संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|विष्णुधर्माः| अध्याय १०० विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय १०० विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय १०० Translation - भाषांतर अथ शततमोऽध्यायः ।शतानीक उवाच ।यमांश्च नियमांश्चैव श्रोतुमिच्छामि भार्गव ।यैर्धूतकल्मषो योगी मुक्तिभागुपजायते १शौनक उवाच ।अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।यमास्तवैते कथिता नियमानपि मे शृणु २सन्तोषशौचस्वाध्यायास्तपश्चेश्वरभावना ।नियमाः कौरवश्रेष्ठ योगसंसिद्धिहेतवः ३एभिर्मूलगुणैः सद्भिर्विष्णोर्भक्तिमतस्तथा ।श्रद्दधानस्य चान्यानि योगाङ्गानि निबोध मे ४मध्यमप्राणमचलं सुखदायि शुभं शुचि ।योगसंसिद्धये भूप योगिनामासनं स्मृतम् ५प्राणायामस्त्रिधा वायोः प्राणस्य हृदि धारणम् ।कुम्भरेचकपूराख्यास्तस्य भेदास्त्रयो नृप ६एते निबोध मात्रास्तु नालम्बनगुणान्विताः ।सालम्बनश्चतुर्थोऽन्यो बाह्यान्तर्विषयः स्मृतः ७इन्द्रियाणां स्वविषयाद्बुद्धिः प्रत्येकशस्तु यत् ।करोत्याहरणं ज्ञेयः प्रत्याहारः स पण्डितैः ८शुभे ह्येकत्र विषये चेतसो यच्च धारणम् ।निश्चलत्वात्तु सा सद्भिर्धारणेत्यभिधीयते ९पौनःपुन्येन तत्रैव विषये सैव धारणा ।ध्यानाख्या लभते राजन्समाधिमपि मे शृणु १०अर्थमात्रं च यद्ग्राह्ये चित्तमादाय पार्थिव ।अर्थस्वरूपवद्भाति समाधिः सोऽभिधीयते ११कथितानि तवैतानि योगाङ्गानि कृतैस्तु यैः ।उत्कर्षो जायते व्यस्तैः समस्तैर्हेयसङ्क्षयः १२योगाङ्गान्यङ्गभूतानि ध्यानस्यैतान्यशेषतः ।ध्यानमप्यवनीपाल योगस्याङ्गत्वमर्छति १३ध्यानमेकव्रतानां तु कुशलाकुशलेषु तत् ।अर्थेष्वाशक्तिमभ्येति सर्वदैव नरेश्वर १४शुभाव्यावर्तितं ध्यानमविवेकस्य जायते ।संसारदुःखदं राजन्नशुभालम्बि तद्यतः १५तदेवाकृष्य दुष्टेभ्यो विषयेभ्यः शुभाशुभम् ।सर्वसंसारकान्तारपारमभ्येति मानवः १६दुःखदाघप्रशमने या चिन्ताहर्निशं नृणाम् ।तद्ध्यानमविशुद्धार्थं सुखदानामपालने १७कथं संसारबन्धोऽयमस्मान्मुक्तिः कथं त्विति ।मनोवृत्तिर्मनुष्याणां ध्यानमेतच्छुभं द्विधा १८शुद्धमप्येतदखिलं लोभकार्यतयानया ।सुखाभिलाषो यन्मुक्तौ बन्धुदुःखादिपीडनात् १९अवाञ्छितफलं लोभमलोभांशविवर्जितम् ।शुभाशुभफलं ध्यानमरक्तं द्विष्टमिष्यते २०दृष्टानुमानागमिकं ध्यानस्यालम्बनं त्रिधा ।न हि निर्विषयं ध्यानं मूढवृत्तिरिवेष्यते २१प्राक् स्थूलेषु पदार्थेषु ततः सूक्ष्मेषु पण्डितः ।ध्यानं कुर्वीत तत्पश्चात्परमाणौ महीपते २२ध्यानाभ्यासपरस्यैवं हेयालम्बनबाधने ।तच्छान्तये तद्विपक्षभावनामेव भावयेत् २३तच्चित्तस्तन्मयो ज्ञानी भवत्यस्मान्न दोषवत् ।कुर्वीतालम्बनं काले कस्मिंश्चिदपि पार्थिव २४आब्रह्मस्तम्बपर्यन्तजगदन्तर्व्यवस्थिताः ।प्राणिनः कर्मजनितसंस्कारवशवर्तिनः २५यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः ।अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः २६पश्चादुद्भूतबोधाश्च ध्याता नैवोपकारकाः ।नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः २७तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत् ।ध्येयं ध्यानविदां सम्यग्यद्विष्णोः परमं पदम् २८न तद्यज्ञैर्न दानेन न तपोभिर्न तद्व्रतैः ।पश्यन्त्येकाग्रमनसो ध्यानेनैव सनातनम् २९तच्च विष्णोः परं रूपमनिर्देश्यमजं स्थिरम् ।यतः प्रवर्तते सर्वं लयमभ्येति यत्र च ३०अनिद्रमजमस्वप्नमरूपानाम शाश्वतम् ।योगिनस्तं प्रपश्यन्ति ज्ञानदृश्यं सनातनम् ३१निर्धूतपुण्यपापा ये ते विशन्त्येवमीश्वरम् ।तच्च सर्वगतं ब्रह्म विष्णुः सर्वेश्वरेश्वरः ।परमात्मा परः प्रोक्तः सर्वकारणकारणम् ३२अनन्तशक्तिमीशेशं स्वप्रतिष्ठमनोपमम् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३३यत्र सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३४सर्गादिकारणं यस्य स्वभावादेव शक्तयः ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३५निर्धूतपुण्यपापा यं विशन्त्यव्ययमीश्वरम् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३६तत्र योगवतः सम्यक् पुरुषस्य नरेश्वर ।यदुक्तं लक्षणं तन्मे गदतः श्रोतुमर्हसि ३७ब्रह्मण्येव स्थितं चित्तं सर्वतः सन्निवर्तितम् ।नान्यालम्बनसापेक्षं योगिनः सिद्धिकारकम् ३८संस्थानमविकारेण चेतसो ब्रह्मसंस्थितौ ।निवात इव दीपस्य योगिनः सिद्धिलक्षणम् ३९एवमेकाग्रचित्तस्य पुण्यापुण्यमशेषतः ।प्रयाति सङ्क्षयमृते देहारम्भकरे नृप ४०देहारम्भकरस्यापि कर्मणः सङ्क्षयावहः ।यो योगः पृथिवीपाल शृणु तस्यापि लक्षणम् ४१यत्तद्ब्रह्म परं प्रोक्तं विष्ण्वाख्यमजमव्ययम् ।चेतसः प्रलयस्तत्र योग इत्यभिधीयते ४२योगसेवानिरोधेन प्रलीने तत्र चेतसि ।पुरुषः कारनाभावाद्भेदं नैवानुपश्यति ४३परात्मनोर्मनुष्येन्द्रविभागो ज्ञानकल्पितः ।क्षये तस्यात्मपरयोर्विभागाभाग एव हि ४४परमात्मात्मनोर्योऽयमविभागः परन्तप ।स एव परमो योगः समासात्कथितस्तव ४५यथा कमण्डलौ भिन्ने तत्तोयं सलिले गतम् ।व्रजत्यैक्यं तथैवैतदुभयं कारणक्षयात् ४६यथाग्निरग्नौ सङ्क्षिप्तः समानत्वमनुव्रजेत् ।तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ४७एवं ब्रह्मात्मनोर्योगादकत्वमुपपन्नयोः ।न भेदः कलशाकाशनभसोरिव जायते ४८प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान् ।तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते ४९घटध्वंसे घटाकाशं न भिन्नं नभसो यथा ।ब्रह्मणा हेयविध्वंसे विष्ण्वाख्येन पुमांस्तथा ५०भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना ।क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ५१ततः समस्तकल्याणसमस्तसुखसम्पदाम् ।आह्लादमन्यमतुलं कमप्याप्नोति शाश्वतम् ५२ब्रह्मस्वरूपस्य तदा ह्यात्मनो नित्यदैव सः ।व्युत्तानकाले राजेन्द्रआस्ते हेयतिरोहितः ५३आदर्शस्य मलाभावाद्वैमल्यं काशते यथा ।ज्ञानाग्निदग्धहेयस्य सोऽह्लादो ह्यात्मनस्तथा ५४यथा न क्रियते ज्योत्स्ना मलप्रक्षालनादिना ।दोषप्रहाणं न ज्ञानमात्मनः क्रियते तथा ५५यथोदुपानकरणात्क्रियते न जलाम्बरम् ।सदैव नीयते व्यक्तिमसतः सम्भवः कुतः ५६यथा हेयगणध्वंसादवबोधादयो गुणाः ।प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हिते ५७ज्ञानवैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर ।आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ५८एतदद्वैतमाख्यातमेष योगस्तवोदितः ।अयं विष्णुरिदं ब्रह्म तथैतत्सत्यमुत्तमम् ५९पुनश्च श्रूयतामेष सङ्क्षेपाद्गदतो मम ।नानाद्वैकत्वविज्ञानस्वरूपमवनीपते ६०आत्मा क्षेत्रज्ञसञ्ज्ञोऽयं संयुक्तः प्राकृतैर्गुणैः ।तैरेव विगतैः शुद्धः परमात्मा निगद्यते ६१ध्येयं ब्रह्म पुमान्ध्याता उपायो ध्यानसञ्ज्ञितः ।यस्त्वेतत्करणेष्वास्ते तद्वर्गे का विभागता ६२सङ्क्षेपादपि भूपाल सङ्क्षेपनपरं शृणु ।पुत्राय यत्पिता ब्रूयात्स्वशिष्यायाथवा गुरुः ६३न वासुदेवात्परमस्ति किञ्चिन्न वासुदेवाद्गदितं परं च ।सत्यं परं वासुदेवोऽमितात्मा नमो नमो वासुदेवाय नित्यम् ६४तस्मात्तमाराधय चिन्तयेशमभ्यर्चयानन्तमतन्द्रितात्मा ।संसारपारं परमीप्समानैराराधनीयो हरिरेक एव ६५आराधितोऽर्थान्धनकाङ्क्षकानां धर्मार्थिनां धर्ममशेषधर्मी ।ददाति कामांश्च मनोनिविष्टान्मोक्षार्थिनां मुक्तिद एव विष्णुः ६६इति विष्णुधर्मेषु योगाध्यायः । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP