संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ७०

विष्णुधर्माः - अध्याय ७०

विष्णुधर्माः


अथ सप्ततितमोऽध्यायः ।
शौनक उवाच ।
इत्यसावात्मरक्षार्थं न्यस्तवान्विष्णुपञ्जरम् ।
तेनासाध्यः स दुष्टानां बभूव नृप रक्षसाम् १

एतयारक्षया रक्षो निर्धूतं भुवि पातितम् ।
जप्यावसाने विप्रोऽसौ ददर्श विगतौजसम् २

दृष्ट्वा च कृपयाविष्टः समाश्वास्य निशाचरम् ।
पप्रच्छागमने हेतुं तं चाचष्ट यथातथम् ।
कथयित्वा च तत्सर्वं राक्षसः पुनरब्रवीत् ३

प्रसीद विप्रवर्य त्वं निर्विण्णस्यातिपापिनः ।
पापप्रशमनायालमुपदेशं प्रयच्छ मे ४

बहूनि पापानि मया कृतानि बहवो हताः ।
कृताः स्त्रियश्च मे बह्व्यो विधवा हतपुत्रिकाः ।
अनागसां च सत्त्वानामनेकानां क्षयः कृतः ५

सोऽहमिच्छामि विप्रर्षे प्रसादात्तव सुव्रत ।
पापस्यास्य क्षयं कर्तुं कुरु मे धर्मदेशनाम् ६

ब्राह्मण उवाच ।
कथं क्रूरस्वभावस्य सतस्तव निशाचर ।
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ७

राक्षस उवाच ।
त्वामत्तुमागतः क्षिप्तो रक्षया कृतया त्वया ।
तत्संस्पर्शाच्च मे ब्रह्मन्साध्वेतन्मनसि स्थितम् ८

का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम् ।
किन्त्वस्याः सङ्गमासाद्य निर्वेदं प्रापितं परम् ९

स कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह ।
यथा पापापनोदो मे भवत्यार्य तथा कुरु १०

इत्येवमुक्तः स मुनिः सदयस्तेन रक्षसा ।
प्रत्युवाच महाभाग विमृश्य सुचिरं तदा ११

ब्राह्मण उवाच ।
यत्त्वमात्थोपदेशार्थं निर्विण्णः स्वेन कर्मणा ।
युक्तमेतन्न पापानां निवृत्तेरुपकारकम् १२

करिष्ये यातुधानानां न त्वहं धर्मदेशनाम् ।
तांस्त्वं पृच्छ द्विजान्सौम्य ये वै प्रवचने रताः १३

एवमुक्त्वा ययौ विप्रश्चिन्तामाप च राक्षसः ।
कथं पापापनोदः स्यादित्यसौ व्याकुलेन्द्रियः १४

न तदा खादते सत्त्वान्क्षुधा सम्पीडितोऽपि सन् ।
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् १५

स कदाचित्क्षुधाविष्टः पर्यटन्विपिने वने ।
ददर्शाथ फलाहारमग्रतः कौशिकं द्विजम् १६

तं जग्राह च भक्षार्थं षष्ठे काले बुभुक्षितः ।
गुरोरर्थे फलाहारमागतं ब्रह्मचारिणम् १७

गृहीतो रक्षसा तेन स तदा मुनिदारकः ।
निराशो जीविते प्राह सामपूर्वं निशाचरम् १८

ब्राह्मण उवाच ।
भो भद्रमुख यत्कार्यं गृहीतोऽहमिह त्वया ।
तद्ब्रवीहि यथातत्त्वमयमस्म्यनुशाधि माम् १९

राक्षस उवाच ।
षष्ठे काले ममाहारः क्षुधितस्य त्वमागतः ।
निःशूकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः २०

ब्राह्मण उवाच ।
यद्यवश्यं त्वयाध्याहं भक्षणीयो निशाचर ।
आयास्यामि तदद्यैव निवेद्य गुरवे फलम् २१

गुरुमूले तदागत्य यत्फलग्रहणं कृतम् ।
ममात्र निष्ठां प्राप्तस्य तत्पापाय निवेदितम् २२

स त्वं मुहूर्तमात्रं मामत्रैव प्रतिपालय ।
निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् २३

राक्षस उवाच ।
षष्ठे काले न मे ब्रह्मन्कश्चिद्ग्रहणमागतः ।
प्रमुच्यते निबोधैतदिति मे पापजीविकाम् २४

एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तम् ।
मुञ्चाम्यहमसन्दिग्धं यदि तत्कुरुते भवान् २५

ब्राह्मण उवाच ।
गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम् ।
तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम २६

राक्षस उवाच ।
मया निसर्गतो ब्रह्मञ्जातिदोषाद्विशेषतः ।
निर्विवेकेन पापेन पापं कर्म सदा कृतम् २७

आ बाल्यान्मम पापेषु न पुण्येषु रतं मनः ।
तत्पापसञ्चयान्मोक्षं प्राप्नुयां येन तद्वद २८

यानि पापानि कर्माणि बालत्वाच्चरितानि मे ।
दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज २९

यद्येतद्द्विजपुत्र त्वं ममाख्यास्यस्यशेषतः ।
तत्क्षुधार्तात्समार्तस्त्वं नियतं मोक्षमाप्स्यसि ३०

न चैतत्पापशीलोऽहमद्य त्वां क्षुत्पिपासितः ।
षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ३१

शौनक उवाच ।
एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा ।
चिन्तामवाप महतीमशक्तस्तदुदीरितुम् ३२

विमृश्य सुचिरं विप्रः शरणं जातवेदसम् ।
जगाम ज्ञानदानाय संशयं परमं गतः ३३

यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषणादनु ।
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ३४

न मातरं न पितरं गौरवेण यथा गुरुम् ।
यथाहमवगच्छामि तथा मां पातु पावकः ३५

यथा गुरुं न मनसा कर्मणा वचसापि वा ।
अवजानाम्यहं तेन पातु सत्येन पावकः ३६

शौनक उवाच ।
इत्येवं शपथान्सत्यान्कुर्वतस्तस्य तत्पुनः ।
सप्तार्चिषा समादिष्टा प्रादुरासीत्सरस्वती ।
सा चोवाच द्विजसुतं राक्षसग्रहणाकुलम् ३७

मा भैर्द्विजसुताहं त्वां मोक्षयाम्यतिसङ्कटात् ३८

यदस्य रक्षसः श्रेयो जिह्वाग्रेऽहं स्थिता तव ।
तत्सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ३९

अदृश्या रक्षसा तेन प्रोक्त्वेत्थं तं सरस्वती ।
अदर्शनमिता सोऽपि द्विजः प्राह निशाचरम् ४०

श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम् ।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ४१

प्राअरुत्थाय सततं मध्याह्नेऽह्नः क्षयेऽपि वा ।
अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ४२

हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् ।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ४३

विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम् ।
प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ४४

विष्णुमच्युतमीशानमनन्तमपराजितम् ।
प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ४५

चराचरगुरुं नाथं गोविन्दं शेषशायिनम् ।
प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ४६

गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम् ।
प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ४७

शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम् ।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ४८

दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम् ।
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ४९

नारायणं नरं शौरिं माधवं मधुसूदनम् ।
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ५०

केशवं केशिहन्तारं कंसारिष्टनिसूदनम् ।
प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ५१

श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् ।
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ५२

यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम् ।
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ५३

समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम् ।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ५४

सर्वगं सर्वभूतं च सर्वस्याधातमीश्वरम् ।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ५५

परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः ।
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ५६

पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम् ।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ५७

ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम् ।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ५८

ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः ।
सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ५९

ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम् ।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ६०

यः पाति सृष्टं च विभुः स्थितावसुरसूदनः ।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ६१

धृता मही हता दैत्याः परित्रातास्तथामराः ।
येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ६२

यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् ।
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ६३

वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि ।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ६४

कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत् ।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ६५

पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः ।
तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ६६

सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत् ।
यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ६७

सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः ।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ६८

समस्तदेवाः सकला मानुषाणां च जातयः ।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ६९

वृक्षगुल्मादयो यस्य तथा पशुमृगादयः ।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ७०

यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि ।
यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ७१

यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च ।
विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ७२

यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम् ।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ७३

प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा ।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ७४

यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः ।
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ७५

तिष्ठता व्रजता यच्च शय्यासनगतेन च ।
कृतं यदशुभं कर्म कायेन मनसा गिरा ७६

अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात् ।
तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ७७

परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत् ।
परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ७८

यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु ।
तद्यातु विलयं तोये यथा लवणभाजनम् ७९

यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम ।
वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ८०

तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात् ।
प्रयातु विलयं तोये यथा लवणभाजनम् ८१

विष्णवे वासुदेवाय हरये केशवाय च ।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ८२

इदं सारस्वतं स्तोत्रमशेषाघविनाशनम् ।
पठतां शृण्वतां चैव सर्वपापविनाशनम् ८३

इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम् ।
जपत्येकमनाः पापं समस्तं स व्यपोहति ८४

यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः ।
जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ८५

शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा ।
कृतं तेन तु यत्पापं सप्त जन्मान्तराणि वै ८६

महापातकमल्पं वा तथा यच्चोपपातकम् ।
सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ८७

विप्राय सुविशिष्टाय तिलपात्राणि षोडश ।
अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ८८

अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः ।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ८९

यथैनं पठति नित्यं स्तवं सारस्वतं पुमान् ।
अपि पापसमायुक्तो मोक्षं प्राप्नोत्यसावपि ।
यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा ।
राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ९०

एवमुच्चारिते मुक्तः स तदा तेन रक्षसा ।
अकामेन द्विजो भूयस्तमाह रजनीचरम् ९१

एतद्भद्रमुखाख्यातं तव पातकनाशनम् ।
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ९२

हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता ।
जगादेमं स्तवं विष्णोः सर्वपापप्रशान्तिदम् ९३

अनेनैव जगन्नाथं त्वमाराधय केशवम् ।
ततः पापापनोदं तु स्तुते प्राप्स्यसि केशवे ९४

अहर्निशं हृषीकेशं स्तवेनानेन राक्षस ।
स्तौहि भक्तिं परां कृत्वा ततः पापाद्विमोक्ष्यसे ९५

स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम् ।
भक्त्या राक्षसशार्दूल सर्वपापहरो हरिः ९६

शौनक उवाच ।
ततः प्रणम्य तं विप्रं प्रसाद्य च निशाचरः ।
शालग्रामं महाराज तदैव तपसे ययौ ९७

तत्राहर्निशमेवैतज्जपञ्जप्यं नराधिप ।
देवक्रियारतिर्भूत्वा तपस्तेपे स राक्षसः ९८

आराध्य च जगन्नाथं स तत्र पुरुषोत्तमम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ९९

तथा त्वमपि राजर्षे सर्वपापप्रशान्तिदम् ।
आराधय हृषीकेशं जपन्सारस्वतं स्तवम् १००

य एतत्परमं स्तोत्रं वासुदेवस्य मानवः ।
पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति १०१

इति विष्णुधर्मेषु सारस्वतस्तवः ।

N/A

References : N/A
Last Updated : February 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP