संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ४५ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ४५ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ४५ Translation - भाषांतर अथ पञ्चचत्वारिंशोऽध्यायः ।शौनक उवाच ।कौतूहलसमाविष्टः पप्रच्छेदं युधिष्ठिरः ।यमलोकस्य चाध्वानमन्तरं मानुषस्य च १कीदृशं किम्प्रमाणं वा कथं वान्तं जनार्दन ।तरन्ति पुरुषाः कृष्ण केनोपायेन संशमे २तस्य तद्वचनं श्रुत्वा विस्मितो मधुसूदनः ।प्रत्युवाच महात्मानं धर्मपुत्रं युधिष्ठिरम् ३भगवानुवाच ।साधु साधुरयं प्रश्नः श्रूयतां भो युधिष्ठिर ।षडशीतिसहस्राणि योजनानां नराधिप ४यमलोकस्य चाध्वानमन्तरं मानुषस्य च ।ताम्रपात्रमिवातप्तं शूलव्यामिश्रकण्टकम् ५द्वादशादित्यसङ्काशं भैरवं दुरतिक्रमम् ।न तत्र वृक्षा न च्छाया पानीयं केतनानि च ६यत्र विश्रमते श्रान्तः पुरुषोऽध्वानको नृप ।याम्यैर्दूतैर्नीयमानो यमस्याज्ञाकरैर्बलात् ७अवश्यं च महाराज स गन्तव्यो महापथः ।नरैः स्त्रीभिस्तथा तिर्यैः पृथिव्यां जीवसञ्ज्ञकैः ८एकविंशच्च नरका यमस्य विषये स्मृताः ।ये तु दुष्कृतकर्माणस्ते पतन्ति पृथक् पृथक् ९नरको रौरवो नाम महारौरव एव च ।क्षुरधारा महारौद्रः! सूकरस्ताल एव च १०वज्रकुम्भो महाघोरः शाल्मलोऽथ विमोहनः ।कीटादः कृमिभक्षश्च शाल्मलिश्च महाद्रुमः ११तथा पूयवहः पापा रुधिरान्धो महत्तमः ।अग्निज्वालो महानादः सन्दांशः शुनभोजनः ।तथा वैतरणी चोष्णा असिपत्त्रवनं तथा १२विष्णोस्तद्वचनं श्रुत्वा पपात भुवि पाण्डवः ।स सञ्ज्ञश्च मुहूर्तेन भूयः केशवमब्रवीत् १३युधिष्ठिर उवाच ।भीतश्चास्मि महाबाहो श्रुत्वा मार्गस्य विस्तरम् ।केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् १४भगवानुवाच ।ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव ।यो दद्याच्छ्रद्धया युक्तः सुखं याति महापथम् १५उपानहप्रदा यान्ति सुखं छायासु च्छत्त्रदाः ।न तेषामशुभं किञ्चिच्छूलादि न च कण्टकाः १६उपानहौ यो ददाति पात्रभूते द्विजोत्तमे ।अश्वतर्यः प्रदातारमुपतिष्ठन्ति तं नरम् १७वितृष्णाश्चाम्बुदातारस्तर्पिताश्चान्नदास्तथा ।औप्रावृता वस्त्रदाश्च नग्ना वै यान्त्यवस्त्रदाः १८हिरण्यदाः सुखं यान्ति पुरुषाः स्वाभ्यलङ्कृताः ।गोप्रदा यान्ति च सुखं विमुक्ताः सर्वकिल्बिषैः १९भूमिदाः सुखमधन्ते सर्वकामैः सुतर्पिताः ।यान्ति चैवापरिक्लिष्टा नराः शय्यासनप्रदाः २०ततः सुखतरं यान्ति विमानेषु गृहप्रदाः ।क्षीरप्रदा हि दिव्याभिः ससर्पिभिस्तथैव च २१गोप्रदाता लभेत्तृप्तिं तस्मिन्देशे सुदुर्लभाम् ।आरामरोपी च्छायासु शीतलासु सुखं व्रजेत् २२सुगन्धिगन्धिनो यान्ति गन्धमाल्यप्रदा नरः ।अदत्तदाना गच्छन्ति पद्भ्यां यानेन यानदाः ।दीपप्रदाः सुखं यान्ति दीपयन्तश्च तत्पथम् २३विमानैर्हंसयुक्तैस्तु यान्ति मासोपवासिनः ।चक्रवाकप्रयुक्तेन पञ्चरात्रोपवासिनः ।ततो बर्हिणयुक्तेन षड्रात्रमुपवासिनः २४त्रिरात्रमेकभक्तेन क्षपयेद्यस्तु पाण्डव ।अनन्तरं च योऽश्नीयात्तस्य लोका यथा मम २५पनीयं परलोकेषु पावनं परमं स्मृतम् ।पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती ।पानीयस्य गुणा दिव्याः प्रेतलोके सुखावहाः २६तत्र पुण्योदका नाम नदी तेषां प्रवर्तते ।शीतलं सलिलं तत्र पिबन्ति ह्यमृतोपमम् २७ये च दुष्कृतकर्माणः पूयं तेषां प्रवर्तते ।एषा नदी महाराज सर्वकामदुघा शुभा २८अध्वनि खिन्नगात्रस्तु द्विजो यः क्षुत्तृष्णान्वितः ।पृच्छन्सदान्नदातारमभ्येति गृहमाशया ।तं पूजय प्रयत्नेन सोऽतिथिर्ब्राह्मणः स्मृतः २९पितरो देवताश्चैव ऋषयश्च तपोधनाः ।पूजिताः पूजिते तस्मिन्निराशे तु निराशकाः ।तमेव गच्छन्तमनुव्रजन्ति देवाश्च सर्वे पितरस्तथैव ।तस्मिन्द्विजे पूजिते पूजितास्ते गते निराशे प्रतियान्ति नाशम् ३०अहन्यहनि दातव्यं ब्राह्मणेभ्यो युधिष्ठिर ।आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ३१इति विष्णुधर्मेषु याम्याख्यानकम् । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP