संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९४

विष्णुधर्माः - अध्याय ९४

विष्णुधर्माः


अथ चतुर्नवतितमोऽध्यायः ।
शतानीक उवाच ।
संसारार्णवमग्नेन पुरुषेण महामुने ।
विषयासक्तचित्तेन यत्कार्यं तद्वदस्व मे १

भ्राम्यतां सङ्कटे दुर्गे संसारे विषयैषिणाम् ।
स्वकर्मभिर्मनुष्याणामुपकारकमुच्यताम् २

क्षीप्ते मनस्यनायत्ते वृद्धे लोभादिके गणे ।
शरणं यन्मनुष्याणां तदाचक्ष्व महामुने ३

शौनक उवाच ।
संसाराणवपोताय हरये हरिमेधसे ।
नमस्कृत्य प्रवक्ष्यामि नराणामुपकारकम् ४

सम्यगाराधितो भक्त्या वेदभारगुरोर्गुरुः ।
कृष्णद्वैपायनः प्राह यच्छिष्याय सुमन्तवे ५

पुरा किल दुराचारो दुर्बुद्धिरजितेन्द्रियः ।
क्षत्रबन्धुरभूत्पापः परमर्मावघट्टकः ६

मातापित्रोरशुश्रूषुद्रोर्ग्धा! बन्धुजनस्य च ।
गुरुदेवद्विजातीनां निन्दासु सततोद्यतः ७

मोष्टा विश्वसतां नित्यमप्रीतिः प्रीतिमिच्छताम् ।
ऋजूनामनृजुः क्षुद्रः! परहिंसापरायणः ८

स बान्धवैः परित्यक्तस्तथान्यैः साधुवृत्तिभिः ।
अवृत्तिमानविश्वास्यो मृगयाजीवनोऽभवत् ९

अहन्यहनि चक्राङ्गानेणकादींस्तथा मृगान् ।
हत्वात्मपोषणं चक्रे व्याधवृत्तिरतोऽधमः १०

एतया तस्य दुष्टस्य कुवृत्त्या पापचेतसः ।
जगाम सुमहान्कालः कुर्वतो दारपोषणम् ११

एकदा तु मुनिस्तेन निदाघे विजने वने ।
मृगयामटता दृष्टो वर्त्मनः प्रच्युतः पथि १२

क्षुत्क्षामकण्ठः सुश्रान्तः शुष्कजिह्वास्यतालुकः ।
तृट्परीतोऽतिविभ्रान्तः कान्दिग्भूतोऽल्पचेतनः १३

श्वासायासश्लथैरङ्गैः कृच्छ्रादात्मानमुद्वहन् ।
सूर्यांशुतापात्प्रगलत्स्वेदार्द्रचरणो नृप १४

तस्मिन्दृष्टे ततस्तस्य क्षत्रबन्धोरजायत ।
कारुण्यं दारुणस्यापि व्याधवृत्तिपरिग्रहात् १५

तमुपेत्य च भूपाल क्षत्रबन्धुः स तापसम् ।
उवाच विप्रप्रवरं विमार्गे वर्तते भवान् १६

नैष पन्था द्विजश्रेष्ठ विपिनोऽयं महाटविः ।
मामन्वेहि त्वरायुक्तो मा विपत्तिं समेष्यसि १७

शौनक उवाच ।
निशाम्य तद्वचः श्रान्तः क्षत्रबन्धोर्महानुनिः ।
अनुवव्राज राजेन्द्रजलाशाजनितोद्यमः १८

किञ्चिद्भूभागमासाद्य ददर्श च महामुनिः ।
हंसकारण्डवाकीर्णं प्रोत्फुल्लनलिनं सरः १९

सारसाभिरुतं रम्यं सूपतीर्थमकर्दमम् ।
पद्मोत्पलयुतं चारु पूर्णं स्वच्छेन वारिणा २०

सुशीतवनषण्डैश्च समन्तात्परिवेष्टितम् ।
तत्क्षणात्तृट्परीतानां चक्षुषो ह्लादकारिणम् २१

दृष्ट्वैव स मुनिस्तत्र तदामलजलं सरः ।
सूर्यांशुतप्तो घर्मार्तो निपपात तदम्भसि २२

तत्राश्वास्य कृताह्लादः पपौ वारि नराधिप ।
उज्जीवयन्मुनिवरो जिह्वातालु शनैः शनैः २३

सोऽपि क्षत्रियदायादो मुनित्राणपरायणः ।
विहाय सशरं चापमुज्जहार बिसान्यथ २४

ददौ च तस्मै राजेन्द्रक्षुधिताय तपस्विने ।
ययौ च तृप्तिं विप्रोऽपि बिसनालाम्बुभक्षणात् २५

तमाश्वस्तं कृताहारमुपविष्टं सुशीतले ।
न्यग्रोधशाखासञ्छन्ने निष्पङ्के सरसस्तटे ।
संवाहयामास च तं क्षत्रबन्धुः शनैः शनैः २६

पादजङ्घोरुपृष्टेषु तेन संवाहितो मुनिः ।
जहौ श्रमममित्रघ्न वाक्यं चेदमुवाच ह २७

ब्राह्मण उवाच ।
कस्त्वं भद्रमुखाद्येह मम प्राणपरिक्षये ।
हस्तावलम्बदो धात्रा जनितो विपिने वने २८

विभ्रष्टमार्गो मूढोऽहं क्षुत्पिपासाश्रमातुरः ।
त्रातस्त्वयामहाभाग कस्त्वमत्र वनेऽजने २९

क्षुत्पिपासाश्रमार्तस्य यस्त्राणं विपिने वने ।
करोति पुरुषव्याघ्र तस्य लोका मधुश्च्युतः ३०

स त्वं ब्रूहि महाभाग ममाभ्युद्धारकारकः ।
येषां प्रख्यातयशसां समुत्पन्नः कुले भवान् ३१

क्षत्रबन्धुरुवाच ।
हर्यश्वस्य कुले जातः पुत्रश्चित्ररथस्य च ।
विमतिर्नाम नाम्नाहं हन्तुमभ्यागतो मृगान् ३२

ब्राह्मण उवाच ।
पित्रर्थं मृगयेयं ते लक्ष्यार्थं वा महामते ।
आहारार्थमुताहोऽत्र मृगया व्यसनं तु ते ३३

क्षत्रबन्धुरुवाच ।
वृत्तिरेषा मम ब्रह्मन्परित्यक्तस्य बान्धवैः ।
भृत्यैरन्यैश्च नष्टेऽर्थे निर्धनस्यामिषाशिनः ३४

ब्राह्मण उवाच ।
किमर्थं त्वं परित्यक्तो भृत्यस्वजनबन्धुभिः ।
पातकी कीकटः क्षुद्रैरुपजप्तः परेण वा ३५

शौनक उवाच ।
इत्युक्तः सोऽभवन्मौनी पश्यन्दोषं नृपात्मनि ।
अदुष्टांश्चात्मनो भृत्यान्विचिन्त्यातीव दुर्मनाः ३६

अवेक्ष्य तं साध्वसिनं क्षत्रबन्धुं महामुनिः ।
ध्यात्वा चिरमथापश्यत्क्षत्रबन्धुं स्वदोषिणम् ३७

सन्त्यक्तबन्धुलोके च तस्मिन्दुर्वृत्तचेतसि ।
कृपां चकार स मुनिः ।
क्षत्रबन्धौ दयापरः ३८

उवाच च मुनिर्भूयः क्षत्रबन्धुं कृपालुकः ।
उपकारिणमुग्रेण कर्मणा तं विदूषितम् ३९

अपि शक्नोषि संयन्तुमकार्यप्रसृतं मनः ।
प्राणि पीडानिवृत्तिं च कर्तुं क्रोधादिसंयमम् ४०

अपि मैत्रीं जने कर्तुं शक्नोषि त्वं मुधैव या ।
ऐहिकामुष्मिकी वीर क्रियमाणा महाफला ४१

क्षत्रबन्धुरुवाच ।
न शक्नोमि क्षमां कर्तुं न मैत्रीं मम चेतसि ।
प्राणिनामवधाद्ब्रह्मन्नास्ति दारादिपोषणम् ४२

अनायत्तं च मे चित्तं विषयानेव धावति ।
तदप्राप्तौ च सर्वेषां क्रोधादीनां समुद्भवः ४३

सोऽहं न मैत्रीं न क्षान्तिं न हिंसादिविवर्जनम् ।
कर्तुं शक्नोमि यत्कार्यं तदन्यदुपदिश्यताम् ४४

शौनक उवाच ।
तेनैवमुक्तो विप्रोऽसौ तमुपेक्ष्यममन्यत ।
तथाप्यतिकृपालुत्वात्क्षत्रबन्धुमभाषत ४५

ब्राह्मण उवाच ।
यद्येतदखिलं कर्तुं न शक्नोषि ब्रवीहि मे ।
स्वल्पमन्यन्मयोक्तं हि करिष्यति भवान्यदि ४६

क्षत्रबन्धुरुवाच ।
अशक्यमुक्तं भवता चञ्चलत्वाद्धि चेतसः ।
वाक्शरीरविनिष्पाद्यं यच्छक्यं तदुदीरय ४७

ब्राह्मण उवाच ।
उत्तिष्ठता प्रस्वपता प्रस्थितेन गमिष्यता ।
गोविन्देति सदा वाच्यं क्षुतप्रस्खलितादिषु ४८

कार्यं वर्त्मनि मूढानां क्षेममार्गेऽवतारणम् ।
हितं च वाच्यं पृष्टेन शत्रूणामपि जानता ४९

एतत्तवोपकाराय भविष्यत्यनुपालितम् ।
यद्यन्यदुपसंहर्तुं न शक्नोषि महीपते ५०

शौनक उवाच ।
इत्युक्त्वा प्रययौ विप्रस्तेन वर्त्मनि दर्शिते ।
सोऽपि तच्छासनं सर्वं क्षत्रबन्धुश्चकार ह ५१

गोविन्देति क्षुते गच्छन्प्रस्थानस्खलितादिषु ।
उदीरयन्नवापाग्र्यां रतिं तत्र शनैः शनैः ५२

ततः कालेन महता क्षत्रबन्धुर्ममार वै ।
अजायत च विप्रस्य कुले जातिस्मरो नृप ५३

तस्य संस्मरतो जातीः शतशोऽथ सहस्रशः ।
निर्वेदः सुमहाञ्जज्ञे संसारेऽत्रातिदुःखदे ।
स चिन्तयामास जगत्सर्वमेतदचेतनम् ५४

अहमेकोऽत्र सञ्ज्ञावान्गोविन्दोदीरितं हि यत् ।
यच्चाध्वनि विमूढानां कृतं वर्त्मावतारणम् ।
हितमुक्तं च पृष्टेन तस्य जातिस्मृतिः फलम् ५५

सोऽहं जातिस्मरो भूयः करिष्याम्यतिसङ्कटे ।
तदा संसारचक्रेऽस्मिन्येन प्राप्स्यामि निर्वृतिम् ५६

यस्योच्चारणमात्रेण जाता जातिस्मृतिर्मम ।
तमेवाराधयिष्यामि जगतामीश्वरं हरिम् ५७

यन्मयं परमं ब्रह्म तदव्यक्तं च यन्मयम् ।
यन्मयं व्यक्तमप्येतद्भविष्यामि हि तन्मयः ५८

यद्यनाराधिते विष्णौ ममैतज्जन्म यास्यति ।
ध्रुवं बन्धवतो मुक्तिर्नैव जातूपपद्यते ५९

अहो दुःखमहो दुःखमहो दुःखमतीव हि ।
स्वरूपमतिघोरस्य संसारस्यातिदुर्लभम् ६०

विण्मूत्रपूयकलिले गर्भवासेऽतिपीडनात् ।
अशुचावतिबीभत्से दुःखमत्यन्तदुःसहम् ६१

दुःखं च जायमानानां गात्रभङ्गादिपीडनात् ।
वातेन प्रेर्यमाणानां मूर्छाकार्यतिभीतिदम् ६२

बालत्वे निर्विवेकानां भूतदेवात्मसम्भवम् ।
यौवने वार्द्धके चैव मरणे चातिदारुणम् ६३

शीतोष्णतृष्णाक्षुद्रोगज्वरादिपरिवारितः ।
सर्वदैव पुमानास्ते यावज्जन्मान्तसंस्थितिः ६४

दुःखातिशयभूतं हि यदन्ते वासुखं नृणाम् ।
तस्यानुमानं नैवास्ति कार्येणैवानुमीयते ६५

कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुःसहम् ।
दुःखं तत्संस्मृतिप्राप्तं करोति मम वेपथुम् ६६

कुम्भीपाके तप्तकुम्भे महारौरवरौरवे ।
कालसूत्रे महायन्त्रे शूकरे कूटशाल्मलौ ६७

असिपत्रवने दुःखमप्रतिष्ठे च यन्महत् ।
विडालवक्त्रे च तथा तमस्युग्रे च दुःसहम् ६८

शस्त्राग्नियन्त्रवेगेषु शीतोष्णादिषु दारुणम् ।
ततश्च मुक्तस्य पुनर्योनिसङ्क्रमणेषु यत् ६९

गर्भस्थस्य च यद्दुःखमतिदुःसहमुल्वणम् ।
पुनश्च जायमानस्य जन्म यौवनजं च यत् ७०

दुःखान्येतान्यसह्यानि संसारान्तर्विवर्तिभिः ।
पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः ७१

न वै सुखकला काचित्तत्रास्त्यत्यन्तदुःखदे ।
संसारसङ्कटे तीव्रे उपेतानां कदाचन ७२

विषयासक्तचित्तानां मनुष्याणां कदा मतिः ।
संसारोत्तारणे वाञ्छां करिष्यति हि चञ्चला ७३

गोविन्दनाम्ना सततं समुच्चारणसम्भवम् ।
जातिस्मरत्वमेतन्नः किं वृथैव प्रयास्यति ७४

सोऽहं मुक्तिप्रदानार्थमनन्तमजमव्ययम् ।
तच्चित्तस्तन्मयो भूत्वा तोषयिष्यामि केशवम् ७५

शौनक उवाच ।
आत्मानमात्मनैवं स प्रोक्त्वा जातिस्मरो द्विजः ।
तुष्टाव वाग्भिरिष्टाभिः प्रणतः पुरुषोत्तमम् ७६

ब्राह्मण उवाच ।
प्रणिपत्याक्षरं विश्वं विश्वहेतुं निरञ्जनम् ।
यत्प्रार्थयाम्यविकलं सकलं तत्प्रयच्छतु ७७

कर्तारमकृतं विष्णुं सर्वकारणकारणम् ।
अणोरणीयांसमजं सर्वव्यापिनमीश्वरम् ७८

परात्परतरं यस्मान्नास्ति सर्वेश्वरात्परम् ।
तं प्रणम्याच्युतं देवं प्रार्थयामि यदस्तु तत् ७९

सर्वेश्वराच्युतानन्त परमात्मञ्जनार्दन ।
संसाराब्धिमहापोत समुद्धर महार्णवात् ८०

व्योमानिलाग्न्यम्बुधरास्वरूप तन्मात्रसर्वेन्द्रियबुद्धिरूप ।
अन्तःस्थितात्मन्परमात्मरूप प्रसीद सर्वेश्वर विश्वरूप ८१

तमादिरन्तो जगतोऽस्य मध्यमादेस्त्वमादिः प्रलयस्य चान्तः ।
त्वत्तो भवत्येतदशेषमीश त्वय्येव चान्ते लयमभ्युपैति ८२

प्रदीपवर्त्यन्तगतोऽग्निरल्पो यथातिकक्षे विततं प्रयाति ।
तद्वद्विसृष्टेरमरादिभिन्नैर्विकाशमायासि विभूतिभेदैः ८३

यथा नदीनां बहवोऽम्बुवेगाः समन्ततोऽब्धिं भगवन्विशन्ति ।
त्वय्यन्तकाले जगदच्युतेदं तथा लयं गच्छति सर्वभूते ८४

त्वं सर्वमेतद्बहुधैक एव जगत्पते कार्यमिवाभ्युपेतम् ।
यदस्ति यन्नास्ति च तत्त्वमेव हरे त्वदन्यद्भगवन्किमस्ति ८५

किन्त्वीश माया भवतो निजेयमाविष्कृताविष्कृतलोकसृष्टे ।
ययाहमेषोऽन्यतमो ममेति मदीयमस्याभिवदन्ति मूढाः ८६

तया विमूढेन मयाभनाभ न यत्कृतं तत्क्वचिदस्ति किञ्चित् ।
भूम्यम्बराग्निसलिलेषु देव जाग्रत्सुषुप्तादिषु दुःखितेन ८७

न सन्ति तावन्ति जलान्यपीड्य सर्वेषु नाथाब्धिषु सर्वकालम् ।
स्तन्यानि यावन्ति मयातिघोरे पीतानि संसारमहासमुद्रे८८

सम्पच्छिलानां हिमवन्महेन्द्रकैलासमेर्वादिषु नैव तादृक् ।
देहान्यनेकान्यनुगृह्णतो मे प्राप्तास्थिसम्पन्महति यथेश ८९

त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्धरोऽपि ।
रागो हि वश्यं कुरुते ततोऽनु लोभादयः किं भगवन्करोमि ९०

एकाग्रतामूल्यबलेन लभ्यं भवौषधं त्वं भगवन्किलैकः ।
मनः परायत्तमिदं भवेऽस्मिन्संसारदुःखात्किमहं करोमि ९१

न सन्ति ते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः ।
अत्ता मया येषु न जन्तवश्च सम्भक्षितो यैश्च न जन्तुसङ्घैः ९२

सिंहेन भूत्वा बहवो मयात्ता व्याघ्रेण भूत्वा बहवो मयात्ताः ।
तथान्यरूपैर्बहवो मयात्ताः सम्भक्षितोऽहं बहुभिस्ततश्च ९३

उत्क्रान्तिदुःखान्यतिदुःसहानि सहस्रशो यान्यनुसंस्मरामि ।
तैः संस्मृतैस्तत्क्षणमेव देव तडिद्यथा मे हृदयं प्रयाति ९४

ततश्च दुःखान्यनिवारणानि यन्त्राग्निशस्त्रौघसमुद्भवानि ।
भवन्ति यान्यच्युत नारकानां तान्येव तेषामुपमानमात्रम् ९५

दुःखान्यसह्यानि च गर्भवासे विण्मूत्रमध्येऽतिनिपीडितस्य ।
भवन्ति यानि च्यवतश्च गर्भात्तेषां स्वरूपं गदितुं न शक्यम् ९६

दुःखानि बालेषु महन्ति नाथ कौमारके यौवनिनश्च पुंसः ।
ज्वरातिसाराक्षिरुगादिकानि समस्तदुःखालय एव वृद्धः ९७

करोति कर्माच्युत तत्क्षणेन पापं नरः कायमनोवचोभिः ।
यस्याब्दलक्षैरपि नान्तमेति शस्त्रादियन्त्राग्निनिपीडनेषु ९८

दुःखानि यानीष्टवियोगजानि भवन्ति संसारविहारभाजाम् ।
प्रत्येकशस्तेषु नरा विनाशमिच्छन्त्यसूनां ममताभिभूताः ९९

शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं न जलं पयोदा ।
तावत्प्रमाणं न जलं पयोदा मुञ्चन्त्यनेकैरपि वर्षलक्षैः १००

मन्ये धरित्री परमाणुसङ्ख्यामुपैति पित्रोर्गणनामशेषम् ।
मित्राण्यमित्राण्यनुजीविबन्धून्सङ्ख्यातमीशोऽस्मि न देवदेव १०१

सोऽहं भृशार्तः करुणां कुरु त्वं संसारगात्रे पतितस्य विष्णो ।
महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यतिदुर्गतोऽपि १०२

परायणं रोगवतां हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य ।
बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेकः १०३

प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार ।
मामुद्धरास्मादुरुदुःखपङ्कात्संसारगर्तात्स्वपरिग्रहेण १०४

धर्मात्मनामविकलां त्वयि नाथ भक्तिं ।
श्रद्धावतां सततमुद्वहतां वरेण्य ।
कार्यं कियन्मम विमूढधियोऽधमस्य ।
भूत्वा कृपालुरमलामज देहि बुद्धिम् १०५

ज्ञात्वा ययाखिलमसारमसारमेव ।
भूतेन्द्रियादिकमपारममुक्तिमूलम् ।
मायान्तरेयमचलां तव विश्वरूप ।
सम्मोहितं सकलमेव जगद्ययैतत् १०६

ब्रह्मेन्द्ररुद्रमरुदश्विदिवाकराद्या ।
ज्ञातुं न यं परमगुह्यतमं समर्थाः ।
न त्वामलं स्तुतिपथेष्वहमीशितारं ।
स्तोष्यामि मोहकलुषाल्पमतिर्मनुष्यः १०७

यस्मादिदं भवति यत्र जगत्तथेदं ।
यस्मिंल्लयं व्रजति यश्च जगत्स्वरूपः ।
तं सर्गसंस्थितिविनाशनिमित्तभूतं ।
स्तोतुं भवन्तमलमीश न कश्चिदस्ति १०८

मूढोऽयमल्पमतिरल्पसुचेष्टितोऽयं ।
क्लिष्टं मनोऽस्य विषयैर्न मयि प्रसङ्गि ।
इत्थं कृपां कुरु मयि प्रणते किलेश ।
त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः १०९

यस्योदरे सकल एव महीध्रचन्द्रदेवेन्द्ररुद्रमरुदश्विदिवाकराग्निभूम्यम्बुवायुगगनं जगतां समुहां ।
स्तोष्यामि तं स्तुतिपदैः कतमैर्भवन्तम् ११०

यस्याग्निरुद्रकमलोद्भववासवाद्यैः ।
स्वांशावतारकरणेषु सदाङ्घ्रियुग्मम् ।
अभ्यर्च्यते वद हरे स कथं मयाद्य ।
सम्पूजितः परमुपैष्यसि तोषमीश १११

न स्तोतुमच्युत भवन्तमहं समर्थो ।
नैवार्चनैरलमहं तव देव योग्यः ।
चित्तं च न त्वयि समाहितमीश दोषैर् ।
आक्षिप्यते कथय किं नु करोमि पापः ११२

तत्त्वं प्रसीद भगवन्कुरु मय्यनाथे ।
विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नमनन्त दीनम् ।
उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ११३

शौनक उवाच ।
इत्थं तेन नरव्याघ्र स्तुतो भक्तिमता ततः ।
संसारबन्धभीतेन कृष्णः प्रत्यक्षतां ययौ ११४

स तं प्रत्यक्षमीशानमनन्तमपराजितम् ।
देवदेवमुवाचेदमनादिनिधनं हरिम् ११५

शिरसा धरणीं गत्वा यतवाक्कायमानसः ।
परापरेश्वरं विष्णुं जिष्णुमाद्यमनोपमम् ११६

दिव्याक्षरपदानन्त प्रसन्नो भगवान्यदि ।
तद्देव देहि दीनाय मह्यमेकमिमं वरम् ११७

देवदेव उवाच ।
वरं वरय मत्तस्त्वं यत्ते मनसि वर्तते ।
वरार्थिनां द्विजश्रेष्ठ नाफलं मम दर्शनम् ११८

ब्राह्मण उवाच ।
जन्मसम्पच्चिता देव पापसम्पन्ममाखिला ।
प्रयातु नाशमीशेश त्वत्प्रसादादधोक्षज ११९

देवदेव उवाच ।
भक्तिभावपरेणाद्य मन्मयेन द्विजोत्तम ।
यः स्तुतोऽस्मि क्षयं पापं तेनैवाखिलमागतम् १२०

अस्मत्तो वरयेहाद्य द्विजवर्यापरं वरम् ।
मयि भक्तिमतामत्र लोके किञ्चिन्न दुर्लभम् १२१

ब्राह्मण उवाच ।
धन्योऽस्मि सर्वनाथेन यत्कृतो मय्यनुग्रहः ।
तदेकमेव त्वत्तोऽहं वरमिच्छामि केशव १२२

निर्धूतसर्वपापेभ्यो नाथ पुण्यक्षयान्मम ।
त्वत्परस्यास्तु गोविन्द मा पुनर्देहसम्भवः १२३

यदक्षरं यदचलं व्यापि सूक्ष्मं च यत्परम् ।
विशेषाइरविशेषं च गच्छेयं तत्पदं तव १२४

शौनक उवाच ।
एवं भविष्यतीत्युक्त्वा प्रसादसुमुखस्ततः ।
भूपाल तं द्विजश्रेष्ठं गतोऽन्तर्धानमीश्वरः १२५

तत्प्रसादाद्द्विजः सोऽपि तन्मयस्तद्व्यपाश्रयः ।
प्रक्षीणकर्मबन्धस्तु प्रयातः परमं पदम् १२६

एवमक्षीणपापोऽपि जगतामीश्वरेश्वरम् ।
व्यपाश्रितो हरिं याति पापमुक्तः परं पदम् १२७

एतत्त्वया नाव्रतिने न चाशुश्रूषवे परम् ।
आख्येयं राजशार्दूल यश्च नार्चयते हरिम् १२८

विष्णुभक्ताय दान्ताय व्रतिने पुण्यशीलिने ।
कथनीयमिदं भूप रहस्यं परमं हरेः १२९

इति विष्णुधर्मेषु क्षत्रबन्धूपाख्याने कारुण्यस्तवः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP