संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ३२

विष्णुधर्माः - अध्याय ३२

विष्णुधर्माः


N/Aअथ द्वात्रिंशोऽध्यायः ।
पुलस्त्य उवाच ।
दीपं प्रयच्छति नरो विष्णोरायतने हि यः ।
सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् १

कार्त्तिके तु विशेषेण कौमुदे मासि दीपकम् ।
दत्त्वा यत्फलमाप्नोति दाल्भ्य तत्केन लभ्यते २

दाल्भ्यान्यदपि वक्ष्यामि पुरावृत्तमिदं शृणु ।
विदर्भराजतनया ललिता यदुवाच ह ३

विदर्भराट्चित्ररथो बभूवास्त्रविशारदः ।
तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ४

एकैव कन्या दाल्भ्यासील्ललिता नामनामतः ।
सर्वलक्षणसम्पूर्णा भ्रातॄणां पितुरेव च ५

समस्तभृत्यवर्गस्य मातॄणां स्वजनस्य च ।
तथैव पौरवर्गस्य यश्चान्यो ददृशे शुभाम् ।
तस्य तस्यातिचार्वङ्गी बभूवेष्टा द्विजोत्तम ६

तां ददौ काशिराजाय स पिता चारुवर्मने ।
उपयेमे च तां सुभ्रूं चारुवर्मा महीपतिः ७

शतान्यन्यानि भार्याणां त्रीण्यासंश्चारुवर्मणः ।
तासां मध्येऽग्रमहिषी ललिता तस्य चाभवत् ८

सा च नित्यं जगद्धातुर्देवदेवस्य चक्रिणः ।
दीपवर्तिपरा तद्वत्तैलस्याहरणोद्यता ९

विष्णोरायतने तस्याः सहस्रं द्विजसत्तम ।
दीपानां वै प्रजज्वाल दिवारात्रमतन्द्रितम् १०

तस्या द्युतिपराभूतास्तस्या लावण्यनिर्जिताः ।
सर्वाः सपत्न्यो ललितां पप्रच्छुरिदमादितः ११

सपत्न्य ऊचुः ।
ललिते वद भद्रंते भद्रंते ललिते वद ।
कौतूहलपराः सर्वा यत्पृच्छामस्तदुच्यताम् १२

ललितोवाच ।
विषये सति वक्तव्यं यन्मया तदिहोच्यताम् ।
नाहं मत्सरिणी भद्रान च रागादिदूषिता १३

भवत्यो मम सर्वासां भवतीनामहं तथा ।
अपृथग्भर्तृसामन्या देवलोकाभिकामुकाः १४

सपत्न्य ऊचुः ।
पूर्वं यूयमहं चैव भवतीनां सधर्मिणी ।
न तथा पुष्पधूपेषु न तथा द्विजपूजने ।
प्रयत्नं तव पश्यामो विष्णोरायतने शुभे १५

यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि ।
तव दीपप्रदानाय यथा सुभ्रु सदोद्यमः १६

तदेतत्कथयास्माकं ललिते कौतुकं परम् ।
मन्यामो दीपदानस्य भवत्या विदितं फलम् १७

पुलस्त्य उवाच ।
एवमुक्ता ततस्ताभिर्ललिता ललितं वचः ।
व्याजहार सपत्नीस्ता न किञ्चिदपि भामिनी १८

पुनः पुनश्च सा ताभिर्बहुषो दाल्भ्य चोदिता ।
दाक्षिण्यसारा ललिता कथायामास भामिनी १९

कौतुकं भवतीनां चेदतीवाल्पेऽपि वस्तुनि ।
तदेषा कथयाम्येतद्यद्वृत्तं मम शोभनाः २०

सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः ।
तेन चायतनं विष्णोः कारितं देविकातटे २१

अहन्यहनि शुश्रूषां पुष्पधूपोपलेपनैः ।
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः २२

कार्त्तिके दीपको ब्रह्मन्प्रदत्तस्तेन वै तदा ।
आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि २३

देवतायतने चासं तत्राहमपि मूषिका ।
प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः २४

गृहीता च मया वर्तिर्वृषदंशो ननाद च ।
नष्टा चाहं तदा तस्य मार्जारस्य भयातुरा २५

वर्तिप्रान्तेन नश्यन्त्या स दीपः प्रेरितो मया ।
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः २६

मृताहं च ततो जाता वैदर्भी राजकन्यका ।
जातिस्मरा कान्तिमती भवतीनां समा गुणैः २७

एष प्रभावो दीपस्य कार्त्तिके मासि शोभनाः ।
दत्तस्य विष्ण्वायतने यस्येयं व्युष्टिरुत्तमा २८

असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया ।
विष्ण्वायतनदीपस्य यस्येदं भुज्यते फलम् २९

लोभाभिभूता हर्तुं तं प्रदीपमहमागता ।
अवशेनैव तद्वर्त्या प्रेरणं तत्र मे कृतम् ३०

ततो जातिस्मृतिर्जन्म मानुष्यं शोभनं वपुः ।
वश्यः पतिः पृथिवीशः किं पुनर्दीपदायिनाम् ३१

एतस्मात्कारणाद्दीपानहमेतानहर्निशम् ।
प्रयच्छामि हरेर्धाम्नि ज्ञातमस्य हि यत्फलम् ३२

भवतीनामिदं सत्यं मयोक्तं केशवालये ।
मूषिकत्वादहं येन कर्मणा सिद्धिमागता ३३

पुलस्त्य उवाच ।
एष प्रभावो दीपस्य कार्त्तिके मासि सत्तम ।
विष्ण्वायतनदत्तस्य जगाद ललिता यथा ३४

दिने दिने जगन्नाथ केशवेति समाहितः ।
ददाति कार्त्तिके यस्तु विष्ण्वायतनदीपकम् ३५

जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववस्तुषु ।
अव्याहतेन्द्रियत्वं च सम्प्राप्नोति न संशयः ३६

शेषकाले च चक्षुष्मान्मेधावी दीपदो नरः ।
जायते नरकं वापि तमःसञ्ज्ञं न पश्यति ३७

एकादशीं द्वादशीं वा प्रतिपक्षं च यो नरः ।
दीपं ददाति कृष्णाय तस्यापि शृणु यत्फलम् ३८

सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम् ।
दीपमालाकुलं दिव्यं विमानं सोऽधिरोहति ३९

तस्मादायतने विष्णोर्दद्याद्दीपं द्विजोत्तम ।
तांश्च दत्तान्न हिंसेत न च तैलवियोजितान् ।
कुर्वीत दीपहर्ता तु मूकोऽन्धो जायते यतः ४०

जायते नरकं चापि तपःसञ्ज्ञं स पश्यति ।
अन्धे तामसि दुष्पारे नरके पतितान्किल ।
विक्रोशमानान्क्षुत्क्षामाञ्जगाद यमकिङ्करः ४१

विलापैरलमत्रापि किं वो विलपिते फलम् ।
यदा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ४२

पूर्वमालोचितं नैतत्किमप्यन्ते भविष्यति ।
इदानीं यातनाभोगः किं विलापः करिष्यति ४३

देहो दिनानि स्वल्पानि विषयाश्चातिदुर्धराः ।
एतत्को न विजानाति येन यूयं प्रमादिनः ४४

जन्तुजन्मसहस्रेभ्य एतस्मिन्मानुष्यो यदि ।
तत्राप्यतिविमूढत्वात्किं भोगानभिधावति ४५

विरुद्धविषयास्वादमुदितैर्हसितं च यत् ।
भवद्भिरागतं दुःखं विलापपरिणामिकम् ४६

अद्यकालिकया बुद्ध्या यदागामि न चिन्तितम् ।
परितापाय तज्जातं दुःखं कर्मविपाकजम् ४७

स्वल्पमायुर्मनुष्याणां तदन्ते परतन्त्रता ।
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितम् ४८

