संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५८

विष्णुधर्माः - अध्याय ५८

विष्णुधर्माः


अथाष्टपञ्चाशोऽध्यायः ।
भगवानुवाच ।
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
एतत्पवित्रं परममेतत्स्वस्त्ययनं महत् १

दश पूर्वापरान्वंशानात्मानं च विशाम्यते ।
अपि पापशतं कृत्वा दत्त्वा विप्रेषु तारयेत् २

सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा ।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ३

अग्निर्हि देवताः सर्वाः सुवर्णं च हुताशनः ।
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः ४

अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् ।
सर्ववेदप्रमाणज्ञा वेदश्रुतिनिदर्शनात् ५

ये त्वेनं ज्वाअयित्वाग्निमादित्योदयनं प्रति ।
दद्युर्वै व्रतमुद्दिश्य सर्वान्कामानवाप्नुयुः ६

सुवर्णदः स्वर्गलोके कामानिष्टानुपाश्नुते ।
विरजाम्बरसंवीतः परियाति यतस्ततः ७

विमानेनार्कवर्णेन भास्वरेण विराजता ।
अप्सरोगणसङ्कीर्णे भास्वता स्वेन तेजसा ८

हंसबर्हिणयुक्तेन कामगेन नरोत्तमः ।
दिव्यगन्धवहः स्वर्गे परिगच्छेदितस्ततः ९

तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि ।
न ह्यतः परमं लोके सद्यः पापविमोचनम् १०

सुवर्णस्य तु शुद्धस्य सुवर्णं यः प्रयच्छति ।
बहून्यब्दसहस्राणि स्वर्गलोके महीयते ११

इति विष्णुधर्मेषु सुवर्णदानम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP