः ।
सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ १४
तयोर्गौरवभारार्ता पृथिवी पृथिवीपते ।
चचाल भूधराश्चेलुश्चुक्षुभुश्च महाब्धयः १५
देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः ।
बभूवुरवनीपाल परमं क्षोभमागताः १६
देवराजस्ततः शक्रः सन्त्रस्तस्तपसस्तयोः ।
युयोजाप्सरसः शुभ्रास्तयोर्विघ्नचिकीर्षया १७
इन्द्रउवाच ।
रम्भे तिलोत्तमे कुण्ठे घृताचि ललितावति ।
उम्लोचे सुभ्रुप्रम्लोचे सौरभेऽपि मदोद्धते १८
अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि ।
विलोभनीयं बिभ्राणा वपुर्मन्मथबोधनम् ।
गन्धमादनमासाद्य कुरुध्वं वचनं मम १९
नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ ।
तप्येते धर्मतनयौ तपः परमदुश्चरम् २०
तावस्माकं वरारोहाः कुर्वाणौ परमं तपः ।
कर्मातिशयदुःखार्तिप्रदावयतिनाशकौ २१
तद्गच्छत न भीः कार्या भवतीभिरिदं वचः ।
स्मरः सहायो भविता वसन्तश्च वराङ्गनाः २२
रूपं च वः समालोक्य मदनोद्दीपनं परम् ।
कन्दर्पवशमभ्येति विवशः को न मानवः २३
शौनक उवाच ।
इत्युक्ता देवराजेन मदनेन समं तदा ।
जग्मुरप्सरसः सर्वा वसन्तश्च महीपते २४
गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम् ।
चकार माधवो रम्यं प्रोत्फुल्लवनपादपम् २५
प्रववौ दक्षिणः सद्यो मलयानुगतोऽनिलः ।
भृङ्गमालारुतरवैर्रमणीयमभूद्वनम् २६
गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः ।
किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः २७
वराङ्गनाश्च ताः सर्वा नरनारायणावृषी ।
विलोभयितुमारब्धा वराङ्गललितैः स्मितैः २८
जगुर्मनोहरं काश्चिन्ननृतुश्चात्र चापराः ।
अवादयंस्तथैवान्या मनोहरतरं नृप २९
हावैर्भावैः स्मितैस्त्रासैस्तथान्या वल्गुभाषितैः ।
तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ३०
तथापि न तयोः कश्चिन्मनसः पृथिवीपते ।
विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ३१
निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः ।
वासुदेवार्पणे स्वच्छे तथैव मनसी तयोः ३२
पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः ।
यथा न याति न ययौ तथा तन्मानसं क्वचित् ३३
सर्वभूतहितौ ब्रह्म वासुदेवमयं परम् ।
मन्यमानौ न रागस्य द्वेषस्य च वशङ्गतौ ३४
स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः ।
विद्यामयं दीपयुतमन्धकारमिवालयम् ३५
पुष्पोज्ज्वलांस्तरुवरान्वसन्तं दक्षिणानिलम् ।
ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ३६
यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम् ।
ददृशातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ३७
दाहाय नानलो वह्नेर्नापःक्लेदाय चाम्भसः ।
तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ३८
ततो विज्ञानविज्ञातपरब्रह्मस्वरूपयोः ।
मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ३९
ततो गुरुतरं यत्नं वसन्तमदनौ नृप ।
चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनः पुनः ४०
अथ नारायणो धैर्यगाम्भीर्योदार्यमानसः ।
ऊरोरुत्पादयामास तां वरोरुबलां तदा ४१
त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते ।
गुणलाघवमभ्येति यस्याः सन्दर्शनादनु ४२
तां विलोक्य महीपाल चकम्पे माधवानिलम् ।
वसन्तो विस्मयं यातः संयातः संस्मरं स्मरः ४३
रम्भातिलोत्तमाद्याश्च विलक्षा देवयोषितः ।
न रेजुरवनीपाल तल्लक्षहृदयेक्षणाः ४४
ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः ।
प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ४५
प्रसीदतु जगद्धाता यस्य देवस्य मायया ।
मोहिताः स्म विजानीमो नान्तरं वन्द्यनिन्द्ययोः ४६
प्रसीदतु स नो देवो यस्य रूपमिदं द्विधा ।
धाम भूतस्य लोकानामनादेरत्र तिष्ठति ४७
नरनारायणौ देवौ शार्ङ्गचक्रायुधावुभौ ।
आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ४८
निधानं सर्वविद्यानां सर्वपापेन्धनानलः ।
नारायणो नो भगवान्सर्वपापं व्यपोहतु ४९
शार्ङ्गचक्रायुधः श्रीमानात्मज्ञानमयोऽनघः ।
नरः समस्तपापानि हत्वात्मा सर्वदेहिनाम् ५०
जटाकलापबन्धोऽयमनयोरक्षयात्मनोः ।
सौम्या च दृष्टिः पापानि हन्तु सर्वाणि नः शुभा ५१
प्रसीदतु नरोऽस्माकं तथा नारायणोऽव्ययः ।
अपराधः कृतोऽस्माभिर्ययोरव्यक्तजन्मनोः ५२
क्व मूर्तिरैश्वर्यगुणैर्युक्ता दिव्यैर्महात्मनोः ।
क्व नः शरीरकाणीदृग्मिश्रकर्मचितानि वै ५३
तथाप्यविद्यादुष्टेन मनसा यः कृतो हि वाम् ।
अस्माभिरपराधोऽयं क्षम्यतां सुमहाद्युती ५४
शरणं च प्रपन्नानां तवास्मीति च वादिनाम् ।
प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधवः ५५
एष एव वरोऽस्माकमविवेकाहृतो महान् ।
त्रैलोक्यवन्द्यौ यन्नाथौ विलोभयितुमागताः ५६
प्रसीद देव विज्ञानघनमूढदृशामपि ।
भवन्ति सन्तः सततं सद्धर्मन्यवतारकाः ५७
दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमीदृशम् ।
त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ५८
तेन सत्येन सत्यात्मन्परमात्मन्सनातनम् ।
नारायण प्रसीदेति सर्वलोकपरायण ५९
प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण ।
प्रसीद योगिनामीश नर सर्वगताच्युत ६०
नमस्यामो नरं देवं तथा नारायणं हरिम् ।
नमो नराय नम्याय नमो नारायणाय च ६१
प्रसन्नानामनाथानामपराधवतां प्रभुः ।
शं करोतु नरोऽस्माकं शं नारायण देहि नः ६२
शौनक उवाच ।
एवमभ्यर्थितः स्तुत्या रागद्वेषादिवर्जितः ।
प्राहेशः सर्वभूतानां साध्यो नारायणो नृप ६३
स्वागतं मधवे काम भवतोऽप्सरसामपि ।
यत्कार्यमागतानां व इहास्माभिस्तदुच्यताम् ६४
यूयं संसिद्धये नूनमस्माकं वलशत्रुणा ।
सम्प्रेषितास्ततोऽस्माकं नृत्तगेयादिदर्शितम् ६५
न वयं नृत्तगीतेन नाङ्गचेष्टादिभाषितैः ।
लुभ्यामो विषतो मन्ये विषया दारुणात्मकाः ६६
शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः ।
तदा नृत्तादयो भावाः कथं लोभप्रदायिनः ६७
ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च ।
माधवस्य च शक्रोऽपि स्वास्थ्यं यात्वविशङ्कितः ६८
योऽसौ परस्मात्परमः पुरुषात्परमेश्वरः ।
परमात्मा हृषीकेशः स्थावरस्य चरस्य च ६९
उत्पत्तिहेतुरन्ते च यस्मिन्सर्वं प्रलीयते ।
स सर्ववासिदेवत्वाद्वासुदेवेत्युदाहृतः ७०
वयमंशांशकास्तस्य चतुर्व्यूहस्य मायिनः ।
तदादेशितवर्त्मनो जगद्बोधाय देहिनः ७१
तं सर्वभूतं सर्वेशं सर्वत्र समदर्शिनः ।
पश्यन्तः कुत्र रागादीन्करिष्यामो विभेदकान् ७२
वसन्ते मयि चेन्द्रेच भवतीषु तथा स्मरे ।
यदा स एव विश्वात्मा तदा द्वेषादयः कथम् ७३
तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ७४
तथेन्द्रियाण्यहङ्कारो बुद्धिश्च न पृथग्यतः ।
समदृष्टिर्यतः कुत्र रागद्वेषौ प्रवर्ततः ७५
आत्मा चायमभेदेन यतः सर्वेषु जन्तुषु ।
सर्वेश्वरेश्वरो विष्णुः कुत्र रागादयस्ततः ७६
ब्रह्माणमिन्द्रमीशानमादित्यान्मरुतोऽखिलान् ।
विश्वेदेवानृषीन्साध्यान्वसून्पितृगणांस्तथा ७७
यक्षराक्षसभूतादीन्नागसर्पसरीसृपान् ।
मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ७८
मक्षिकामशकादंशाञ्शलभानलसान्कृमीन् ।
गुल्मवृक्षलतावल्लित्वक्सारतृणजातिजान् ७९
यच्च किञ्चिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः ।
मन्यध्वं रूपमेकस्य तत्सर्वं परमात्मनः ८०
जानमानः कथं विष्णुमात्मानं परमं च यत् ।
रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ८१
सर्वभूतस्थिते विष्णौ सर्वगे सर्वधातरि ।
निपात्यतां पृथग्भूते कुत्र रागादिको गणः ८२
एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः ।
तन्मयत्वैकभूतेषु रागाद्यवसरः कुतः ८३
सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी ।
पृथग्विज्ञानमत्रैव लोकसंव्यवहारवत् ८४
भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम् ।
जगद्यदेतदखिलं तदा भेदः किमात्मकः ८५
भवन्ति लयमायान्ति समुद्रेसलिलोर्मयः ।
न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ८६
यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः ।
भवन्ति नाग्निभेदेन तथैतद्ब्रह्मणो जगत् ८७
भवतीभिश्च यत्क्षोभमस्माकं स पुरन्दरः ।
कारयत्यसदेतच्च विवेकाधारचेतसाम् ८८
भवत्यः स च देवेन्द्रोलोकाश्च ससुरासुराः ।
समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ८९
यथेयं चारुसर्वाङ्गी भवतीनां मयोरुतः ।
दर्शिता दर्शयिष्यामि तथात्रैवाखिलं जगत् ९०
प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम् ।
यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ९१
किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते ।
तारतम्यं सुरूपत्वे सततं भिन्नदर्शिनाम् ९२
भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम् ।
मयेयं दर्शिता तन्वी ततस्तच्छममिच्छता ९३
यस्मान्मदूरोरुद्भूता इयमिन्दीवरेक्षणा ।
उर्वशी नाम कल्याणी भविष्यति ततोऽप्सराः ९४
तदियं देवराजाय नीयतां वरवर्णिनी ।
भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ९५
वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात् ।
तपश्चर्या न चाप्राप्यफलं प्राप्तुमभीप्सितम् ९६
सन्मार्गमस्य जगतो दर्शयिष्यन्करोम्यहम् ।
तपो नरेण सहितो जगतः पालनोद्यतः ९७
यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर ।
तमहं वारयिष्यामि निर्वृतो भव वासव ९८
कर्तासि चेत्त्वमाबाधामदुष्टस्येह कस्यचित् ।
तवापि शास्तैतदहं प्रवर्तिष्याम्यसंशयम् ९१
एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति ।
उपकाराय जगतामवतीर्णोऽस्मि वासव १००
या चेयमुर्वशी मत्तः समुद्भूता पुरन्दर ।
त्रेताग्निहेतुभूतेयमैलं प्राप्य भविष्यति १०१
इति विष्णुधर्मेषूर्वशीशम्भवः ।
N/A
References : N/A
Last Updated : February 28, 2024
TOP