यदभूत्परदारेषु प्रीतयेऽङ्गकुचादिकम् ।
यातनादुःखरूपाय नरके च तदागतम् ४९

परदारमनोहारि यद्भवद्भिरगीयत ।
हा मात इत्यादि रुतं तदिदानीं विलप्यते ५०

सन्दिग्धपरलोकानामैहिके निहतात्मनाम् ।
मृतानां स्वकृतं कर्म पश्चात्तापाय केवलम् ५१

मुहूर्तार्धसुखास्वादलुब्धानामकृतात्मनाम् ।
अनेकवर्षकोटिषु दुःखदं कर्म जायते ५२

हा मातस्तात तातेति भवद्भिः किं विलप्यते ।
शुभाशुभं निजं कर्म तदद्य ह्यत्र भुज्यते ५३

पुत्रदारगृहक्षेत्रहिताय सततोद्यताः ।
न कुर्वत्नि कथं मूढाः स्वल्पमप्यात्मनो हितम् ५४

वञ्चितोऽसौ मया लब्धमिदमस्मादुपायतः ।
न वेत्ति कश्चिदात्मार्थं वेत्ति प्रक्रमतो नरः ५६

न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च ।
साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च ५७

जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम् ।
तदर्थं यत्कृतं कर्म तस्य जन्मशतानि तत् ५८

अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि ।
क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् ५९

एवमाकृष्टचित्तानां विषयास्वादतर्षुलैः ।
नॄणां न जायते बुद्धिः परमार्थावलोकिनी ।
तथा च विषयासक्तिं करोत्यविरतं मनः ६०

कोऽतिभारो हरेर्नाम्नि जिह्वायाः परिकीर्तने ।
वर्तितैलेऽल्पमौल्येऽपि यदग्निर्लभ्यते मुधा ।
अतोऽधिकतरो लोभः को वश्चित्तेऽभवत्तदा ६२

येनेयं तेषु हस्तेषु स्वातन्त्र्! ये सति दीपकः ।
महाफलो विष्णुगृहे न दत्तो नरकापहः ६३

न वो विलपिते किञ्चिदिदानीं दृश्यते फलम् ।
अस्वातन्त्र्! ये विलपतां स्वातन्त्र्! येऽतिप्रमादिनाम् ६४

अवश्यम्पातिनः प्राणा भोक्ता जीवो ह्यहर्निशम् ।
दत्तं च लभते भोक्ता समये विषयानिति ६५

एतत्स्वातन्त्र्! यवद्भिर्वो युक्तमासीत्परीक्षितुम् ।
इदानीं किं विलापेन सहध्वं यदुपागतम् ६६

यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम् ।
तद्भूयोऽपि मतिः पापे न कर्तव्या कथञ्चन ६७

कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम् ।
कर्तव्यमव्यवस्थितं स्मरद्भिर्मधुसूदनम् ६८

पुलस्त्य उवाच ।
नारकास्तद्वचः श्रुत्वा तामूचुरतिदुःखिताः ।
क्षुत्क्षामकण्ठास्तृषया परिस्फुटिततालुकाः ६९

भो भो साधो कृतं कर्म यदस्माभिस्तदुच्यताम् ।
नरकस्थैर्विपाकोऽयं भुज्यते यस्य दारुणः ७०

किङ्कर उवाअ ।
युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः ।
द्यूतोद्योताय गोविन्दगृहाद्दीपः पुरा हृतः ७१

तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः ।
भवन्तः पतितास्तीव्रशीतवातविदारिताः ७२

पुलस्त्य उवाच ।
एतत्ते दीपदानस्य प्रदीपहरणस्य च ।
पुण्यं पापं च कथितं केशवायतने द्विज ७३

सर्वत्रैव हि दीपस्य प्रदानं द्विज शस्यते ।
विशेषेण जगद्धातुः केशवस्य निवेशने ७४

येऽन्धा मूका निःश्रुता निर्विवेका हीनास्तैस्तैः साधनैर्विप्रवर्य ।
तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतो विप्रणीताः ७५

इति विष्णुधर्मेषु दीपदानविधिर्नाम द्वात्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP